________________
तिलकमञ्जरी मण्डलोत्पत्तिमृत्पिण्डमिव प्रजापतिकुलालस्य, मौलिमुकुटमिव मर्त्यलोकभूपालस्य, तपनीयबुध्नमिव तारकाकुसुमनभःकल्पद्रुमस्य, विद्रुमकलशमिव शेषाहिदण्डधरामण्डलोष्णवारणस्य, तत्क्षणोदितार्कबिम्बबहुलरागाभिः पद्मरागशिलासंहतिभिराहितनिर्माणं निर्मानुषममानुषलोकसुलभदर्शनं सुदर्शननामायतनं ददर्श [अ] ।
___ तच्च तथाविधमपरत्र कुत्रचिददृष्टपूर्वमपूर्वाकारविशेषमशेषाश्चर्यपर्यन्तभूमिभूतमकाण्ड एवाविर्भूत मायतनमतनुविस्मयस्फारितपुटाभ्यामुत्पक्ष्मराजिभ्यां चित्रलिखिताभ्यामिव लोचनाभ्यां किमिदमिति सक्षोभाक्षमीक्षमाणः क्षणमात्रमुपरतापरकरणसंवेदनशक्तिरेकेन्द्रियत्वमिवापेदे [क]।
___ ततश्चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन पतत्तरङ्गितगङ्गास्रोतसेवाम्बरविवरेण वरीयसा मरकतमणिगोपुरेणोत्सर्पिचूडामणिमरीचिमांसलितमण्डपद्वारवन्दनमालाप्रवालसन्निवेशः प्रविश्याभ्यन्तरे दूरादेव
टिप्पनकम्-वरीयसा उरुतरेण, गोपुरं-प्रतोलीद्वारम् , नागदन्ताः-घोटकाः, जयन्तिका-पट्टपाशकः [ख] ।
आलोक्यमानमिव दृश्यमानमिव; पुनः प्रजापतिकुलालस्य विधातृकुम्भकारस्य, प्रलयार्कमण्डलोत्पत्तिमृत्पिण्डमिव प्रलयार्कमण्डलस्य-प्रलयकालिकसूर्यमण्डलस्य, उत्पत्तये-सृष्ट्यर्थ, मृत्पिडं-मृत्तिकाराशिमिव; पुनः मर्त्यलोकभूपालस्य मर्त्यलोकरूपस्य भूपालस्य-नृपतेः, मौलिमुकुटमिव शिरोमुकुटमिव; पुनः तारकाकुसुमनभाकल्पद्रुमस्य तारका एव कुसुमानि-पुष्पाणि यस्य तादृशस्य, नभःकल्पद्रुमस्य-आकाशरूपकल्पवृक्षस्य, तपनीयबुध्नमिव सुवर्णमयमूलमिव; पुनः शेषाहिदण्डधरामण्डलोष्णवारणस्य शेषाहिः-शेषनागो दण्डो यस्य तादृशस्य, धरामण्डलोष्णवारणस्य-भूमण्डलातपत्रस्य, विद्रुमकलशमिव प्रवालमयकुम्भमिवेति सर्वत्रोत्प्रेक्षा; पुनः तत्क्षणोदितार्क बिम्बबहुलरागाभिः तत्क्षणं-तत्कालं, निर्माणकाल इत्यर्थः, उदितेन-उद्दीप्तेन, अर्कमण्डलेन-सूर्यमण्डलेन, बहुल:-प्रचुरः, रागः-रक्तवर्णो यासां तादृशीभिः, पद्मरागशिलासंहतिभिः पद्मरागाख्यरक्तमणिश्रेणीभिः, आहितनिर्माणं जनितनिर्माणम् ; पुनः निर्मानुषं मनुष्यशून्यम् । पुनः अमानुषलोकसुलभदर्शनम् अमानुषलोकैः-मनुष्यभिन्नजनैः, देवजनैरित्यर्थः, सुलभ-सुकरं दर्शनं यस्य तादृशम् ; पुनः सुदर्शननाम सुत्रु-मनोरमं, दर्शनं यस्य तादृशमित्यन्वर्थकनामकम् [अ]।
च पुनः, अपरत्र अन्यत्र, कुत्रचित् कुत्रापि, अदृष्टपूर्व पूर्वमदृष्टम् , पुनः अपूर्वाकारविशेषम् अपूर्वःविजातीयः, आकारविशेषः-आकृतिसौन्दर्य यस्य तादृशम् , पुनः अशेषाश्चर्यपर्यन्तभूमिभूतम् अशेषाणां-समस्तानाम् , आश्चर्याणाम् , पर्यन्तभूमिः-अवधिभूमिः, तद्भूतं तद्रूपम् , पुनः अकाण्ड एव अनवसर एव, अकस्मादेवेत्यर्थः, आविर्भूतं प्रकटितम्, तत् प्रकृतम् , आयतनं मन्दिरम् , अतनुविस्मयस्फारितपुटाभ्याम् अतनुना-प्रचुरेण, विस्मयेन-आश्चर्येण, स्फारितौ-विस्तारितो, प्रसारिताविति यावत्, पुटौ-पुटाकारपक्ष्मणी ययोस्तादृशाभ्याम् , उत्पक्ष्मराजिभ्याम् उद्तनयनरोमपटिकाभ्याम् , पुनः चित्रलिखिताभ्यामिव चित्रस्थिताभ्यामिवेत्युत्प्रेक्षा, निःस्पन्दाभ्यामित्यर्थः,लोचनाभ्यां नयनाभ्याम्, इदम् आयतनं, किं कीदृशम्, इति इत्थं, सक्षोभाक्षं सक्षोभे-सम्भ्रान्ते, अक्षिणी-नेत्रे यस्मिस्तादृशं यथा स्यात् तथा, ईक्षमाणः पश्यन् , क्षणमात्रं क्षणमेकम् , उपरतापरकरणसंवेदनशक्तिः उपरता-निवृत्ता, अपरेषा-चक्षुरतिरिक्तानां, करणानाम्-इन्द्रियाणां, संवेदनशक्तिः-ज्ञानशक्तिर्यस्मिंस्तादृशः सन् , एकेन्द्रियत्वमिव एकम्-अद्वितीयम् , इन्द्रियं-चक्षुयेस्य तत्त्वमिव, आपेदे प्राप्तवान् [क]।
ततः तदनन्तरं, चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन चन्द्रकान्तसोपानानां-चन्द्रकान्तमणिमयश्रेणिकानां, परम्परया-पतया, आक्रान्तः-व्याप्तः, तलभागः-अधोभागो यस्य तादृशेन, पुनः पतत्तरङ्गितगङ्गास्रोतसा पतत् स्यन्दमानं, तरङ्गितायाः-सजाततरङ्गायाः, गङ्गायाः, स्रोतः-प्रवाहो यस्मिंस्तादृशेन, अम्बरविवरेणेव आकाशरन्ध्रेणेव, वरीयसा अतिविपुलेन, मरकतमणिगोपुरेण इन्द्रनीलमणिमयप्रतोलीद्वारेण, उत्सर्पिचूडामणिमरीचिमांसलितमण्डपद्वारवन्दनमालाप्रवालसन्निवेशः उत्सर्पिभिः-उद्भासिभिः, चूडामणिमरीचिभिः-मुकुटमणि किरणः, मांसलितः-विपुलीकृतः, मण्डपद्वारवन्दनमालायाः-प्रकृतगृहविशेषद्वारार्चनमालासम्बन्धिनां, प्रवालानां-पल्लवानां, सन्निवेशः-पकिर्येन तादृशः सन् , अभ्यन्तरे प्रकृतायतनमध्यं, प्रविश्य प्रवेशं कृत्वा, प्रतिमां मूर्तिम् , अपश्यत् दृष्टवानित्यप्रेणान्वेति; कीदृशीम् ? दूरादेव दूरस्थानादेव
१३ तिलक
"Aho Shrutgyanam"