________________
तिलकमञ्जरी
९५
कलापिकेकारवैः [ ऐ], कचित् सितभुजङ्गशङ्किमयूरोपरुध्यमान बिम्बागतचलच्चीनांशुकपताकं, कचिद्धूतशुकमुच्यमानदाडिमबीजबुद्धिजग्धसूर्यकान्तवान्ताग्निकणिकं, क्वचित् प्रदीपलोलशलभलङ्घयमानोच्छिखपुष्परागं, कचिदामिषाशनश्येन हेलाक्रम्यमाणकृत्रिम विहङ्गं क्वचिन्मदनपरायत्तमत्तपा पतपरिक्षिप्यमाणनिजप्रतिबिम्बं क्वचिदम्बुधारोत्कचातकचुम्ब्यमानमौक्तिकलताप्रालम्बम [ अ ], वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनास मनोरमं जीवमिव चित्रकर्मखचितप्रदेशं, विदग्धकामिनीकेलिमन्दिरमिव मणिताराव - भासितोदरम् उत्तमपुरुषमिव विशालनेत्रहृत्कपाटं, चक्रवर्तिसैन्यमिवानेकरत्नशारी कृतमत्तवारणपरिकरं,
पवनेन वायुना, , चलितैः-उद्धतैः, ऊर्ध्वध्वजपताकाञ्चलैः - उपरितनध्वजसम्बन्धिपटाग्रभागैः, विहिताह्नानमिव आहूतवदिव; पुनः तुङ्गस्तम्बैः उन्नतस्तम्बैः, प्रस्तुतप्रत्युत्थानमिव प्रस्तुतं प्रारब्धं प्रत्युत्थानं - स्वस्याभ्युत्थानं येन तादृशमिव; पुनः गवाक्षमुखनिलीनकलापिकेकारवैः गवाक्षमुखे - वातायनोर्श्वभागे, निलीनानां - तिरोभूतानां, कलापिनां - मयूराणां, केका रखैः-केकाख्यशब्दैः, आरब्धसम्भाषमिव प्रवर्तितालापमिव [ ऐ ]; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, सितभुजङ्गशङ्किमयूरोपरुध्यमानविम्बागतचलच्चीनांशुकपताकं सितभुजङ्गशङ्किभिः श्वेतसर्पसन्देहिभिः, मयूरैः, उपरुध्यमाना-निवार्य - माणो, बिम्बागता-प्रतिच्छायात्मनाऽऽपतिता, चलन्ती - उद्वेलन्ती, चीनांशुकपताका-चीनाख्यजनपदरचितसूक्ष्मश्लक्ष्णवस्त्ररूपा पताका-ध्वजाग्रवर्तिपटो यस्मिंस्तादृशम् पुनः क्वचित् कस्मिंश्चित् प्रदेशे, धूतचञ्चशुकमुच्यमानदाडिमबीजबुद्धिजग्धसूर्यकान्तवान्ताग्निकणिकं धूता- कम्पिता, चक्षुः - तुण्डं यैस्तादृशैः शुकैः, मुच्यमानानां विक्षिप्यमाणानां, दाडिमबीजानां, बुद्धया-भ्रान्त्या जग्धाः - भक्षिताः, सूर्यकान्तेन तदाख्यमणिना, वान्ताः- उद्गीर्णाः, अभिकणिका:- स्फुलिङ्गा यस्मिंस्तादृशम् ; पुनः क्वचित् कुत्रापि प्रदेशे, प्रदीपलोलशलभलङ्घयमानोच्छिखपुष्परागं प्रदीपलोलैः - प्रदीपान्तःपतनोत्कण्ठया तरलैः, शलभैः- पतत्रैः, लङ्घयमानः - प्रदीपभ्रान्त्या अतिक्रम्यमाणः, उच्छिखः - उत्- ऊर्ध्वं, शिखा - ज्वाला यस्य तादृशः, पुष्पपरागः-पद्मरागमणिर्यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् स्थाने, आमिषाशनश्येन हेलाक्रम्यमाणकृत्रिमविहङ्ग आमिषाशनैः-मांसाहारिभिः, श्येनैः - तदाख्यपक्षिविशेषैः, हेलया - कौतुकेन, आक्रम्यमाणाः - हठेन व्याप्यमानाः, कृत्रिमविहङ्गाःकृत्रिमाः-क्रियया निर्वृत्ताः, रचिता