________________
टिप्पनक-परागविवृतिसंवलिता । ____ अनन्तरं च निरन्तरोदञ्चदुच्चरोमाङ्करकदम्बकेन कदम्बकेसरोपहारमिव किरता विग्रहेणोदग्रपक्ष्माग्रलग्नोज्वलाश्रुजलविग्रुषा महार्घमुक्ताफलार्घमिवोरिक्षपता चक्षुर्द्वयेनोपलक्ष्यमाणहृदयानन्दथुना मन्थरमुपसृत्य शिरसि विरचिताञ्जलिमुकुलकरालभालपट्टस्तटघटितैकशुक्तिसंपुट इव जलराशिरतुलया भक्त्या प्रणम्य [च] प्रणतसुरमुकुटकोटिचुम्बितचरणपरागमपरागं तृणवदुज्झितानन्तरायमनन्तरायं त्रिभुवनभवनदीपमभवनदीपं संसारजीर्णरण्यैकपारिजातमपारिजातं सकलभव्यलोकनयनाभिनन्दनं नाभिनन्दनम् [छ] । आनन्दगद्गदया नवोदभारालसरसत्पयोदनादमेदुरया प्रासादभित्तिप्रतिनादच्छलेन सकलमपि गुणकलाप
टिप्पनकम्-विग्रहेण शरीरेण, चक्षुर्द्धयेन चोपलक्ष्यमाणहृदयानन्द इति चकारो द्रष्टव्यः [च] । यदि चुम्बितचरणपरागं कथम् अपरागम् अविद्यमानपरागम् ?, अन्यत्र अपगतरागम् । यदि उज्झितान्तरायं कथम् अनन्तरायम् अनन्तद्रव्यम् ? अन्यत्र अविद्यमानान्तरायकर्माणम् । यदि त्रिभुवनभवनदीपं जगत्रयगृहप्रदीपं, तत् कथम् अभवनदीपं न गृहदीपम् ? अन्यत्र अविद्यमानसंसारसमुद्रम् । यदि संसारजीर्णारण्यैकपारिजातं तत् कथम् अपारिजातं न पारिजातम् ? अन्यत्र अपगतबाह्याभ्यन्तरशत्रुसमूहम् । यदि सकलभव्यलोकनयनाभिनन्दनं तत् कथं नाभिनन्दनं न अभिनन्दनम् ? अन्यत्र नाभिकूलकरपुत्रम्
च पुनः, अनन्तरं प्रकृतप्रतिमादर्शनाव्यवहितोत्तरम् , निरन्तरोदश्चदुच्चरोमाकुरकदम्बकेन निरन्तरम्-अनवरतम् , उदञ्चत्-उद्गच्छत् , उच्चानाम्-उन्नतानां, रोमाङ्कराणां-पुलकाङ्कराणां, कदम्ब-समूहो यस्मिंस्तादृशेन. अत एव कदम्ब केसरोपहारं कदम्बाख्यकुसुमकिजल्करूपमुपहार, किरतेव विक्षिपतेवेत्युत्प्रेक्षा, विग्रहेण शरीरेण, पुनः उदग्रपक्ष्माग्रलग्नोज्वलाश्रुजलविपुषा उदग्रयोः-उन्नतयोः, पक्ष्मणोः-नयनरोमराज्योः, अने, लग्नाः-सङ्गताः, उज्ज्वलाः-भास्वराः, अश्रुजलविनुषः-नयनस्यन्दिजलबिन्दवो यस्मिंस्तादृशेन, अत एव महार्घमुक्ताफला प्रशस्तमुक्तामणिरूपमघम् , उत्क्षिपतेव उत्सृजतेवेत्युत्प्रेक्षा, चक्षुद्धयेन नेत्रयुगलेन, च, उपलक्ष्यमाणहृदयानन्दथुना प्रतीयमानहृदयानन्देन, मन्थरं मन्दम् , उपसृत्य समीपं गत्वा, 'उपलक्ष्यमाणहृदयानन्दः' इति पाठे तु निरुक्तेन शरीरेण चक्षुयेन