________________
१०२
टिप्पनक-परागविवृतिसंवलिता । विस्मृतगतिक्रमामिव कपोललावण्यपङ्कलग्नामिव दीर्घकालविरतनिमेषस्वेदनिःसहामिव लब्धलोकोत्तरास्पदपरित्यागकातरामिव मुनीन्द्रमुखचन्द्रात् कथश्चिदनुरागनिश्चलां दृष्टिमाकृष्य [2] 'पाटलचञ्चपुटसूच्यमानशुकपेटकावस्थितिरतिप्रभादयोऽयमिन्द्रनीलमत्तालम्बश्चन्द्रिकाशकिचकोरलिझमानवदनेन्दुकान्तिरतिसुन्दरीयमिन्दुमणिशालभञ्जिका भिन्नवर्णरत्नोपलपट्टसंघटनशबलाखण्डलचापखण्डनिर्मितेवेयमाभाति स्तम्भपतिरवलम्बितोज्वलमुक्तावलीकलापमधोमुखमयूखकन्दलमिन्दुमण्डलमिवेदमानन्दयति सितदुकूलवितानम् [3] इति प्रशस्तानेकवस्तुदर्शनरसाक्षिप्तदृष्टिरसियष्टिकरालकरतलैरमलमाणिक्यस्तम्भपातिभिः स्वप्रतिमाशतैरनुगम्यमानमूर्तितया सपत्तिपरिवार इव [ड] सुचिरमितस्ततः प्रासादकुक्षिषु विहृत्य दक्षिणभित्तिप्राग्भागभाजि बद्धगुञ्जप्रभञ्जनावतारचारौ चारणाभिलिखितसुभाषितविभूषितद्वारशिरसि द्यूतरसिकसुरकुमारकोत्कीर्णविविधफलकाङ्किततले भुजङ्गकामिनीजघनपुलिनस्पर्शलालितोत्सङ्गे विनिर्यदसितागुरुधूमवर्तिभ्रान्ति
गतिक्रमः-स्यन्दनप्रकारो यया तादृशीमिव, पुनः कपोललावण्यपङ्कलग्नामिव कपोलतलयोः-गण्डस्थलयोः, यल्लावण्यंसौन्दर्य, तद्रूपे पङ्के, लग्नां-संश्लिष्टामिव, पुनः दीर्घकालविरतनिमेषखेदनिःसहामिव दीर्घकालविरतस्य-चिर निमेषखेदस्य-स्पन्ददुःखस्य, निःसहाम्-असहिष्णुमिव, पुनः लब्धलोकोत्तरास्पदपरित्यागकातरामिव लब्धस्य-अध्या. सितस्य, लोकोत्तरस्य-सर्वोत्कृष्टस्य, आस्पदस्य-स्थानस्य, परित्यागेन कातराम्-अधीरामिव, अनुरागनिश्चला स्नेहस्थिरां, दृष्टिं चक्षुः, कथञ्चित् कथमपि, मुनीन्द्रमुखचन्द्रात् मुनीन्द्रस्य-प्रकृतजिनेन्द्रस्य, मुखरूपात् चन्द्रात् , आकृष्य बलान्निवर्त्य; [टपाटलचञ्चपुटसूच्यमानशुकपेटकावस्थितिःपाटलाभ्यां-रक्तवर्णाभ्यां. चञ्चपुटाभ्यांप्रत्याय्यमाना, शुकपेटकस्य-शुकसमूहस्य, अवस्थितियस्मिंस्तादृशः, अतिप्रभाढ्यः अत्यन्तद्युतिपूर्णः, अयं प्रत्यक्षः, इन्द्रनीलमत्तालम्बः इन्द्रनीलमणिनिर्मितः, मत्तालम्बः-मत्तवारणः, उपवेशनस्थानविशेष इत्यर्थः, अस्तीति शेषः, पुनः चन्द्रिकाशकिचकोरलिह्यमानवदनेन्दुकान्तिः चन्द्रिकाशङ्किभिः-ज्योत्स्नाभ्रान्तिमद्भिः, चकोरैः-चन्द्रप्रियपक्षिविशेषैः, लिह्यमानापीयमाना, वदनेन्दुकान्तिः-मुखचन्द्रच्छविर्यस्याः तादृशी, अतिसुन्दरी परममनोहारिणी, इयम् , इन्दुमणिशालभञ्जिका