________________
१०८
टिप्पनक - परागविवृतिसंवलिता ।
शिशिरमुद्दाम कुसुमप्रकरशोभनं सुरभिमासन्ननभसं शुचिमशेषमणिशिलाविशेषकृतनिर्माणमुदङ्मुखद्वार मङ्गभारभङ्गुरितकमठराज पृष्ठमलघिष्ठमभिनवं मठमैक्षिष्ट [ब] । प्रविष्टमात्र एवात्र पुरतो दत्तदृष्टिरुत्कृष्टवसनधारिणमुदारदिव्याभरणभूषिताङ्गमङ्गरागपरिम लामोदितदिगन्तरमवतीर्य मणिशिलासोपानमालया शिखरशालायास्तत्क्षणमेव द्वाराभिमुखपरिवर्तिताननमवतरणकम्पादीषदव स्रस्तकुसुमस्रजः शिरसिजकलापस्य तिर्यगुन्नमितेन वामपाणिना शनैः शनैरारब्धसंवरणमानन्दनिर्भरतया हृदयस्य ताम्बूलगर्भतया च गण्डद्वयस्य किञ्चिदविशदोच्चारितपदं प्रत्यङ्गमर्पितेन चक्षुषा प्रसादलब्धामिवावलोक्य वारंवारमनुपमामात्मनो वेषलक्ष्मीमुपजातविस्मयमिमां द्विपदिकां पठन्तमतिसगर्वं गन्धर्वकमपश्यत् [भ] |
अन्यत्र विटङ्कसहितम् । उल्लसितकोमलार्करोचिषं शिशिरम्, विस्फुरित सुकुमारादित्यकिरणं शिशिरमासमिव, अन्यत्र प्रसृतमनोज्ञस्फटिकरश्मिकम् । उद्दाम कुसुमप्रकरशोभनं सुरभि वसन्तमिव उद्भटपुष्पप्रकरमनोज्ञम्, उभयत्र तुल्यम् । आसन्ननभसं शुचिम्, आषाढमिव, कीदृशम् ? सन्निहितश्रावणम्, अन्यत्र सन्निहिताकाशम् [ब] | शिखरशालाशिरोगृहम् [भ] |
ऊर्ध्वभागस्य, मञ्जरीरूपस्य अंशुभिः - प्रभाभिः; पक्षे सकलेन - सम्पूर्णेन, शशिना - चन्द्रेण, खरांशुना -सूर्येण च, भूषितम्- अलङ्कृतम् ; पुनः विपिनमिव वनमिव, कपोतपालीकलितं कपोतपाल्या - गृहैकदेशस्थपक्षिस्थानविशेषेण, पक्षे कपोताना - पारावतश्रेष्ठानाम्, आल्या-पङ्ख्या, कलितम् - अधिष्ठितम् पुनः उल्लसितकोमलार्करोचिषम् उल्लसितं कोमलस्य- मनोहरस्य, अर्कस्य - स्फटिकस्य रोचिः-रश्मिर्यत्र तादृशम्, अत एव शिशिरं शीतलं पक्षे उल्लसितम् - उद्वासितम्, कोमलम् - अतीक्ष्णम्, अर्कस्य - सूर्यस्य, रोचिः-प्रकाशो यस्मिंस्तादृशम्, शिशिरं शिशिरमासमिव, पक्षे पुनः उद्दामकुसुमप्रकरशोभनं उद्दानाम् उत्कृष्टं दाममाला येषां तादृशानां यद्वा उत्कटानां कुसुमानां प्रकरैः - समूहैः, शोभनं -मनोहरं, अत एव सुरभिं गन्धाढ्यम् पक्षे सुरभिं - वसन्तमिव; पुनः आसन्ननभसम् आसन्नं - सन्निहितं नभः- आकाशं यस्य तादृशम् गगनस्पृशमित्यर्थः, अत एव शुचिं शुभ्रम्, पक्षे आसन्नो नभाः-श्रावणमासो यस्य तादृशम्, शुचिम् - आषाढमिव पुनः अशेषमणिशिलाविशेषकृतनिर्माणम् अशेषैःसमस्तैः, मणिशिलाविशेषैः - विशिष्टमणिप्रस्तरैः, कृतं, निर्माणं - रचना, यस्य तादृशम् ; पुनः उदङ्मुखद्वारं उदङ्मुखम् - उत्तराभिमुखं, द्वारं-प्रवेशनिर्गमस्थानं यस्य तादृशम् ; पुनः अङ्गभारभङ्गुरितकमठराजपृष्ठम् अङ्गभारेण - स्वकीयावयवसंस्थानं, भारेण, भङ्गुरितं—भग्नं, कमठराजस्य - कूर्मराजस्य, पृष्ठं येन तादृशम् ; पुनः अलघिष्ठं विशालतमम् ; पुनः अभिनवं नूतनम् [ब] ।
अत्र अस्मिन् मठे, प्रविष्टमात्रे कृतप्रवेशमात्रे सति, पुरतः अग्रे, दत्तदृष्टिः विक्षिप्तलोचनः, गन्धर्वकं वर्णितपूर्वं तदाख्यचित्रपटोपहारकविद्याधरबालकम् अपश्यत् दृष्टवानित्यग्रेणान्वेति कीदृशम् ? उत्कृष्टवसनधारिणम् उत्तमवस्त्रधारिणम् ; पुनः उदारदिव्याभरणभूषिताङ्गम् उदारैः - प्रशस्तैः, दिव्याभरणैः --मनोहरालङ्करणैः, भूषितानि अङ्गानि यस्य तादृशम् ; पुनः अङ्गरागपरिमलामोदितदिगन्तरम् अङ्गरागपरिमलेन - अङ्गविलेपनद्रव्यसौरभेण, आमोदितं - सुरभीकृतं, दिगन्तरंदिङ्मध्यं येन तादृशम् ; पुनः शिखरशालायाः ऊर्ध्वभागवर्तिगृहात्, मणिशिलासोपानमालया मणिरूपपाषाणमयनिश्रेणिकपतिद्वारा, अवतीर्य अधस्तादागत्य, तत्क्षणमेव तत्कालमेव; द्वाराभिमुखपरिवर्तिताननं द्वाराभिमुखं तद्वारदेशाभिमुखं परिवर्तितं - प्रत्यवस्थापितम्, आननं मुखं येन तादृशम् पुनः अवतरणकम्पात् अधस्तादागमन जन्यकम्पकारणात्, ईषत् किञ्चित्, अवस्त्रस्तकुसुमस्रजः अवस्रस्ता- अधः स्खलिता, कुसुमस्रक् पुष्पमाला यस्मात् तादृशस्य, शिरसिजकलापस्य केशराशेः; तिर्यगुन्नमितेन कुटिलं यथा स्यात् तथा उत्क्षिप्तेन वामपाणिना वामहस्तेन, शनैः शनैः मन्दं मन्दं, आरब्धसंवरणम् आरब्धं - प्रवर्तितं संवरणं - संयमनं येन तादृशम् ; पुनः हृदयस्य चित्तस्य, आनन्दनिर्भरतया आनन्दपूर्णतया, च पुनः, गण्डद्वयस्य कपोलयुगलस्य, ताम्बूलगर्भतया ताम्बूलपूर्णाभ्यन्तरतया, किञ्चित् ईषत् अविशदोच्चारितपदम् अविशदम् - अस्फुटम्, उच्चारितम्, कण्ठताल्वाद्यभिघातेनाभिव्यक्तं पदं येन तादृशम् ; पुनः प्रत्यङ्गं प्रत्यवयवम्, अर्पितेन प्रक्षिप्तेन, चक्षुषा नेत्रेण, प्रसादलब्धामिव प्रसन्नतया प्राप्तामिव, अनुपमाम् उपमाशून्याम्, आत्मनः स्वस्य, वेषलक्ष्मीं कृत्रिमाङ्गशोभां वारं वारं अनेकवारम्, अवलोक्य दृष्ट्वा, उपजातविस्मयम् उत्पन्नाश्चर्यम्, इमाम् अनुपदमेव वक्ष्यमाणाम्, द्विपदिकां छन्दोविशेषणम्, उच्चारयन्तम् ; अतिसगर्वम् अत्यन्तमदान्वितम् [भ] ।
"Aho Shrutgyanam"