________________
टिप्पनक-परागविवृतिसंवलिता। न जाने वयस्यः केदानीं वर्तते, इत्यादिचिन्ताव्याक्षिप्तचेतस एवास्य सुरासुरवृन्दनिर्दयाकर्षणभ्रमन्मन्दरतटाच्छोटनसमुच्छलदमृतशीकरासारशिशिरस्तर्पयन्निवादयन्निव हृदयमतिशयपेशलो ध्वनिरतर्कितव्यक्तिरेव श्रवणकन्दरे मन्दमन्दमविशत् [न]।
उपजातसंभ्रान्तिना च मानसेन तस्य शब्दस्य दत्तकर्णः स्तम्भित इवोत्कीर्ण इव लिखित इव निश्चलसर्वाङ्गः क्षणमात्रं सिंहलराजपुत्रः स्थितवान् । अथ सहसैवोद्भिद्यमानपुलकाश्चितकपोलभित्तिना विलोललोचनोत्पलेन मुखशशिना प्रकाश्यमानाधिकसंभ्रमः समचिन्तयत् - 'हन्त, किमिदमकाण्ड एवापरमाश्चर्यमुपनतं यतः कचिदत्र केनापि कलकण्ठकोमलगिरा श्लोक इव पठ्यते, तत्र च हरिवाहनशब्द इवोच्चार्यमाणः श्रूयते, क एष हरिवाहनः । किं वयस्यः ? आहोस्विद् वयस्यनामधेयाभिधेयः कोऽप्यपरः ? कुतोऽत्र ययस्यस्य संभवः, प्रायः केनापि करुणापराधीनवृत्तिना दिव्येन ममेदमाश्वासनं क्रियते, कृतमलीकविकल्पकल्पनाभिर्मनसा खेदितेन, पश्यामि तावत् कः पुनरेष पठति [प], इति कृत्वा मति
निश्चिनोमि, वयस्यः सखा हरिवाहनः, इदानीम् अधुना, क्व कस्मिन् स्थाने, वर्तते तिष्ठति । इत्यादिचिन्ताव्याक्षिप्तचेतस एव इत्यादिभिः-ईदृशीभिः, चिन्ताभिः-आलोचनाभिः, व्याक्षिप्त-व्याकुलीकृतं, चेतः-चित्तं यस्य तादृशस्यैव, अस्य समरकेतोः, श्रवणकन्दरे कर्णविवरे, सुरासुरवृन्दनिर्दयाकर्षणभ्रमन्मन्दरतटाच्छोटनसमुच्छलदमृतशीकरासारशिशिरः सुरासुरवृन्देन-देवदैत्यगणेन, यत् निर्दयं-निष्ठुरम् , आकर्षणम्-उत्क्षेपणम् , तेन भ्रमतः-घूर्णमानस्य, मन्दरस्यतदाख्यपर्वतस्य, तटेन-एकदेशेन, यत् आच्छोटनम्-आस्फालनम् , आलोडनमित्यर्थः, तेन समुच्छलद्भिः-समुत्पतद्भिः, अमृतशीकरासारैः-अमृतबिन्दुधाराभिः, शिशिरः-शीतलः, अतः हृदयं तर्पयन्निव प्रीणयन्निव, पुनः आर्द्रयन्निव सिञ्चन्निवेत्युप्रेक्षा, अतिशयपेशल: अत्यन्तमनोहरः, ध्वनिः नादः, अतर्कितव्यक्तिरेव अतर्किता-आकस्मिकी, व्यक्तिःआविर्भावो यस्य तादृश एव, मन्दमन्दं मन्दप्रकारम् , अविशत् प्रविष्टः [न] ।
च पुनः, उपजातसम्भ्रान्तिना उपजाता-उत्पन्ना, सम्भ्रान्तिः-संक्षोभो यस्य तादृशेन, मानसेन, तस्य प्रकृतस्य शब्दस्य ध्वनेः तमनुसंधातुमित्यर्थः, दत्तकर्णः दत्तौ-प्रवर्तितो करें येन तादृशः सन् , स्तम्भित इव प्रतिबद्ध इव, पुनः उत्कीर्ण इव उत्खानेन निर्मित इव, पुनः लिखित इव चित्रित इव, निश्चलसर्वाङ्गः निश्चलानि-स्थिराणि, सर्वाणिअङ्गानि-हस्तपादादीनि यस्य तादृशः सन् , सिंहलराजपुत्रः समरकेतुः, क्षणमात्रम् एकमात्रक्षणं, स्थितवान् उपरत, क्रियोऽभूत् । अथ अनन्तरं, सहसैव शीघ्रमेव, उद्भिद्यमानपुलकाश्चितकपोलभित्तिना उद्भिद्यमानैः-उद्गच्छद्भिः, पुलकैः-रोमाञ्चैः; अञ्चिता-विशिष्टा, कपोलभित्तिः-गण्डरूपा भित्तिर्यस्य तादृशेन, पुनः विलोललोचनोत्पलेन विलोलं-चञ्चलं लोचनोत्पलं-नयनकमलं यस्य तादृशेन, मुखशशिना मुखचन्द्रेण, प्रकाश्यमानाधिकसम्भ्रमः प्रकाश्यमानः-प्रत्याय्यमानः, अधिकः-प्रचुरः, सम्भ्रमः-उद्वेगो यस्य तादृशः, समचिन्तयत् आलोचितवान् , किमित्याह-हन्त खेदः, इदं किम् , परमाश्चर्यम् अत्यन्तमाश्चर्यम् , अकाण्ड एव अनवसर एव, उपनतम् उपस्थितम् , यतः यस्माद्धेतोः, अत्र अस्मिन्नुद्याने, क्वचित् कस्मिंश्चित् स्थाने, कलकण्ठकोमलगिरा कलकण्ठस्य-कोकिलस्येव, कोमला-मधुरा, गीः-वाणी यस्य तादृशेन, केनापि केनचिजनेन, श्लोक इव पद्यमिव, पठ्यते उच्चायते, च पुनः, तत्र तस्मिन् श्लोके, हरिवाहनशब्द इव हरिवाहनेत्याकारकः शब्द इव, उच्चार्यमाणः पठ्यमानः, श्रूयते श्रवणपथमयतरति । एषः अयं, हरिवाहनः कः? किं वयस्यः? मदीयः सखा ?, आहोस्वित् उत, वयस्यनामधेयाभिधेयः वयस्यनामधेयेन-वयस्यवाचकेन हरिवाहनशब्देन, अभिधेयःवाच्यः, अपरः-अन्यः, कोऽपि, अस्तीति शेषः, अत्र अस्मिन्नारामे, वयस्यस्य मित्रहरिवाहनस्य, कुतः कस्मात्, संभवः आशा, करुणापराधीनवृत्तिना करुणापराधीना-कृपाऽऽयत्ता, वृत्तिः-मनोवृत्तियस्य तादृशेन, केनापि, दिव्येन दैवेन, मम, इदम् , आश्वासनं सान्त्वनं-धैर्याधानमित्यर्थः, प्रायः क्रियते विधीयते, अलीकविकल्पकल्पनाभिः मिथ्यात्मकविविधवितकः, खेदितेन-क्लेशितेन, परिश्रमितेनेति यावत् , मनसा हृदयेन, मनःखेदेनेत्यर्थः, कृतं व्यर्थम् , तावत् प्रथमम् , कः, एषः अयं, पुनः खलु, पठति पद्यमिवोच्चारयतीति पश्यामि गवेषयामि [प], इति ईदृशीं, मतिं बुद्धिं, कृत्वा, उन्मुक्त
"Aho Shrutgyanam"