SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९८ टिप्पनक-परागविवृतिसंवलिता। विभाव्यमाननिरुपमरूपशोभामभिमुखीमभितः प्रतिष्ठितयक्षदेवताप्रतियातनासनाथद्वारभागस्य नागदन्तावसक्तधवलचामरार्चितचारुभित्तेरेकपाविलम्बमानसंकोचितदेवाङ्गजवनिकापटस्य जयन्तिकावलम्बिजाम्बूनदशृङ्खलाकलितवाचालवज्रघण्टस्य दह्यमानप्रबलकालागुरुधूपधूमान्धकारमन्दायमानरत्नदीपदीधितिसंदर्भस्य गर्भवेश्मनो गर्भभागमलङ्कुर्वाणां [ख], ग्रहचक्रालंकृते मृगभाजि सिंहोद्भासिते नभस्तल इवालघीयसि सिंहासने निबद्धपद्मासनाम् , उपर्युपरि विरचितोत्तानकरयुगलकिसलयिताङ्कमध्याम् , [ग] आभङ्गिनीभिः कृष्णागुरुपङ्कलिखिताभिरिव पत्रभङ्गलताभिः केशवल्लरीभिरध्यासितोभयांशपीठाम् , अपाङ्गभागचुम्बितश्रवणान्तेन किञ्चिन्नतपक्ष्मणा निर्विकारतारकेण चक्षुषा विद्योतितवदनेन्दुबिम्बाम् , अंसावलम्बिधवलचामरसुरेन्द्रसेवितसव्यापसव्यपावा, प्रभापहृतबिम्बलक्ष्मीलाभाय भास्वतेव सेवागतेनातिभास्वराकृतिना प्रभा टिप्पनकम्-गृहचक्रालङ्कते मृगभाजि सिंहोद्भासिते नभस्तल इवालघीयसि सिंहासने एकत्र आदित्यादिग्रहशोभिते मृगशिरोयुक्ते सिंहराशिराजिते, अन्यत्र नवग्रहराजिते हरिणयुग्मयुक्ते सिंहद्वयशोभिते [ग]। विभाव्यमाननिरुपमरूपशोभां विभाव्यमाना-प्रतीयमाना, दृश्यमानेत्यर्थः, निरुपमा-अनन्यसदृशी, रूपशोभा-आकारसौन्दर्य यस्यास्तादृशीम् ; पुनः अभिमुखीम् सम्मुखीम् ; पुनः गर्भवेश्मनः अन्तर्वतिगृहस्य, गर्भभागम् अभ्यन्तरभागम् , अलङ्कर्वाणां विभूषयन्तीम् , कीदृशस्य ? अभितःप्रतिष्ठितयक्षदेवताप्रतियातनासनाथद्वारभागस्य अभितः-सर्वतः, प्रतिष्ठिताभिः-अवस्थिताभिः, यक्षदेवताना-यक्षरूपदेवतानां, प्रतियातनाभिः-प्रतिमाभिः, सनाथः-साध्यक्षः, द्वारभागःद्वारदेशो यस्य तादृशस्य, पुनः नागदन्तावसक्तधवलचामरार्चितचारुभित्तेः नागदन्तेषु-हस्तिदन्तमयघोटकेषु, अवसक्तैः-अवलम्बितैः, धवलचामरैः-श्वेतचामरैः, अर्चिता-शोभिता, चारुः-मनोहरा, भित्तिः-कुडयं यस्य तादृशस्य, पुनः एकपाश्र्वावलम्बमानसंकोचितदेवाङ्गजवनिकापटस्य एकपार्श्वे-एकस्मिन् कक्षाऽधोभागे, अवलम्ब्यमानः-अवनमन्, संकोचितदेवाङ्गः-संकोचितं-तिरोहितं देवानं-देवमूत्यैकदेशो येन तादृशः, जवनिकापटः-तिरस्करिणीवस्त्रं यस्मिंस्तादृशस्य, पुनः जयन्तिकावलम्बिजाम्बूनदशङ्खलाकलितवाचालवज्रघण्टस्य जयन्तिका-पट्टपाशकः, तदवलम्बिनी