________________
१०४
टिप्पनक-परागविवृतिसंवलिता । कस्मिन्नहनि मुहूर्ताभ्यन्तरे सहसैवाद्य मे दृष्टिपथमुपागतानि [त] । प्रथमं तावत् पर्यटदनन्तसत्त्वसंघातघोरे संसार इवातिदूरपारेऽस्मिन् महाकान्तारे सारभूतं धर्मतत्त्वमिवानेकभङ्गगम्भीरं सरो दृष्टम् । अथ तदवगाहनकर्मनिर्मलीभूतात्मना त्रिविष्टपमिव त्रिदशोपभोगयोग्यमुन्निद्रकल्पद्रुममालामनोहरमुद्यानमिदं क्रमेण चापवर्गस्थानमिव वर्णनापथोत्तीर्णमाहात्म्यस्वरूपमेतन्जिनायतनम् । अतः परं किमन्यदवलोकनीयम् [थ] ।
संप्रति हि दीयते दर्शनीयकथानां मुद्रा, क्रियते तेजस्विवार्तानां निवृत्तिः, वितीर्यते आश्चर्यदर्शनस्योदकाञ्जलिः, विधीयते लोचनयोरुभयथापि पट्टबन्धः, कथं नु नामास्य प्राणिन इव कार्येन कर्मपरिणतिविशेषा ज्ञायन्ते, ज्ञायमाना अपि केन प्रकारेण वर्ण्यन्ते, वर्ण्यमाना अपि कया युक्त्या परस्य
टिप्पनकम्-पर्यटदनन्तसत्त्वसंघातघोरे संसार इवातिदूरपारेऽस्मिन् महाकान्तारे सारभूतं धर्मतत्त्वमिवानेकभङ्गगम्भीरं सरो दृष्टम् एकत्र परिभ्रमदनेकसिंहादिजीवसंघातरौद्रे, अतिदूरपर्यन्ते च, अन्यत्र संसरदनेकजीवसमूहयोरे, अदृष्टपर्यन्ते च, सारभूतं-प्रधानभूतम् , अनेकभङ्गगम्भीरं च-नानाभङ्गकगम्भीरं तत्त्वं, सरश्च सर्वतडागप्रधानं, नानाकल्लोलालब्धमध्यं च [थ]। उभयथापि पट्टबन्धः उभाभ्यां प्रकाराभ्याम् , पट्टस्य-वस्त्रखण्डस्य बन्धनं, तथा सुवर्णादिपट्टबन्धनम् । कथं नु नामास्य प्राणिन इव कारूयेन कर्मपरिणतिविशेषा विज्ञायन्ते अस्य-आयतनस्य, क्रियापरिणामभेदाः कथं ज्ञायन्ते, नु-वितर्केनापि, नाम-व्यक्तं, न कथमपि, अन्यत्र ज्ञानावरणीयादिकर्मपरिणामभेदाः [द]।
असंकल्पनीयानि संकल्पितुम्-आलोचयितुम् , अशक्यानि, पुनः वर्षशतैरपि अनेकशतसंख्यकवरैरपि, अननुभव
अनुभवितुमशक्यानि, पुनः जन्मान्तरैरपि अन्यान्यजन्मभिरपि, अनवलोकनीयानि अवलोकितुं-द्रष्टुम् , अशक्यानि, सन्तीति शेषः, तानि वस्तूनि, अद्य एकस्मिन् , अहनि दिने, मुहूर्ताभ्यन्तरे मुहूर्तमध्ये, सहसैव शीघ्रमेव, मे मम, दृष्टिपथं दृष्टिमार्गम् , उपगतानि उपस्थितानि [त]। तावदिति वाक्यालंकारे, प्रथमं पूर्व, संसार इव, पर्यटदनन्तसत्त्वसंघातघोरे पर्यटद्भिः-परिभ्रमद्भिः, पक्षे संसरद्धिः, अनन्तानाम्-गणनातीतानां, पक्षे अनन्तसंख्याकानां, सत्त्वानांसिंहव्याघ्रादीना, पक्षे