________________
तिलकमञ्जरी
१०५ प्रतीतिविषयमारोप्यन्ते [द] । वञ्चिताः खलु दिवोकसोऽपि ये परित्यक्तसुरलोकवसतयः सततमिह न वसन्ति । किमन्यजन्मान्तरे कृतमवदातमेभिः पारापतप्रभृतिभिः पत्ररथैः कर्म येन तिर्यक्त्वेऽप्युपनतोऽयमायतनच्छद्मना विमानवासः । न जाने केन सुकृतकर्मणा निर्मापितमिदम् , केन वा निर्मितम् , कुतो वा रत्नशिलाराशिरेतावानेष लब्धः । न तावदतिसमृद्धोऽपि मर्त्यधर्मा कश्चनापि कारयितुमिदमीश्वरः, न विश्वकर्माणमन्तरेण कर्मनैपुणमित्थंभूतमपरस्य शिल्पिनः संभाव्यते, न च रत्नसानुगिरेरन्यत्र रत्नषदामीदृशीनामुत्पत्तिः श्रूयते । सर्वथा देवनिर्मितेनामुना भवितव्यम् , मन्ये च येनैतदायतनमुत्पादितं सरोऽप्यदस्तेनैव खानितमारामोऽप्येषस्तस्यैव, कीर्तिर्या चास्य वृत्तान्तस्याभिव्यक्तेः कारणम् , तस्यामपीह प्रशस्तावष्टादशलिपिव्यक्तिव्यतिरिक्तः कोऽप्यपरो लिपिविन्यासः, स एष व्यक्ताक्षरोऽपि न शक्यते ऊहितुम् , केवलमालोकितपूर्व इव चेतसि चमत्कारमातनोति [ध] । न चात्र संचरन् वनचरोऽपि तथाविधः कश्चिदालोक्यते यमापृच्छय सम्यग्वृत्तान्तमेनमवगच्छामि । यद्वा किमनेन पृष्टेन ज्ञातेन वा प्रयासमात्रफलेन प्रयोजनम् , ज्ञात्वापि कस्य प्रतिपाद्य निर्वृतो भविष्यामि विना कल्पकोटिजीविना कुमारहरिवाहनेन ।
शायमाना अपि निणर्णीयमाना अपि, केन प्रकारेण वर्ण्यन्ते स्तूयन्ते, पुनः वर्ण्यमाना अपि स्तूयमाना अपि, कया युक्त्या रीत्या, परस्य अन्यस्य, प्रीतिविषयं प्रीतिपथम् , आरोप्यन्ते अवतार्यन्ते [द ] । खलु निश्चयेन, दिवोकसो. ऽपि देवा अपि, वञ्चिताः भाग्येन प्रतारिताः, ये परित्यक्तसुरलोकवसतयः परित्यक्तः-वर्जितः, सुरलोके-देवलोके, वसतिः-निवासो यैस्तादृशाः सन्तः, इह अस्मिन् मन्दिरे, सततं नित्यं, न वसन्ति । एभिः प्रत्यक्षभूतैः, पारापतप्रभृतिभिः कपोतप्रमुखैः, पत्ररथैः पक्षिभिः, अन्यजन्मान्तरे अन्यान्यजन्मनि, अन्यजन्ममध्ये वा, अवदातं विशुद्धं, किं कर्म कृतम आचरितं, येन कर्मणा, तिर्यक्त्वेऽपि पक्षित्वेऽपि, आयतनच्छद्मना प्रकृतमन्दिरव्याजेन, विमानवासः व्योमयानवासः, उपनतः आपन्नः । न जाने निश्चिनोमि, सुकृतिकर्मणा सुकृतं-पुण्यजनकं कर्म यस्य तादृशेन, केन, इदम् आयतनं, निर्मापितं विधापितम्, वा अथवा, केन निर्मितं रचितम्, वा अथवा, एतावान् एतत्परिमाणकः, एषः अयं, रत्नशिलाराशिः रत्नात्मकप्रस्तरराशिः, कुतः कस्मात् स्थानात् , लब्धः प्राप्तः । तावदिति वाक्यालङ्कारे, अतिसमृद्धोऽपि अत्यन्तवैभवसम्पन्नोऽपि, कश्चनापि कोऽपि, मनुष्यधर्मा मानवजातीयः, इदं प्रत्यक्षभूतमायतनं, कारयितुं रचयि
ईश्वरः प्रभुः, न अस्तीति शेषः । विश्वकर्माणं शिल्पकलाकुशलदेवजातीयव्यक्तिविशेषम् , अन्तरेण विना, अपरस्य तदन्यस्य, शिल्पिनः कलावतः, इत्थंभूतम् एतादृशं, कर्मनैपुण्यं कर्मकौशलं, न संभाव्यते आशास्यते । च पुनः, रत्नसानुगिरेः सुमेरुपर्वतात् , अन्यत्र अन्यस्मिन् स्थाने, ईदृशीनाम एवंविधानां, रत्नदृषदां रत्नशिलानाम् , उत्पत्तिः, न श्रूयते श्रवणपथमवतरति । सर्वथा सर्वप्रकारेण, देवनिर्मितेन देवरचितेन, अमुना प्रकृतेन आयतनेन, भवितव्यं भवितुं योग्यम् । च पुनः, मन्ये, येन जनेन, एतत् इदम् , आयतनं मन्दिरम् , उत्पादितं रचितम् , अदः प्रकृतं, सरोऽपि सरोवरोऽपि, तेनैव आयतनरचयित्रैव, खानितं खननकर्मतामापादितम् । एषः अयम् , आरामोऽपि उपवनमपि, तस्यैव व्यक्तिविशेषस्य, इति शेषः । च पुनः, अस्य वृत्तान्तस्य वार्तायाः, अभिव्यक्तः प्रकाशनस्य, या कीर्तिः, कारणं हेतुः,
अस्या, प्रशस्तौ. अष्टादशलिपिव्यक्तिव्यतिरिक्तः अष्टादशजातीयाक्षरविन्यासविलक्षणः, कोऽपि अनिर्वचनीयः, लिपिविन्यासः अक्षरसन्निवेशः, अस्तीति शेषः, स एष सोऽयं सन्निवेशः, व्यक्ताक्षरोऽपि स्फुटाक्षरोऽपि, ऊहितुं तर्कयितुं, न शक्यते पार्यते, केवलं किन्तु, आलोकितपूर्व इव दृष्टपूर्व इव, चेतसि मनसि, चमत्कारम् उल्लासम् , आतनोति विस्तारयति [ध] । अत्र उद्याने, सञ्चरन् प्रचरन् , तथाविधः तादृशः, कश्चित् , वनचरोऽपि वन्यजनोशाप, न आलोक्यते दृश्यते, यम् आपृच्छय सम्यक् पृष्ट्वा, एनम् अनुपदोक्तं, वृत्तान्तं वार्ता, सम्यक विस्पष्टम, अवगच्छामि जानामि । यद्वा अथवा, अनेन वृत्तान्तेन, पृष्टेन प्रश्नकर्मीकृतेन, ज्ञातेन ज्ञानकर्मीकृतेन वा, प्रयासमात्रफलेन आयासमात्रफलकेन, किं प्रयोजनं फलं, न किमपीत्यर्थः । ज्ञात्वापि ज्ञानविषयीकृत्यापि, कल्पकोटिजीविना चिरतरजीविना, कुमारहरिवाहनेन विना, तद्वयतिरिक्तस्य, कस्य प्रतिपाद्य कं निवेद्य, निर्वृतः सुखी, भविष्यामि । न जाने
१४ तिलक.
"Aho Shrutgyanam"