________________
तिलकमञ्जरी
१०१
मेकरूपेणाभिधातुमशक्यमाकलय्य कृतानन्तरूपयेवातिगम्भीरया भारत्या स्मरयन्निव समवसरणदुन्दुभिध्वनेरिति कर्तुं स्तुतिं प्रस्तुतवान्
"शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव, कमलखण्ड इव मारवेऽध्वनि भवभीमारण्य इह, वीक्षितोऽसि मुनिनाथ, कथमपि ॥ १ ॥ दृष्टे भवति नयनसृष्टया सममद्य जन्म जिन ! सफलमभून्मम । अकृतपुण्यमपि सुकृतिजनं प्रति, लघुमात्मानमवैमि न संप्रति ॥ २ ॥ [ज"
इत्यादिभिरपराभिरप्यनेकप्रकाराभिरुदारपदवृत्तशालिनीभिरन्वर्थगुणप्रथनहृदयङ्गमाभिः संवेगविस्तारणपटीयसीभिः स्तुतिभिरावर्जितप्राज्यपुण्यभारः [झ] परिक्षीणघनकल्मषसंघातलघुमपि संभावितगौरवमवाप्तनिःशेषतीर्थाभिषेकमिव समग्रग्रहकृतानुग्रह मिव कराग्रलमसप्तलोकराज्यसंपदमिव पादतलाक्रान्तदुःखपरम्पराकूपारपारमिव पावनं च सुखिनं च सुकृतिनं च कृतकृत्यं चात्मानं मन्यमानः [अ], चिरावस्थान
मपि समग्रमपि, गुणकलापं गुणराशिम् , एकरूपेण एकाकारेण, अभिधातुं वर्णयितुम् , अशक्यं शक्त्यसाध्यम् , आकलय्य अवगत्य, प्रासादभित्तिप्रतिनादच्छलेन प्रकृतायतनकुड्यप्रतिध्वनिव्याजेन, कृतानन्तरूपयेव धृतानन्ताकारयेवेत्युत्प्रेक्षा, अतिगम्भीरया परमोच्चया, भारत्या वाचा, समवसरणदुन्दभिध्वनेः तीर्थङ्करसम्बन्धिसभोत्सवभेरीनादस्य, स्मरयन्निव स्मृतिपथमवतारयन्निव, इति अनुपदवक्ष्यमाणप्रकारेण, स्तुतिं प्रकृतजिनेन्द्राभिनन्दनं, कर्तुं प्रस्तुतवान् प्रारब्धवान् ।
मुनिनाथ ! मुनिश्रेष्ठ ! शुष्कशिखरिणि शुष्कपर्वते, कल्पशाखीव कल्पवृक्ष इव, पुनः अधनग्रामे निर्धनग्रामे, निधिरिव धनकोष इव, पुनः मारवे मरुदेशसम्बन्धिनि, अध्वनि मार्गे, कमलखण्ड इव कमलवनमिव, इह अस्मिन् भवभीमारण्ये संसारात्मकभीषणवने, वीक्षितोऽसि दृष्टोऽसि ॥
जिन ! हे ऋषभजिन !, कथमपि केनापि प्रकारेण, आनुषङ्गिकतयापीत्यर्थः, भवति त्वयि, दृष्टे दृष्टिपथावतीर्णे सति, मम, नयनसृष्टया नयनरचनया, समं सह, जन्म, अद्य अस्मिन् दिने, सफलं सार्थकम् , अभूत् संपन्नम् , अकृतपुण्यमपि पुण्यरहितमपि, आत्मानं स्वम् , सुकृतिजनं प्रति पुण्यशालिजनापेक्षया, लघु न्यूनम् , अवैमि जानामि, जानन्नासमित्यर्थः, परन्तु सम्प्रति अधुना, त्वद्दर्शनसौभाग्यवेलायामित्यर्थः, न न जानामीत्यर्थः ॥ [ज] ____ इत्यादिभिः एतादृशीभिः, अपराभिरपि अन्याभिरपि, अनेकप्रकाराभिः बहुविधाभिः, उदारपदवृत्तशालिनीभिः उदारैः-प्रशंसनीयैः, बृहद्भिर्वा, पदैः-स्याद्यन्तत्याद्यन्तैः, वृत्तः-छन्दोभिश्च, शालन्ते-शोर अन्वर्थगुणग्रथनहृदयङ्गमाभिः अन्वर्थ-प्रत्यर्थ, गुणग्रथनेन-गुणानुबन्धेन हृदयङ्गमाभिः-मनोहराभिः, पुनः संवेगविस्तारणपटीयसीभिः संवेग:--वैराग्यं मोक्षाभिलाषो वा, तस्य विस्तारणे-वर्धने पटीयसीभिः-धुरीणाभिः, स्तुतिभिः गुणगाथाभिः, आवर्जितप्राज्यपुण्यसम्भारः आवर्जितः-उपार्जितः, प्राज्यस्य-प्रचुरस्य पुण्यस्य, सम्भारः-समूहो येन तादृशः सन् [झ परिक्षीणघनकल्मषसंघातलघमपि परिक्षीणेन-विध्वस्तेन, घनेन-निबिडेन, कल्मषसंघातेन-दुरितराशिना, लघुमपि गुरुत्वरहितमपि, सम्भावितगौरवं सम्भावितं सम्भावनाविषयीकृतं, गौरव-प्राशस्त्यं येन तादृशम् , आत्मानं खं, मन्यमानः जानन्नित्यप्रेणान्वेति, पुनः अवाप्तानिःशेषतीर्थाभिषेकमिव अवाप्तः-लब्धः, निःशेषेषु-समस्तषु, तीर्थेषु-पुण्यक्षेत्रेषु, अभिषेकः-स्नानसंस्कारो येन तादृशमिव, पुनः समग्रग्रहकृतानुग्रहमिव समप्रैः-सकलैः, ग्रहै:-राहुकेत्वादिभिः, कृतः, अनुग्रहः-कृपा यस्मिंस्तादृशमिव, पुनः करायलग्नसप्तलोकराज्यसम्पदमिव कराग्रे हस्ताग्रे, लग्ना-आश्लिष्टा, सप्तलोकानां-सप्तभुवनाना, राज्यसम्पत्-आधिपत्यसम्पत्तिर्यस्य तादृशमिव, पुनः पादतलाक्रान्तदुःखपरम्पराऽकृपारपारमिव-पादतलेन-पादाधस्तनभागेन, आक्रान्तः-अधिष्ठितः, दुःखपरम्पराऽकूपारस्य-दुःखसन्तानसागरस्य, पारः-सीमा येन तादृशमिव, च पुनः, पावनं पवित्रं, सुखिनं सानन्द, च पुनः, सुकृतिनं पुण्यवन्तम् ; च पुनः, कृतकृत्यं कृतकार्यम् , . आत्मानं मन्यमानः [अ] चिरावस्थानविस्मृतगतिकमामिव चिरावस्थानेन-दीर्घकालिकनिःस्यन्दतया, विस्मृतः
"Aho Shrutgyanam"