या जाम्बूनदशृङ्खला-सुवर्णमयरज्जुः, तत्कलिता-तदवष्टब्धा, वाचाला-वनन्ती, वज्रघण्टा-हीरकाख्यरत्नमयवाद्यविशेषो यस्मिंस्तादृशस्य, पुनः दह्यमानप्रबलकालागुरुधूपधूमान्धकारमन्दायमानरत्नदीपदीधितिसन्दर्भस्य दह्यमानस्य-वह्निसंताप्यमानस्य, कालागुरुधूपस्य-कालागुरुसंज्ञकसुगन्धिद्रव्यस्य, धूमः,मन्दायमाना-मान्द्यमापद्यमाना, रत्नदीपस्य-मणिरूपदीपस्य, दीधितिसन्दर्भ:प्रकाशपरम्परा यस्मिंस्तादृशस्य [ख] पुनः कीदृशीम् ? नभस्तल इव गगनतल इव, ग्रहचकालते ग्रहचक्रेण-सूर्यादिनवग्रहाकृतिभिः, अलते-शोभिते, मृगभाजि मृगाभ्यां-हरिणाकृतिद्वयेन, पक्षे मृगेण-मृगशिरोनक्षत्रेण, विचित्रे, पुनः सिंहोद्भासिते सिंहाभ्यां-सिंहाकृतिद्वयेन, पक्षे सिंहराशिना, उद्भासिते-उद्दीपिते, पुनः अलघीयसि विस्तृते, सिंहासने महासने, निबद्धपद्मासनां निबद्धं-रचितं, पद्मासनं-आसनविशेषो यया तादृशीम : पुनः उपर्यपरि ऊर्ध्वमूर्च, विरचितोत्तानकरयुगलकिसलयिताङ्कमध्यां विरचितेन-निर्मितेन, सन्निवेशितेनेत्यर्थः, उत्तानेन, करयुगलेन-हस्तद्वयेन, किसलयितं-सञ्जातपल्लवमिव, अङ्कमध्यं-कोडमध्यं यस्यास्तादृशीम् [ग]; पुनः आसङ्गिनीभिः संश्लिष्टाभिः, कृष्णागुरुपङ्कलिखिताभिः कालागुरुकर्दमकल्पिताभिः, पत्रमङ्गलताभिरिव पत्रविशेषाकृतिपतिभिरिव, केशवल्लरीभिः केशपाशैः,अध्यासितोभयांसपीठाम् , अध्यासितम्-अधिष्ठितम् , उभयांसरूपं-स्कन्धद्वयरूपं पीठम्-आसनं यस्यास्तादृशीम् ; पुनः अपाङ्गभागचुम्बितश्रवणान्तेन अपाङ्गभागाभ्यां नयनप्रान्तभागाभ्यां, चुम्बितः-स्पृष्टः, श्रवणान्तः-कर्णान्तो येन तादृशेन, पुनः किञ्चिन्नतपक्ष्मणा किञ्चिन्नतम्-ईषन्ननं, पक्ष्म-नयनरोमराजिर्यस्य तादृशेन, पुनः निर्विकारतारकेण निर्विकारा-निर्मला तारका-कनीनिका यस्य तादृशेन, चक्षुषा नेत्रेण, विद्योतितवदनेन्दुबिम्बां विद्योतितः-विभासितः, वदनेन्दुबिम्बः-मुखचन्द्रमण्डलं यस्यास्तादृशीम् ; पुनः अंसावलम्बिधवलचामरसुरेन्द्रसेवितसव्यापसव्यपा.म.अंसावलम्बी-स्कन्धनम्रः धवलः-श्वेतः, चामरः-बालव्यजनं यस्य तादृशेन, सुरेन्द्रेण-देवराजेन, सेविते-अधिष्ठिते, सव्यापसव्ये-दक्षिणवामे, पार्श्व-कक्षाऽधो भागौ यस्यास्तादृशीम् ; पुनःप्रभापहृतबिम्बलक्ष्मीलाभाय प्रभया-कान्त्या, अपहृतायाः-चोरितायाः, बिम्बलक्ष्म्याः-स्वबिम्ब "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy