Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 119
________________ तिलकमञ्जरी १०७ मुन्मुक्तवातायनस्त्वरिततरमायतनान्निर्गत्य तं पाठशब्दमनुसरन्ना मोदिहरिचन्द नोदकच्छटासिक्तेन मौक्तिकचतुष्कविरचनाचारुणा कुङ्कुमारुणाभिरङ्गनाचरणपद्ममुद्रा भिर्द्विगुणितकनकपङ्कजोपहारेण झङ्कारानुमीयमानपरिमलान्धनिलीन मधुलिहा महानीलमणिकुट्टिमेन व्योम्नेव यामिनीपतिर्याम्यदिङ्मुखाभिमुखः पदशतमात्र मन्तरं जगतीमध्य एव जगाम [ फ ] । गत्वा च संपिण्डितसुरचापपरमाणुनिवहमनोहराकारमनेकवर्णतया, क्वचिद् वधूलोचनयुगमिव कृष्णतारोचितम्, कचिद् विन्ध्याचलमिव धवलताक्रान्तम्, क्वचित् सुग्रीवमिव कपिशतान्वितम्, क्वचिद् दशास्यमिव नीललोहितप्रभावाप्तश्रियम्, विजयार्धशैलमिव मालिकात्रयमनोहरम्, पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम्, विपिनमिव कपोतपालीकलितमुल्लसितकोमलार्करोचिषं टिप्पनकम् - वधूलोचनयुगमिव कृष्णतारोचितम् एकत्र कालतारिकायोग्यम्, अन्यत्र श्यामत्वशोभितम् । विन्ध्याचलमिव धवलताक्रान्तम्, एकत्र धवतरूचम्पका दिलताव्याप्तम्, अन्यत्र शुभ्रताव्याप्तम् । सुग्रीवमिव कविशतान्वितम्, वानरशतयुक्तम्, अन्यत्र पीतत्वयुक्तम् । दशास्यमिव नीललोहितप्रभावाप्तश्रियम्, एकत्र शङ्करप्रभावप्राप्तलक्ष्मीकम्, अन्यत्र कृष्णरक्ततेजः प्राप्तशोभम् । विजयार्धशैलमिव मालिकात्रयमनोहरम् उभय भूमिकात्रयमनोहरम्, विजयार्धः - वैताढ्यः । पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम्, एकत्र चन्द्रसूर्यशोभितम्, अन्यत्र कलशसहितमञ्जरीकिरणराजितम् । विपिनमिव कपोतपालीकलितम्, एकत्र कपोतपक्षिपङ्क्तियुक्तम्, वातायनः त्यक्तगवाक्षः सन्, आयतनात् प्रकृतमन्दिरात् त्वरिततरं शीघ्रतरं निर्गत्य बहिर्भूय तं प्रकृतं पाठशब्दं पठ्यमानशब्दम्, अनुसरन् अनुगच्छन्, आमोदिहरिचन्दनोदकच्छटा सिक्तेन आमोदिनीभिः-उत्कटगन्धाढ्याभिः, हरिचन्दनोदकच्छटाभिः - चन्दनविशेष मिश्रित जलधाराभिः सिक्तेन - आप्लावितेन, पुनः मौक्तिकचतुष्कविरचनाचारुणा मौक्तिकचतुष्कस्य मुक्तामणिवेदिकायाः, विरचनया - निर्माणेन, चारुणा - मनोहरेण, पुनः कुङ्कुमारुणाभिः कुङ्कुमद्रवरक्ताभिः, अङ्गनाचरणपद्ममुद्राभिः नारीपदपङ्कजाकृतिभिः, द्विगुणितकनकपङ्कजोपहारेण द्विगुणित:द्वैगुण्यमापादितः, कनकपङ्कजोपहारः - सुवर्णकमलरूपोपहारो यस्मिंस्तादृशेन, पुनः झङ्कारानुमीयमानपरिमलान्धनिलीनमधुलिहा झङ्कारेण ध्वनिविशेषेण हेतुना, अनुमीयमानाः - आनुमित्यात्मकज्ञानविषयीक्रियमाणाः, परिमलान्धाः - सौरभाकृष्टाः, निलीनाः - संश्लिष्टाः, मधुलिहाः - भ्रमरा यस्मिंस्तादृशेन, महानीलमणिकुट्टिमेन इन्द्रनीलमणिबद्धप्रदेशेन, व्योम्ना आकाशेन, यामिनीपतिः निशापतिः, चन्द्र इत्यर्थः, इव, याम्य दिङ्मुखाभिमुखः दक्षिणदिक्संमुखः सन् जगतीमध्य एव भूतलमध्य एव, वप्रमध्य एव वा, पदशतमात्रं शतसंख्यकपदप्रमाणम्, अन्तरं दूरं जगाम गतवान् [फ ] । च पुनः, गत्वा, म छात्रायाश्रमम् ऐक्षिष्ट दृष्टवान् इत्यग्रेणान्वेति; कीदृशम् ? सम्पिण्डितसुरचापपरमाणुनिवहमनोहराकारं सम्पिण्डितानां-सम्पुञ्जितानां, सुरचापपरमाणूनाम् - इन्द्रधनुः - परमाणूनां निवह इव- समूह इव, मनोहरः - सुन्दरः, आकारः - अवयवसन्निवेशो यस्य तादृशम् पुनः अनेकवर्णतया बहुवर्णविशिष्टतया, क्वचित् कस्मिंश्चिदंशे, वधूलोचनयुगलमिव नारीनयनद्वयमिव; कृष्णता रोचितम् कृष्णतया - कृष्णवर्णेन - रोचितम्, पक्षे कृष्णया - कृष्णवर्णया, तारया - कनीनिकया, उचितम् - परिचितं, नित्यमधिष्ठितमित्यर्थः यद्वा कृष्णताराया उचितं - योग्यम्; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, विन्ध्याचलमिव विन्ध्यपर्वतमिव धवलताक्रान्तं धवलतया - शुभ्रतया, पक्षे धवलताभिः - धवाख्यतरुचम्पकादिलताभिः, आक्रान्तं - व्याप्तम् ; पुनः क्वचित् कस्मिंश्चिद् भागे, सुग्रीवमिव तत्संज्ञककपिप्रवरमिव; कपिशतान्वितं कपिशतया - कृष्णशबलितपीतवर्णेन, पक्षे कपिशतेन - शतसंख्यक कपिभिः, अन्वितं - संवलितम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, दशास्यमिव रावणमिव, नीललोहितप्रभावाप्तश्रियं नीललोहिताभ्यां कृष्णरक्ताभ्यां प्रभाभ्यां - छविभ्याम्, अवाप्ता प्राप्ता, श्री: - शोभा येन, पक्षे कण्ठनीलः, केशेषु लोहितः-रक्त इति नीललोहितः शिवः, रावणोपास्यदेवः, तत्प्रभावेण - तदैश्वर्येण, अवाप्ता प्राप्ता, श्री:- राज्यलक्ष्मीर्येन तादृशम् ; पुनः विजयार्धशैलमिव चक्रवर्तिजेयो भूभागो विजयः, तस्य अर्धे - अर्धभागे, यः शैलः - पर्वतः स विजयार्धशैलः, वैतान्यपर्वत इत्यर्थः, तमिव मालिकात्रयमनोहरं मालिकान्त्रयेण - भूमिकात्रण, मूल-नितम्ब शिखरोद्भासिना भूमिकात्रयेणेत्यर्थः, पक्षे उभयपार्श्वयोर्भूखण्डत्रयेण वा मनोहरं - सुन्दरम् ; पुन: पौर्णमासीदिनावसानमिव पूर्णो मासोऽस्यां सा पौर्णमासी, पूर्णचन्द्रोल्लासिरजनी, चान्द्रमासान्तिमतिथिः, तद्दिनान्तमिव, सकलशशिखरांशुभूषितं सकलशस्य - कलशविशिष्टस्य, शिखरस्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202