________________
तिलकमञ्जरी मण्डलेनोद्भासिताम् , इन्दुमण्डलसितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्याम् , अशेषतश्च विविधविमानवाहनाधिरूद्वैरत्युदाराकृतिभिरप्सरोविराजितपार्वैर निमेषलोचनतया रूपालोकनपरैरिव कैश्चिदास्फालितदिव्यतूर्यैः कैश्चिदुत्सृष्टकुसुमवृष्टिभिः कैश्चिल्ललाटघटिताञ्जलिपुटैरम्बरतलवर्तिभिः कृत्रिमसुरसमूहैः परिकरिताम् [घ],
आर्द्रगोशीर्षचन्दनाङ्गरागवाहिनीम् , आमोदितमन्दिरोदराभिर्मकरन्दलोभलग्नैरतिनिस्पन्दतया प्रसुप्तैरिव मूर्छितैरिव प्रथितैरिव मधुकरैः शारीकृताभिः पारिजातकुसुमस्रम्भिरभ्यर्चिताम् , अगाधभवजलधिसेतुबन्धस्य बन्धनिर्मुक्तात्मनो मुक्तिसुखैककारणस्य निष्कारणबन्धोः परमकारुणिकस्य शरणार्थिजन्तुसार्थसाध्वसमुषो निर्निमेषेण केवलज्ञानचक्षुषा साक्षात्कृतसकलभावस्य भुवनत्रयगुरोर्युगादिपार्थिवस्य प्रथमजिनपतेऋषभस्य निर्भूषणामप्यनन्तगुणभूषणाम् , अपहस्तितगभस्तिमालितेजसा विग्रहवतेव केवलालोकेन सर्वालेभ्यो विगलता प्रभापूरेण परितः परीतां, महाप्रमाणां, चिन्तामणिमयीं, प्रतिमामपश्यत् [6] ।
शोभायाः, लाभाय-प्रत्यागमनाय, सेवागतेन आराधनार्थमुपस्थितेन, भास्वतेव सूर्येणेव, अतिस्वराकृतिना अतिदीप्राकारेण, प्रभामण्डलेन विडम्बितदिनकरबिम्बलक्ष्मीके मौलिपृष्ठे वर्तमानेन प्रकृष्टेन कान्तिमण्डलेन, उद्धासिताम् उद्दीपिताम् । पुनः इन्दुमण्डलसितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्याम् इन्दुमण्डलसदृश्या-चन्द्रबिम्बसदृश्या, सितातपत्रत्रय्याधवलच्छनत्रयेन, प्रकाशितं-प्रत्यायितं, त्रिभुवनैश्वर्य-भुवनत्रयाधिपत्यं यया तादृशीम् । पुनः विविधविमानवाहनाधिरूढैः विविधं-नानाप्रकारकं, विमानं व्योमयानं, वाहनं-रथादियानम् , अधिरूढः-आरूढैः, अत्यदाराकृतिभिः अतिप्रधानाकारैः, अप्सरोविराजितपार्वैः स्वर्वेश्याधिष्ठितपार्श्वभागैः, पुनः अनिमेषलोचनतया निःस्पन्दनयनतया, रूपालोकनपरैरिव रूपदर्शनासक्तैरिवेत्युत्प्रेक्षा, कैश्चित् कतिपयैः, आस्फालितदिव्यतूर्यैः आस्फालितं-ताडितं, दिव्यं-खर्गीयम् उत्तमं वा, तूर्य-वाद्यविशेषो यैस्तादृशैः, पुनः कैश्चित कैरपि, उत्सष्टकसमवृधिभिः उत्सृष्टा-विक्षिप्ता, कुसुमवृष्टिः-पुष्पधारा यस्तादृशैः, पुनः कैश्चित् कतिपयैः, ललाटघटिताअलिपुटैः ललाटे घटितः-निवेशितः, अञ्जलिपुटः-पुटाकारसंश्लिष्टपाणियुगलं