________________
तिलकमञ्जरी
१०७
मुन्मुक्तवातायनस्त्वरिततरमायतनान्निर्गत्य तं पाठशब्दमनुसरन्ना मोदिहरिचन्द नोदकच्छटासिक्तेन मौक्तिकचतुष्कविरचनाचारुणा कुङ्कुमारुणाभिरङ्गनाचरणपद्ममुद्रा भिर्द्विगुणितकनकपङ्कजोपहारेण झङ्कारानुमीयमानपरिमलान्धनिलीन मधुलिहा महानीलमणिकुट्टिमेन व्योम्नेव यामिनीपतिर्याम्यदिङ्मुखाभिमुखः पदशतमात्र मन्तरं जगतीमध्य एव जगाम [ फ ] । गत्वा च संपिण्डितसुरचापपरमाणुनिवहमनोहराकारमनेकवर्णतया, क्वचिद् वधूलोचनयुगमिव कृष्णतारोचितम्, कचिद् विन्ध्याचलमिव धवलताक्रान्तम्, क्वचित् सुग्रीवमिव कपिशतान्वितम्, क्वचिद् दशास्यमिव नीललोहितप्रभावाप्तश्रियम्, विजयार्धशैलमिव मालिकात्रयमनोहरम्, पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम्, विपिनमिव कपोतपालीकलितमुल्लसितकोमलार्करोचिषं
टिप्पनकम् - वधूलोचनयुगमिव कृष्णतारोचितम् एकत्र कालतारिकायोग्यम्, अन्यत्र श्यामत्वशोभितम् । विन्ध्याचलमिव धवलताक्रान्तम्, एकत्र धवतरूचम्पका दिलताव्याप्तम्, अन्यत्र शुभ्रताव्याप्तम् । सुग्रीवमिव कविशतान्वितम्, वानरशतयुक्तम्, अन्यत्र पीतत्वयुक्तम् । दशास्यमिव नीललोहितप्रभावाप्तश्रियम्, एकत्र शङ्करप्रभावप्राप्तलक्ष्मीकम्, अन्यत्र कृष्णरक्ततेजः प्राप्तशोभम् । विजयार्धशैलमिव मालिकात्रयमनोहरम् उभय भूमिकात्रयमनोहरम्, विजयार्धः - वैताढ्यः । पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम्, एकत्र चन्द्रसूर्यशोभितम्, अन्यत्र कलशसहितमञ्जरीकिरणराजितम् । विपिनमिव कपोतपालीकलितम्, एकत्र कपोतपक्षिपङ्क्तियुक्तम्,
वातायनः त्यक्तगवाक्षः सन्, आयतनात् प्रकृतमन्दिरात् त्वरिततरं शीघ्रतरं निर्गत्य बहिर्भूय तं प्रकृतं पाठशब्दं पठ्यमानशब्दम्, अनुसरन् अनुगच्छन्, आमोदिहरिचन्दनोदकच्छटा सिक्तेन आमोदिनीभिः-उत्कटगन्धाढ्याभिः, हरिचन्दनोदकच्छटाभिः - चन्दनविशेष मिश्रित जलधाराभिः सिक्तेन - आप्लावितेन, पुनः मौक्तिकचतुष्कविरचनाचारुणा मौक्तिकचतुष्कस्य मुक्तामणिवेदिकायाः, विरचनया - निर्माणेन, चारुणा - मनोहरेण, पुनः कुङ्कुमारुणाभिः कुङ्कुमद्रवरक्ताभिः, अङ्गनाचरणपद्ममुद्राभिः नारीपदपङ्कजाकृतिभिः, द्विगुणितकनकपङ्कजोपहारेण द्विगुणित:द्वैगुण्यमापादितः, कनकपङ्कजोपहारः - सुवर्णकमलरूपोपहारो यस्मिंस्तादृशेन, पुनः झङ्कारानुमीयमानपरिमलान्धनिलीनमधुलिहा झङ्कारेण ध्वनिविशेषेण हेतुना, अनुमीयमानाः - आनुमित्यात्मकज्ञानविषयीक्रियमाणाः, परिमलान्धाः - सौरभाकृष्टाः, निलीनाः - संश्लिष्टाः, मधुलिहाः - भ्रमरा यस्मिंस्तादृशेन, महानीलमणिकुट्टिमेन इन्द्रनीलमणिबद्धप्रदेशेन, व्योम्ना आकाशेन, यामिनीपतिः निशापतिः, चन्द्र इत्यर्थः, इव, याम्य दिङ्मुखाभिमुखः दक्षिणदिक्संमुखः सन् जगतीमध्य एव भूतलमध्य एव, वप्रमध्य एव वा, पदशतमात्रं शतसंख्यकपदप्रमाणम्, अन्तरं दूरं जगाम गतवान् [फ ] । च पुनः, गत्वा, म छात्रायाश्रमम् ऐक्षिष्ट दृष्टवान् इत्यग्रेणान्वेति; कीदृशम् ? सम्पिण्डितसुरचापपरमाणुनिवहमनोहराकारं सम्पिण्डितानां-सम्पुञ्जितानां, सुरचापपरमाणूनाम् - इन्द्रधनुः - परमाणूनां निवह इव- समूह इव, मनोहरः - सुन्दरः, आकारः - अवयवसन्निवेशो यस्य तादृशम् पुनः अनेकवर्णतया बहुवर्णविशिष्टतया, क्वचित् कस्मिंश्चिदंशे, वधूलोचनयुगलमिव नारीनयनद्वयमिव; कृष्णता रोचितम् कृष्णतया - कृष्णवर्णेन - रोचितम्, पक्षे कृष्णया - कृष्णवर्णया, तारया - कनीनिकया, उचितम् - परिचितं, नित्यमधिष्ठितमित्यर्थः यद्वा कृष्णताराया उचितं - योग्यम्; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, विन्ध्याचलमिव विन्ध्यपर्वतमिव धवलताक्रान्तं धवलतया - शुभ्रतया, पक्षे धवलताभिः - धवाख्यतरुचम्पकादिलताभिः, आक्रान्तं - व्याप्तम् ; पुनः क्वचित् कस्मिंश्चिद् भागे, सुग्रीवमिव तत्संज्ञककपिप्रवरमिव; कपिशतान्वितं कपिशतया - कृष्णशबलितपीतवर्णेन, पक्षे कपिशतेन - शतसंख्यक कपिभिः, अन्वितं - संवलितम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, दशास्यमिव रावणमिव, नीललोहितप्रभावाप्तश्रियं नीललोहिताभ्यां कृष्णरक्ताभ्यां प्रभाभ्यां - छविभ्याम्, अवाप्ता प्राप्ता, श्री: - शोभा येन, पक्षे कण्ठनीलः, केशेषु लोहितः-रक्त इति नीललोहितः शिवः, रावणोपास्यदेवः, तत्प्रभावेण - तदैश्वर्येण, अवाप्ता प्राप्ता, श्री:- राज्यलक्ष्मीर्येन तादृशम् ; पुनः विजयार्धशैलमिव चक्रवर्तिजेयो भूभागो विजयः, तस्य अर्धे - अर्धभागे, यः शैलः - पर्वतः स विजयार्धशैलः, वैतान्यपर्वत इत्यर्थः, तमिव मालिकात्रयमनोहरं मालिकान्त्रयेण - भूमिकात्रण, मूल-नितम्ब शिखरोद्भासिना भूमिकात्रयेणेत्यर्थः, पक्षे उभयपार्श्वयोर्भूखण्डत्रयेण वा मनोहरं - सुन्दरम् ; पुन: पौर्णमासीदिनावसानमिव पूर्णो मासोऽस्यां सा पौर्णमासी, पूर्णचन्द्रोल्लासिरजनी, चान्द्रमासान्तिमतिथिः, तद्दिनान्तमिव, सकलशशिखरांशुभूषितं सकलशस्य - कलशविशिष्टस्य, शिखरस्य
"Aho Shrutgyanam"