________________
टिप्पनक-परागविवृतिसंवलिता । वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुलं, वसन्तचूतद्रुममिव चारुमञ्जरीकम [ औ], अनेकमणिमालालकृतमपि रत्नचतुष्कराजितं ध्वजाधिष्ठितमपि सिंहाक्रान्तमङ्गीकृतविमानाकारमपि सर्वतोभद्रम् [अं], अग्रमणिभूमिनिपतितप्रतिमानिभेन च भग्नगतिना दिनकरेणापि सदैन्यमात्मरथप्रस्थानपथमिव प्रार्थ्यमानं, शिखरोल्लेखनदुःस्थितेन व्योम्नापि मन्थरतामिव ग्राह्यमाणं, कृत्रिममृगेन्द्रक्रमघातभीतेन जलदवृन्देनाप्यभयमिव याच्यमानम् , असंभावनीयोच्छ्रायजनितविस्मयेन निजप्रतिबिम्बेनाऽपि निपत्येवालोक्यमानं, प्रलयार्क
टिप्पनकम्-वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनासमनोरमम् एकत्र दुःखवर्णनीयवैशम्पायनजनकतद्भार्यम् , अन्यत्र रूपमयसिंहस्थानरमणीयम् , वैशम्पायनः-शुकविशेषः । जीवमिव चित्रकर्मखचितप्रदेशम् एकत्र नानाज्ञानावरणीयादिकर्मव्याप्तप्रदेशम् , अन्यत्र आलेख्यक्रियाखचितदेशम् । विदग्धकामिनीकेलिमन्दिरमिव मणितारावभासितोदरम् एकत्र रतिकूजितारावशोभितमध्यम्, अन्यत्र रत्नतारिकाशोभितमध्यम् । उत्तमपुरुष मिव विशालनेत्रहत्कपाटम् एकत्र विस्तीर्णनयनहृदयकपाटम् , अन्यत्र विस्तीर्णनयनहारिकपाटम् । चक्रवर्तिसैन्यमिवानेकरत्नशारीकृतमत्तवारणपरिकरम् एकत्र अनेके-नानारूपाः, रत्नशारीकृताः-मणिटङ्कचेविहिताः (?) मत्तवारणा:क्षीबकरिणः, परिकरः-परिच्छदो यस्य तत् तथोक्तम्, अन्यत्र अनेकरत्नैः शारीकृतानि मत्तवारणानि-आसनस्थानविशेषाः परिकरो यस्य तत् तथोक्तम् । वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुलम् एकत्र सुवर्णस्तम्भयोर्धत पीनबृहज्जङ्घाभ्यां सादृश्यं येन तथोक्तम् , अन्यत्र सुवर्णस्तम्भैर्धताः पीनाः-उर्व्यः, तुलाः-पट्टा यस्मिन् तत् । वसन्तचूतद्रममिव चारुमञ्जरीकम् रम्यमञ्जरीयुक्तम् , अन्यत्र शोभनशिखरम् [औ] । अनेकमणिमालालङ्कृतमपि रत्नचतुष्क
रत्नराशिशोभितं कथं रत्नचतुष्टयभूषितम् ? अन्यत्र रत्नरचनाविशेषशोभितम् , ध्वजाधिष्ठितमपि सिंहाक्रान्तं यदि ध्वजेनाधिष्ठितं कथं सिंहेनाक्रान्तम् ? पताकादण्डाधिष्ठित, सिंहस्थाने सिंहाक्रान्तम् । अङ्गीकृतविमानाकारमपि सर्वतोभद्रं यद्याश्रितविमानप्रासादाकारं कथं सर्वतोभद्रप्रासादम् ? अन्यत्र सर्वस्मिन् प्रदेशे कल्याणम् [अं] ।
