Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१०९ "आकल्पान्तमर्थिकल्पद्रुम ! चन्द्रमरीचिसमरुचि-प्रचुरयशोशुभरितविश्वंभर ! भरतान्वयशिरोमणे! । जनवन्द्यानवद्यविद्याधर ! विद्याधरमनस्विनी-मानसह रिणहरण! हरिवाहन ! वह धीरोचितां धुरम् ।।" [म] ।
दृष्टमात्र एव च तत्र संजातपरमोच्छासः प्रथमपाथोदाभिवृष्ट इव मरुस्थलाभोगः पार्वणेन्दुचन्द्रिकापरिप्लावित इव ग्रीष्मकुमुदाकरः परां निर्वृतिमवाप [य] ।
मन्यमानश्च तत्र क्षणे साक्षादेव संपन्नमात्मनः सुहृदा सह समागममानन्दजलपरिप्लुतेक्षणो विक्षिपन् विरलविरलानि पदानि तदभिमुखो बभूव । सोऽपि तं तथोपसर्पन्तमुद्वीक्ष्य सहसोपसंहृतपाठनिभृतः कृतावस्थितिश्च तत्रैव देशे समरकेतुरयमिति दृढोपजातप्रत्ययोऽपि तावत्यां भूमौ तथाविधस्य तस्यासंभावयन्नागमनमुपजातसंभ्रमः स्तम्भित इवाकृतोचितप्रतिपत्तिर्मुहूर्तमतिष्ठत् । कृताभिभाषणश्च स्मितादृष्टिना सिंहलेन्द्रतनयेन सत्वरमुपेत्य शिरसि रचिताञ्जलिः प्रणाममकरोत् । प्रसारितोभयभुजपाशकृतहढाश्लेषं च तं
कीदृशीं द्विपदिकाम् ? आकल्पान्तं प्रलयपर्यन्तम् ,अर्थिकल्पद्रुम ! याचककल्पतरो!, चन्द्रमरीचिसमरुचिप्रचुरयशोऽशुभरितविश्वम्भर! चन्द्रमरीचिसमरुचिप्रचुराणि-चन्द्रकिरणतुल्यकान्तिपूर्णानि यानि यशांसि, तदंशुभिः-तत्प्रकारैः, भरिता-पूरिता, विश्वम्भरा-भूमण्डलं येन तादृश! भारतान्वयशिरोमणे! भारतवंशश्रेष्ठ !, जनवन्द्यानवद्यविद्याधर! जनबन्यायाः-लोकश्लाघ्यायाः, अनवद्यायाः-अनिन्द्यायाः, विद्यायाः धर! धारक ! विद्याधरमनस्विनीमानसहरिणहरण! विद्याधरवंश्यानां मानवतीनां स्त्रीणां, मानसानि-चित्तान्येव, हरिणाः-मृगाः, चञ्चलत्वात् , तेषां हरण!-आकर्षक !, हरिवाहन!, धीरोचितां धैर्यशालिजनयोग्यां, धुरं भारं, वह प्राप्नुहि । छन्दोनुऽशासने द्विपदीलक्षणमित्थम्-“पश्चुगौ द्वितीयषष्ठौ जोली द्विपदी" इति; तद्वृत्तिश्चेयम्-“एकः षण्मात्रः पञ्च चतुर्मात्रा गुरुश्च । तथा द्वितीयषष्ठौ चगणौ जोली; द्विपदी" इति [म] ।
तत्र तस्मिन् गन्धर्वके, दृष्टमात्र एव दृष्टिगोचरीभृतमात्र एव, सञ्जातपरमोच्छासः उत्पन्नात्यश्तान्तसान्त्वनः सन् , प्रथमपाथोदाभिवृष्टः प्रथमेन-सर्वतः, पूर्वण, पाथोदेन-मेघेन, अभिवृष्ट:-अभिषिक्तः, मरुस्थलाभोग इव मरुभूमिमण्डलमिव, पुनः पार्वणेन्दुचन्द्रिकापरिप्लावितः पार्वणेन्दोः-पूर्णिमाचन्द्र स्य, चन्द्रिकया-ज्योत्स्नया, परिप्लावितः-अभिषिक्तः, ग्रीष्मकुमुदाकर इव ग्रीष्मकालिककुमुदवनमिव, पराम् अत्यन्तां, निवृतिं सुखम् , अवाप अनुबभूव [य]। .