सामान्यतो जीवानां, संघातैः-समूहैः, घोरे-भीषणे, पुनः अतिदूरपारे अतिदूरः-परमदूरः, अत्यन्तदुष्प्राप इत्यर्थः, पारः-चरमावधिर्यस्य तादृशे, पक्षे अदृष्टपर्यन्ते, अस्मिन् , महाकान्तारे महावने, धर्मतत्त्वमिव धर्मस्वरूपमिवसारभूतं सर्वसरोवरप्रधानं, पक्षे प्रधानभूतं, पुनः अनेकभङ्गगम्भीरम् अनेकैः-बहुभिः, भङ्गैः-तरङ्गैः, गम्भीर-निम्नम् , अगाधमित्यर्थः; पक्षे अनेकैः, भङ्गैः-निरूपणाप्रकारैः, विच्छित्तिभिर्वा, गम्भीर-परिपूर्णम् , सरः प्रकृतसरोवरः, दृष्टम् अवलोकि, तम् । अथ तद्दर्शनानन्तरम् , तदवगाहनकर्मनिर्मलीभूतात्मना तदवगाहनकर्मणा-तन्मजनकर्मणा, निर्मलीकृतः-विशो, धितः, आत्मा-देहो येन तादृशेन, मयेति शेषः, त्रिविष्टपमिव स्वर्गमिव, त्रिदशोपभोगयोग्यं त्रिदशानां-देवानाम् , उपभोगयोग्यं-सुखानुभवयोग्यम् , पुनः उन्निद्रकल्पद्रममालामनोहरम् उन्निद्रकल्पानां-विकसितप्रायाणाम् , दुमाणां-वृक्षाणां, यद्वा विकसितानां कल्पवृक्षाणां, मालाभिः-पङ्किभिः, मनोहरम् , इदम् प्रत्यक्षम् , उद्यानं, दृष्टमिति शेषः, च पुनः, क्रमेण तदनन्तरम् , अपवर्गस्थानमिव मोक्षस्थानमिव, वर्णनापथोत्तीर्णमाहात्म्यस्वरूपं वर्णनापथोत्तीर्ण-वर्णनमार्गातिकान्तम् , अवर्णनीयमित्यर्थः, माहात्म्यं-महिमा यस्य तादृशस्वरूपकम् , एतत् सन्निकृष्टतरं, जिनायतनं जिनेन्द्रमन्दिर, दृष्टमिति शेषः, अतः अस्मात्, परम् उत्कृष्टम् , अन्यत् अतिरिक्त, किं वस्तु, अवलोकनीयं द्रष्टव्यम् [था।
हि यतः, सम्प्रति इदानीं, दर्शनीयकथानां द्रष्टव्यवस्तुवार्तानां, मुद्रा अवरोधः, दीयते क्रियते, पुनः तेजस्विवार्तानां दीप्तिमद्वस्त्वनुसन्धानानां, निवृत्तिः त्यागः, क्रियते, पुनः आश्चर्यदर्शनस्य अद्भुतवस्त्ववलोकनस्य, उदकाञ्जलिः जलाञ्जलिः, वितीर्यते दीयते, तत्सम्बन्धविच्छेदः क्रियत इति भावः । पुनः लोचनयोः नयनयोः, उभयथापि उभयप्रकारेणापि, पट्टबन्धः पट्टस्य-वस्त्रखण्डस्य सुवर्णादिपट्टस्य च, बन्धः-बन्धनं, विधीयते क्रियते । नामेति वाक्यालङ्कारे प्रकटार्थे वा, प्राणिन इव जीवस्येव, अस्य प्रकृतायतनस्य, कर्मपरिणतिविशेषाः पक्षे विविधभवप्रयोजकशिल्पपरिणामविशेषा:: पक्षे ज्ञानावरणीयादिकर्मफलविशेषाः, कार्येन साकल्येन, न वितर्के, कथं केन प्रकारेण, ज्ञायन्ते निर्णीयन्ते? पुन
"Aho Shrutgyanam"