इत्यर्थः, पक्षिणः, पक्षिप्रतिकृतय इति यावत्, यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् स्थाने, मदनपरायत्तमत्तपारापतपरिक्षिप्यमाणनिजप्रतिबिम्बं मदनपरायत्तैः - कृत्रिम कपोतीविलोकन जन्यकामपरवशैः, मत्तपारापतैः-कामाकुलितकपोतैः, परिक्षिप्यमाणः - निकटोड्डीयमानतया सर्वतः समर्यमाणः, निजः - स्वकीयः, प्रतिबिम्बो यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, अम्बुधारोत्कचातकचुम्ब्यमानमौक्तिकलताप्रालम्बं अम्बुधारायै- जलधारायै, उत्कैः-उन्मनस्कैः, चातकैः -लोकविश्रुतैः पक्षिविशेषैः, चुम्ब्यमानं - चञ्चवा स्पृश्यमानं, मौक्तिकलताप्रालम्ब - मुक्तामणिश्रेणीरूपं शिरोमाल्यं यस्मिंस्तादृशम् [ओ ]; पुनः वैशम्पायनशापकथाप्रक्रममिव वैशम्पायनस्य - वैशम्पायननाम्नः शुकस्य यः शापस्तत्सम्बन्धिन्याः कथायाः प्रक्रमं प्रसङ्गमिव, दुर्वर्णशुकनासमनोरमं दुर्वर्ण-रजतं, तन्मयेन, शुकनासेन - सिंहस्थानेन, मनोरमं-मनोहरम्, पक्षे दुर्वर्णे- दुःखेन वर्णनीये, शुकनासमनोरमे - वैशम्पायन - जनकतद्भार्ये यत्र तादृशम् ; पुनः जीवमिव प्राणिनमित्र, चित्रकर्मखचितप्रदेशं चित्रकर्मभिः - चित्रणक्रियाभिः खचिताः - व्याप्ताः, प्रदेशाः - विभागा यस्य तादृशम्, पक्ष चित्रकर्मभिः- ज्ञानावरणीयादिकर्मभिः, खचिताः - व्याप्ताः, प्रदेशाः - आत्मप्रदेशा यस्य तादृशम् ; पुनः विदग्धकामिनीकेलिमन्दिरमिव विदग्धायाः - केलिकुशलायाः, कामिन्याः - विलासिन्याः, केलिमन्दिरं - क्रीडाभवनमिव, मणितारावभासितोदरं मणिताराभिः - मणिमयतारकाभिः, पक्षे मणितैः - नार्या रतिकालिकाव्यक्तशब्दात्मकैः, आरावैः शब्दैः, अवभासितं - उद्दीपितम्, उदरं - अभ्यन्तरं यस्य तादृशम् पुनः उत्तमपुरुषमिव पुरुषश्रेष्टमिव, विशालनेत्रहृत्कपाटं विशालं - विस्तृतं, नेत्रहृत्-नयनहारकं, नयनप्रियमित्यर्थः, कपाटं - द्वारपिधायकफलकं यस्य तादृशम्, पक्षे विशालं दीर्घं, नेत्रं - नयनं यस्य तादृशम् पुनः हृत्कपाटहृत् - वक्षःस्थलं, कपाटमिव यस्य तादृशं विशालनेत्रं च तत् हृत्कपाटं चेति खञ्जकुब्जादिवत् कर्मधारयसमासः; यद्वा विशालं नेत्रं हृत्कपाटं च-कपाटसदृशं वक्षःस्थलं च यस्येति बहुव्रीहिः; पुनः चक्रवर्तिसैन्यमिव चक्रवर्तिनः - अखण्डभूमण्डलेश्वरस्य, सैन्यं - सेनामिव, अनेकरत्नशारी कृतमत्तवारणपरिकरं अनेकैः, रत्नैः, शारीकृतानि - कर्बुरितानि चित्रितानि यानि, मत्तवारणानि-उपवेशनस्थानविशेषाः, तदात्मकः परिकरो यस्य तादृशम्, पक्षे अनेकैः - बहुविधैः, रत्नैः, शारीकृतः-चित्रीकृतः, मत्तवारणानां - मत्तहस्तिनां परिकरः- समूहो यस्मिंस्तादृशम्, यद्वा अनेकाभिः, रत्नशारीभिः - मणिमयगजपर्याणैः कृताः
,
"Aho Shrutgyanam"