पर्याप्ताः पूर्णा ये, मत्तवारणाः-मत्तहस्तिनः, तदात्मकः परिकरः-परिवारो यस्मिन् तादृशम् ; पुनः वराङ्गनावपुरिव वराङ्गनायाःउत्तमस्त्रियाः, वपुरिव-शरीरमिव, शातकुम्भस्तम्भधृतपीवरोरुतुलं शातकुम्भस्तम्भैः-सुवर्णमयस्थूणाभिः धृता, पीवराःपीनाः, उरवः-विशालाः, तुलाः-पट्टा यत्र तादृशम् ; पक्षे शातकुम्भस्तम्भयोः-सुवर्णस्तम्भयोः, धृता, पीवरा-महती, ऊरुभ्यांजङ्घाभ्यां, तुला-सादृश्यं येन तादृशम् ; पुनः वसन्तचूतद्रममिव वसन्ततुकालिकाम्रवृक्षमिव, चारुमञ्जरीकं चारु:मनोहरा, मञ्जरी-अभिनवफलसूक्ष्माङ्कुरश्रेणी, पक्षे तोरणलम्बितमणिमयाराकारश्रेणी शिखरं वा यस्मिंस्तादृशम् [औ] पुनः अनेकमणिमालालङ्कतमपि अनेकेषां-बहुविधानां, मणीनां, मालाभिः-पतिभिः, अलङ्कृतं-भूषितमपि, रत्नचतुष्कराजितं रत्नचतुष्केण-रत्नचतुष्टयेन, राजितं-विभासितमिति विरोधः, तत्परिहारे तु रत्नचतुष्केण-रत्नमयचतुरस्रस्थानरचनया राजितम् । पुनः ध्वजाधिष्ठितमपि ध्वजेन-पताकया, अधिष्ठितमपि-सम्बद्धमपि, सिंहाक्रान्तं सिंहव्याप्तमिति विरोधः, सिंहस्य परकीयोन्नत्यसहिष्णुत्वात् , परिहारस्तु-सिंहपदस्य कृत्रिमसिंहपरत्वेन बोध्यः, यद्वा सिंहस्थाने सिंहाक्रान्तम् ; पुनः अङ्गीकृतविमानाकारमपि अङ्गीकृतः-स्वीकृतः, विमानः-मानरहितः, आकारो येन तादृशमपि, सर्वतोभद्रं परिच्छिन्नगृहविशेषरूपम्, इति विरोधः, परिहारे तु अङ्गीकृतो विमानस्य-व्योमयानस्येवाकारो येन तादृशं, सर्वतः-सर्वस्मिन् प्रदेशे, भद्र-कल्याण चेत्यर्थः [अं] च पुनः, अग्रमणिभूमिनिपतितप्रतिमानिभेन अग्रे-सर्वोपरि, यद्वा अग्रा-चरमा, या मणिभूमिः-मणिबद्धः प्रदेशः तत्र, निपतितायाः-संक्रान्तायाः, प्रतिमायाः-प्रतिबिम्बस्य, निभेन-व्याजेन, भग्नगतिना भग्ना- तदीयशिखरेण निरुद्धा, गतिर्यस्य तादृशेन, दिनकरेणापि सूर्येणापि, सदैन्यं सदुःखम् , आत्मरथप्रस्थानपथं खकीयरथप्रयाणमार्ग, प्रार्थ्यमानमिव याच्यमानमिव; पुनः शिखरोल्लेखनदुःस्थितेन शिखरेण यदुल्लेखनम्-उद्धर्षणं, तेन दुःस्थितेन-दुःखितेन, व्योम्नाऽपि आकाशेनापि, मन्थरतां शिथिलतां, ग्राह्यमाणं-प्राप्यमाणमिव; पुनः कृत्रिममृगेन्द्रक्रमघातभीतेन कृत्रिमस्य-क्रियया निवृत्तस्य, निर्मितस्येत्यर्थः, मृगेन्द्रस्य-सिंहस्य, क्रमेण-पादविक्षेपेण, यो घातःप्रहारः, तस्माद् भीतेन, जलदवृन्देनापि मेघगणेनापि, अभयं तत्प्रहारभयाभावं, याच्यमानमिव अभ्यर्थ्यमानमिव; पुनः असम्भावनीयोच्छायजनितविस्मयेन असम्भावनीयेन-सम्भावयितुमप्यशक्येन, उच्छ्रायेण-औन्नत्येन, जनितो विस्मयः-आश्चर्य यस्य तादृशेन, निजप्रतिबिम्बेनापि खीयप्रतिच्छाययाऽपि, निपत्य नीचैः पतित्वा,
"Aho Shrutgyanam"