चन्द्रकान्तमणिमयपुत्तलिका, अस्तीति शेषः, पुनः भिन्नवर्णरत्नोपलपट्टसंघटनशबला भिन्नवर्णाना-नानावर्णानां, रत्नोपलपट्टानां-रत्नमयानां स्तम्भोपरिस्थितानां तिरश्चां स्तम्भविशेषाणां, संघटनेन-सन्निवेशेन, शबला-चित्रवर्णा, इयं सन्निकृष्टा, स्तम्भपङ्किः स्तम्भश्रेणी, आखण्डलचापखण्डनिर्मितेव आखण्डलस्य-इन्द्रस्य, यश्चापः-धनुः, तस्य खण्डेन, निर्मितेवरचितेव, आभाति शोभते, पुनः अवलम्बितोऊवलमुक्ताकलापम् अवलम्बितः-अधोधृतः, उज्वलः-मुक्ताकलापः-मुक्तामणिगणो येन तादृशम् , अत इन्दुमण्डलमिव चन्द्रबिम्बमिव, अधोमुखमयूखकन्दलम् अधोमुखानि-अधःपातीनि, मयूखकन्दलानि-किरणाकुरा यस्य तादृशम् , इदं पुरोवर्ति, सितदुक्रलवितानं शुभ्रकौशेयवस्त्रमयोल्लोचः, इन्दुमण्डलमिव चन्द्रबिम्बमिव, आनन्दयति प्रसादयति [ठ] । इति इत्थं, प्रशस्तानेकवस्तुदर्शनरसाक्षिप्तदृष्टिः प्रशस्तानां-मनोहराणाम् , अनेकेषां-बहूनां, वस्तूनां, दर्शनरसेन-दर्शनकौतुकेन, आक्षिप्ता-आकृष्टा, दृष्टिः-चक्षुर्यस्य तादृशः; असियष्टिकरालकरतलैः असियष्ट्या-खड्गयष्टिकया, करालं-भीषणं, करतलं-हस्ततलं येषां तादृशैः, पुनः अमलमाणिक्यस्तम्भपातिभिः उज्जवलरत्नमयस्तम्भसंक्रामिभिः, स्वप्रतिमाशतैः स्वप्रतिबिम्बशतैः, अनुगम्यमानमूर्तितया अनुगम्यमानापरिवेष्ट्यमाना, मूर्तिः-शरीरं यस्य तादृशतया, सपत्तिपरिवार इव पत्तिभिः-पादगामिभिः, परिवारैः-परिवेष्टकजनैः सहित इव परिवेष्टित इवेत्युत्प्रेक्षा [ड] । इतस्ततः अत्र तत्र, प्रासादकुक्षिषु प्रकृतमन्दिरमध्येषु, सुचिरं दीर्घकालं, विहृत्य परिभ्रम्य, दक्षिणभित्तिप्राग्भागभाजि दक्षिणकुड्यपूर्वभागवर्तिनि, पुनः बद्धगुञ्जप्रभञ्जनावतारचारौ बद्धः-विहितः, गुजः-ध्वनियेन तादृशस्य, प्रभञ्जनस्य-पवनस्य, अवतारेण-आगमनेन, चारौ-मनोहरे, पुनः चारणाभिलिखितसुभाषितविभूषितद्वारशिरसि चारणैः-कीर्तिसंचारकजनविशेषैः, अभिलिखितानि-अभितो लिखितानि, यानि सुभाषितानि-यशोगानानि, तैः, भूषितम्-अलङ्कृतं, द्वारशिरः-द्वारोवभागो यस्य तादृशे, पुनः द्यूतरसिकसुरकुमारकोत्कीर्णविविधफलकाङ्किततले द्यूतरसिकैः-द्यूतक्रीडाकौतुकिभिः, सुरकुमारकैः-देवबालकैः, उत्कीर्णैः-उत्खातैः, फलकैः-द्यूतपट्टकैः, अङ्कितं-चिह्नितं, तलम्-अधोदेशो यस्य तादृशे, पुनः भुजङ्गकामिनीजघनपुलिनस्पर्शलालितोत्सङ्गे भुजङ्गकामिनीनां-सर्पस्त्रीणां, जघन
"Aho Shrutgyanam"