च पुनः, तत्र तस्मिन् , क्षणे मुहूर्ते, आत्मनः स्वस्य, सुहृदा हरिवाहनेन सह, साक्षादेव, सम्पन्नं सिद्धं, समागम सम्मेलनं, मन्यमानः अवगच्छन् , आनन्दजलपरिप्लुतेक्षणः आनन्दजलैः-आनन्दस्यन्दमानाश्रुभिः, परिप्लुतम्-अत्यादीभूतम्, ईक्षणं-नेत्रं यस्य तादृशः, विरलविरलानि अतिविरलानि, किञ्चिद्विच्छिन्नगतिधाराणीत्यर्थः, पदानि, विक्षिपन् सञ्चालयन् , तदभिमुखः गन्धर्वकाभिमुखः, बभूव अभूत् । सोऽपि गन्धर्वकोऽपि, तथा विरलपादविक्षेपप्रकारेण, उपसर्पन्तम् आगच्छन्तं, तं समरकेतुम् , उद्वीक्ष्य दृष्ट्वा, सहसा सत्वरम् , उपसंहृतपाठनिभृतः उपसंहृतेन-निवर्तितेन, पाठेन-प्रकृतद्विपदिकोच्चारणेन, तत्रैव देशे तस्मिन्नेव भागे, कृतावस्थितिः अवस्थितः सन् , 'अयं समरकेतुः' इति दृढोपजातप्रत्ययोऽपि दृढं यथा स्यात् तथा, उपजातः-उत्पन्नः, प्रत्ययः प्रतीतिर्यद्वा विश्वासो यस्य तादृशोऽपि, तथाविधस्य एकाकिनः, तस्य समरकेतोः, तावत्यां तत्परिमाणायाम् , संकीर्णायामित्यर्थः, भूमौ, आगमनम् , असम्भावयन् सम्भावयितुमप्यपारयन् , उपजातभ्रमः उत्पन्नतदन्यत्वभ्रमः, सम्भ्रमेति पाठे उत्पन्नसंवेगः, स्तम्भित इव नियन्त्रित इव, अकृतोचितप्रतिपत्तिः अकृता-अविहिता, उचिता-योग्या, प्रतिपत्तिः-सत्किया, सम्प्रतिपत्तीति पाठे समीचीनसत्कारो येन तादृशः सन् , महत क्षणम्, अतिष्ठत अवस्थितः । च पुनः, स्मितादृष्टिना स्मिता-किञ्चिद्विकसिता, आर्दी-आनन्दाश्रुक्लिन्ना, दृष्टियस्य तादृशेन, सिंहलेन्द्रतनयेन सिंहलेन्द्रस्य-सिंहलद्वीपाधिपतेः, चन्द्रकेतोः, तनयेन-पुत्रेण, समरकेतुना, कृताभिभाषणः विहितालापः सन्, तदालापसञ्जातपरिचयः सन्निति यावत्, सत्वरं शीघ्रम् , उपेत्य निकटं गत्वा, शिरसि मस्तके, रचिताञ्जलि: सम्पुटितहस्तः, प्रणामम् अभिवादनम् , अकरोत् कृतवान् । च पुनः, प्रसारितोभयभुजपाशकृतदृढाश्लेषं प्रसारिताभ्यां-विस्तारिताभ्याम् , उभयभुजपाशाभ्यां-बाहुद्वयरूपाभ्यां पाशाभ्यां-मृगादिपशुबन्धन
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202