च प्रतीयमानो हृदयानन्दो यस्य तादृशः समरकेतुरित्यर्थो ज्ञेयः,शिरसि मस्तके, विरचिताञ्जलिमुकुलकरालभालपट्टः विरचितेन-निर्मितेन, अञ्जलिमुकुलेन-अञ्जलि रूपकुङ्मलेन, काराल:-भीषणः, तुङ्गो वा, भालपट्टः-ललाटफलकं यस्य तादृशः सन् , अत एव तटघटितैकशुक्तिसम्पुटः तटेतीरे, घटितः-मिलितः, एकः शुक्तिसम्पुटः-संश्लिष्टशुक्तिर्यस्य तादृशः, जलराशिरिव समुद्र इवेत्युत्प्रेक्षा, नाभिनन्दनं नाभिसुतम् , ऋषभदेवमित्यर्थः, अतुलया अनुपमया, भक्त्या प्रीत्या, प्रणम्य नमस्कृत्य [च], कीदृशम् ? प्रणतसुरमुकुटकोटिचुम्बितचरणपरागं प्रणतानां-नमस्कृतवतां, सुराणां-देवानां, मुकुटकोटिभिः-कोटिमस्तकालङ्करणैः, चुम्बितः-स्पृष्टः, चरणयोः-पदकमलयोः, परागः-धूलियस्य तादृशमपि, अपरागं परागरहितमिति विरोधः, तदुद्धारे तु अप-अपगतो रागः-विषयाद्यभिलाषो यस्य तादृशम् , पुनः तृणवदुज्झितानन्तरायं तृणवत्-तृणमिव, उज्झितः-त्यक्तः, अनन्तः-अप्रमितः, रा:-धनं येन तादृशं, तथापि अनन्तरायम् अनन्तधनकमिति विरोधः, तदुद्धारे तु अविद्यमानः, अन्तरायः-विघ्नो विघ्नजनकमन्तरायकर्म वा यस्य तादृशम् , पुनः त्रिभुवनभवनदीपं त्रिभुवनरूपस्य-लोकत्रयात्मकस्य, भवनस्य-गृहस्य, दीपं - ज्ञानालोकजनकं, यद्वा भुवनत्रयस्य भवनदीपं-गृहदीपं, तथापि अभवनदीपं भवनदीपभिन्नमिति विरोधः, तत्परिहारे तु अभवनस्य-भवो नामोत्पत्तिः, तद्विरुद्धस्य मोक्षसुखस्य, नदीपं-सागरम् , यद्वा न विद्यते भवात्मकः सागरो यस्य तादृशम् , पुनः संसारजीारण्यैकपारिजातं संसाररूपस्य, जीर्णस्य-प्राचीनस्य, अरण्यस्य-वनस्य, एकम्-अद्वितीयं, पारिजातं-देववृक्ष, तथापि अपारिजातं पारिजातभिन्नमिति विरोधः, तत्परिहारे तु अप-अपगतम् , अरिजातं-बाह्याभ्यन्तरशत्रुवर्गो यस्य तादृशम् , पुनः सकलभव्यलोकनयनाभिनन्दनं सकलानां-सर्वेषां, भव्यलोकाना-मोक्षगमनाहजनानां, नयनाभिनन्दनं नयनप्रसादकम् , तथापि नाभिनन्दनं अभिनन्दनभिन्नमिति विरोधः, तत्परिहारे-नाभेः-नाभिनामककुलकस्य, नन्दन-पुत्रम् , ऋषभदेवमित्यर्थः [छ] । आनन्दगद्गदया आनन्दरूपहेतुना अव्यक्तरूपया, पुनः नवोदभारालसरसत्पयोदनादमेदुरया नवोदभारेण-नवीनजलगौरवेण, अलसानां-मन्थराणां, रसतां-ध्वनतां च, पयोदानां-मेघानां, नादवत्-वनिवत् , मेदुरया-सान्द्रया, पुनः सकल
"Aho Shrutgyanam"