________________
तिलकमञ्जरी
दायिना मरीचिचक्रवालेन धूम्रीकृताहिमांशुमहसि महीयसि महानीलवातायने ससंभ्रमोत्पतितदुर्लक्षपारापतमिथुनपक्षरवचकितचक्षुः कृतस्मितमुपाविशत् [ ढ ] |
मत्तवारणोत्सङ्गसमर्पिताङ्गभारश्च तस्य वातायनस्य पाश्चात्यभित्तिगर्भविन्यस्ते स्त्यानचन्द्रिकापटलत्विषि स्फाटिकशिलापट्टे निकुट्टितामतिस्पष्टवर्णतया तद्दिनोत्कीर्णामिव मरकतद्रुतिपूरितनिखिल रेखारन्ध्रमांसलाभिरत्यच्छतयाश्रयस्य निरालम्बाभिरिवाम्बरतलोत्कीर्णाभिरिव समतया प्राञ्जलतया च यत्राकृष्टाभिरिव सरस्वतीकण्ठमणिकण्ठिकानुकारिणीभिर्वर्णपङ्क्तिभिरुद्भासितां प्रशस्तिमैक्षत [ ण ] । तत्क्षणमात्रमर्पितेक्षणश्च तस्यामानन्दनिर्भरेण चेतसा चिन्तां विवेश - ' किं तदस्ति नाम रमणीयमद्भुतं वा जगति यन्न दर्शयतीन्द्रजालिक इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामो, येन यानि वार्तास्वप्यनाकर्णनीयानि स्वप्नेऽप्यनुपलभ्यानि मनसाप्यसंकल्पनीयानि वर्षशतैरप्यननुभवनीयानि जन्मान्तरैरप्यनवलोकनीयानि मर्त्यलोके तान्ये
१०३
टिप्पनकम् - स्त्याना - घना [ण ] ।
पुलिनस्य- जलादचिरोद्गतस्थालायमान कटिपुरोभागस्य, स्पर्शेन - शीतलस्पर्शसौख्येन, लालितः-उल्लासितः, उत्सङ्गः- मध्यभागो यस्य तादृशे, पुनः विनिर्यदसितागुरुधूमवर्तिभ्रान्तिदायिना विनिर्यती - उद्गच्छन्ती, या असितागुरोः - कालागुरुसम्बन्धिनी, धूमवर्तिः-धूमधारा, तद्भान्तिदायिना-तमकारिणा, मरीचिचक्रवालेन - किरणमण्डलेन, धूम्रीकृता हिमांशुमहसि धूम्रीकृतं - कृष्णसम्वलितरक्तवर्णीकृतम्, अहिमांशोः - अहिमः - उष्णः, अंशुः - किरणो यस्य तस्य, सूर्यस्येत्यर्थः, महः - तेजो येन तादृशे, महीयसि विशालतमे, महानीलवातायने इन्द्रनीलमणिमयगवाक्षे, ससम्भ्रमोत्पतितदुर्लक्षपारावतमिथुन पक्षरवचकितचक्षुः कृतस्मितं ससम्भ्रमं - संवेगं यथा स्यात् तथा, उत्पतितस्य - उड्डीनस्य, दुर्लभस्य - दुःखेन लक्षितुं शक्यस्य, पारावतमिथुनस्य- कपोतद्वन्द्वस्य, पक्षरवेण पक्षोत्क्षेपेण ध्वनिना, चकितं विस्मितं चक्षुः नेत्रं यस्य तादृशः सन् कृतस्मितं कृतं स्मितं-मन्दहासो यस्मिंस्तादृशं यथा स्यात् तथा, उपाविशत् उपविष्टवान् [ ८ ] |