यस्तादृशैः, अम्बरतलवर्तिभिः गगनतलस्थितैः, कृत्रिमसुरसमूहैः निर्मितदेवगणैः, तत्प्रतिमाभिरित्यर्थः, परिकरितां परिवेष्टिताम् [घ ]; पुनः आर्द्रगोशीर्षचन्दनाङ्गरागवाहिनीम् आर्द्र-सरसं यद् गोशीर्षचन्दनं-हरिचन्दनं, तद्रूपाङ्गरागवाहिनीं-तद्रूपाङ्गलेपधारिणीम् । पुनः आमोदितमन्दिरोदराभिः आमोदितम्-अतिसुरभीकृतं, मन्दिरोदरं-प्रकृतायतना भ्यन्तरं याभिस्तादृशीभिः, पुनः मधुकरैः भ्रमरैः, शारीकृताभिः चित्रिताभिः, कीदृशैः ? मकरन्दलोभलग्नः पुष्परसलोभासक्तैः, पुनः अतिनिःस्पन्दतया अत्यन्तनिश्चलतया, प्रसुप्तैरिव अतिनिद्रितैरिव, पुनः मूछितैरिव संज्ञाशून्यैरिव, पुनः ग्रथितैरिव नियन्त्रितैरिवेति सर्वत्रोत्प्रेक्षा, पारिजातकुसुमस्रग्भिः पारिजाताख्यदेवकुसुममालाभिः, अभ्यर्चितां प्रपूजिताम् , अतितर्पितामित्यर्थः, कीदृशस्य कस्य प्रतिमाम् ? अगाधभवजलधिसेतुबन्धस्य अगाधस्य-अतलस्पर्शस्य, अतिगभीरस्येत्यर्थः, भवजलधेः-संसारसागरस्य, तदुत्तरणोपयोगिनः, सेतुबन्धस्य-सेतुबन्धखरूपस्य, पुनः बन्धनिर्मुक्तात्मनः कामादिवन्धनविमुक्तान्तःकरणस्य, पुनः मुक्तिसुखैककारणस्य मोक्षाख्यसुखैकहेतोः, पुनः निष्कारणबन्धोः निःखार्थहितैषिणः, परमकारुणिकस्य अत्यन्तदयालोः, पुनः शरणार्थिजन्तुसार्थसाध्वसमुषः शरणार्थिनः-रक्षकाभिलाषिणः, जन्तुसार्थस्य--प्राणिगणस्य, यत् साध्वसं-भयं, तन्मुषः-तदपहारिणः, पुनः निर्निमेषेण निश्चलेन, स्थायिने यर्थः, केवलज्ञानचक्षुषा इन्द्रियानपेक्षापरिच्छिन्नज्ञानरूपदृष्टया, साक्षात्कृतसकलभावस्य हस्तामलाकवदशेषविशेषपुरस्कारेणापरोक्षीकृताशेषपदार्थस्य, पुनः भुवनत्रयगुरोः खर्ग-मर्त्य-पातालाख्यलोकत्रयसम्यग्ज्ञानप्रदस्य, युगादिपार्थिवस्य युगारम्भिकपृथिव्यधिपतेः, प्रथमजिनपतेः आदिजिनेन्द्रस्य, ऋषभस्य ऋषभदेवस्य सम्बन्धिनीम् ; पुनः निर्भूषणामपि भूषणरहितामपि, भूषणाभावदशायामपीत्यर्थः, अनन्तगुणभूषणाम अपारगुणालङ्कताम् ; पुनः परितः सर्वतः, प्रभापूरेण द्युतिमण्डलेन, परीतां व्याप्ताम् , कीदृशेन? अपहस्तितगभस्तिमालितेजसा अपहस्तितम्-अपहृतं, गभस्तिमालिन -मरीचिमालिन;, सूर्यस्येत्यर्थः, तेजो येन तादृशेन, विग्रहवता मूर्तिमता, केवलालोकेनेव केवलज्ञानप्रकाशेनेव, सर्वाङ्गेभ्यः समस्तावयवेभ्यः, विगलता
महाप्रमाणाम् अधिकप्रमाणाम् , चिन्तामणिमयीं चिन्तामणि म सर्वोत्तममणिस्तन्मयीम् [छ।
"Aho Shrutgyanam"