च पुनः मत्तवारणोत्सङ्गसमर्पिताङ्गभारः मत्तवारणस्य-मत्तं प्रमत्तं वारयतीति मत्तवारणं, वरण्डिकाख्यं स्थानं तस्य, उत्सङ्गे-मध्यभागे, समर्पितः - निहितः, अङ्गभारः - स्वशरीरभारो येन तादृशः, तस्य - प्रकृतस्य, वातायनस्य गवाक्षस्य, पाश्चात्यभित्तिगर्भ विन्यस्ते पश्चिमकुष्यमध्य निहिते, पुनः स्त्यानचन्द्रिकापटलत्विषि स्त्यानस्य - संहतस्य, चन्द्रिकापटलस्य-ज्योत्स्नागणस्येव, त्विट् - कान्तिर्यस्य तादृशे, स्फटिकशिलापट्टे स्फटिकमणिमयफलके, निकुट्टिताम् उट्टङ्कितां, प्रशस्ति प्रशंसात्मक पदावलीम्, ऐक्षत दृष्टवानित्यग्रेणान्वेति कीदृशीम् ? अतिस्पष्टवर्णतया अत्यन्तोज्ज्वलवर्णतया, तद्दिनोत्कीर्णामिव तद्दिने-तस्मिन् दिने, उत्कीर्णा - उत्खातामिव, विन्यस्तामिवेत्यर्थः इत्युत्प्रेक्षा, पुनः मरकतद्रुतिपूरितनिखिलरेखारन्ध्रमांसलां मरकद्रुतिभिः - नीलमणिपङ्कैः, पूरितैः -पूर्णैः, निखिलरेखारन्त्रैः- समस्तरेखाच्छिद्रैः, माँसलाभिः-स्थूलाभिः, पुनः आश्रयस्य- आधारफलकस्य, अत्यच्छतया अत्युज्वलतया, निरालम्बाभिरिव निराधाराभिरिव पुनः अम्बरतलोत्कीर्णाभिरिव गगनतले उत्खाताभिरिव, तत्रोल्लिखिताभिरिवेत्यर्थः पुनः समतया निम्नोन्नतभावशून्यतया, च पुनः प्राञ्जलतया ऋजुता, यन्त्राकृष्टाभिरिव मुद्रणयन्त्रमुद्रिताभिरिवेत्युत्प्रेक्षा सरस्वतीकण्ठमणिकण्ठिकानुकारिणीभिः सरस्वत्याः वागधिष्ठातृदेव्याः, कण्ठे - प्रीवायां, या मणिकण्ठिका - मणिमयकण्ठाभरणम्, तदनुकारिणीभिः - तदनुकर्त्रीभिः, वर्णपङ्गिभिः अक्षरश्रेणीभिः, उद्भासिताम् उद्दीपिताम् [ण ] । च पुनः, तस्यां प्रकृतप्रशस्तौ क्षणमात्रं क्षणमेकम्, अर्पितेक्षणः निहितदृष्टिः सन्, आनन्दनिर्भरेण प्रमोदपूर्णेन चेतसा मनसा, चिन्ताम् आलोचनां विवेश प्रविष्टवान् कर्तुं प्रवृत्त इत्यर्थः । तथाहि-जगति लोके, रमणीयं मनोहरम्, वा अथवा, अद्भुतम् आश्चर्य, तत् किम् अस्ति, नामेति वाक्यालङ्कारे, यत् इन्द्रजालिक इव इन्द्रजालविद्याभिज्ञ इव, मायाप्रगल्भः मायायां सपदि विविधाद्भुतदृश्योपस्थापने, प्रगल्भः-पटीयान्, आसादितोदयः प्राप्तावसरः, शुभकर्मणां पुण्यकर्मणां, परिणामः परिपाकः, न दर्शयति मुपस्थापयति, येन यस्माद्धेतोः, मर्त्यलोके मर्त्यभवने, यानि वस्तूनि वार्तास्वपि गोष्ठीकथास्वपि, अनाकर्णनीयानि आकर्णयितुं श्रोतुमशक्यानि, पुनः स्वप्नेऽपि स्वप्नावस्थायामपि, अनुपलभ्यानि उपलब्धुम् - अनुभवितुमशक्यानि, पुनः मनसापि,
"Aho Shrutgyanam"