________________
९४
टिप्पनक-परागविवृतिसंवलिता। पल्लवितरक्ताशोकमिव कुसुमितपलाशमिव विकसितबन्धूकमिव तं प्रदेशं कुर्वाणम् [ 0], उत्कृष्टाष्टापदघटितेन तडित्पाटलत्विषा मरकतकपिशीर्षकप्रभाजटालेन सतिमिरसन्ध्यारागवलयेनेव रविमण्डलममरगिरिरिव प्राकारेण न वप्राकारेण परिवृतम् , अन्तःप्राकारभित्ति समन्ततो निर्मितानामतिरम्याकृतीनां स्फाटिकानामपि संक्रान्ततरुपतिमाभिः श्यामायमानकान्तितया मरकतमयानामिव प्रासादानामासादितपरभागैः शिखरमण्डलाडम्बरधारिभिः प्रतिबिम्बैः परिक्षिप्तशिखरम् , अग्रशिखरसङ्गिनो मृगाङ्कमणिकलशस्य ज्योत्स्नापटलपाण्डुना द्युतिमण्डलेन महत्त्वचरितार्थतापादनार्थं धृतेन धवलातपत्रेणेव विस्तारितच्छायम् [ए] अच्छमणिकुट्टिमोच्छलत्प्रभापटलनिर्मग्नमूलतया प्लवमानमिव, सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धात्यच्छतयाऽन्तरिक्षस्थितमिव विभाव्यमानं, कृतावलोकनमिवेन्द्रनीलजालकैः, विहिताह्वानमिव पवनचलितोर्ध्वध्वजपताकाञ्चलैः, प्रस्तुतप्रत्युत्थानमिव तुङ्गस्तम्बैः, आरब्धसंभाषणमिव गवाक्षमुखनिलीन
.
टिप्पनकम-अमरगिरिरिव प्राकारेण न वप्राकारेण यदि मेरुवप्राकारेण परिवृतं कथं न तटाकारेण वेष्टितम् ?, अन्यत्र नूतनप्राकारेण परिवृतं, कीदृशेन ? मेरुतटाकारेण [ए]।
परिणतप्रकाशमिव, वर्षता पातयता; पुनस्तेन तं प्रदेश कमिव कुर्वाणम् ? पल्लवितरक्ताशोकमिव पल्लवितः-सञ्जातपल्लवः, रक्तः, अशोकः-तदाख्यवृक्षविशेषो यस्मिंस्तादृशम् ; पुनः कुसुमितपलाशमिव कुसुमिताः-पुष्पिताः, पलाशाः-तदाख्यरक्तपुष्पवृक्षविशेषा यस्मिंस्तादृशम् ; पुनः विकसितबन्धूकमिव विकसिताः-पुष्पिताः, बन्धूकाः-रक्तकापरपर्यायवृक्षविशेषा यस्मिंस्तादृशम् ल पुनः उत्कृष्टाष्टापदघटितेन उत्कृष्टैः-बलवत्तरैः, अष्टापदैः-सिंहव्याघ्रादिहिंस्रवन्यपशुभिः, घटितेनअधिष्ठितेन, यद्वा उत्कृष्ट-प्रधानं, यद् अष्टापदं-सुवर्ण तेन, घटितेन-रचितेन, पुनः तडित्पाटलत्विषा तडित्वत्-विद्युद्वत् , पाटला-रक्ता, त्विट्-कान्तिर्यस्य तादृशेन, पुनः मरकतकपिशीर्षकप्रभाजटालेन मरकतकपिशीर्षकस्य-नीलमणिमयमर्कटप्रतिकृतिरूपशिरस्त्राणस्य, प्रभाभिः-कान्तिभिः, जटालेन-उन्नतेन, अमरगिरिरिव प्राकारेण सुमेरुतटाकारेण, परिवृतं परिवेष्टितम् , अथापि, न नैव, वप्राकारेण तटाकारेण, परिवृतमिति विरोधः, तत्परिहारे नवेन-नूतनेन, प्राकारेण परिवृतमिति, केन कमिव ? सतिमिरसन्ध्यारागवलयेन सतिमिरेण-अन्धकारसहितेन, सन्ध्यारागवलयेन-सन्ध्याकालिकरक्तप्रभामण्डलेन, रविमण्डलमिव सूर्यबिम्बमिव; पुनः अन्तःप्राकारभित्ति प्राकारभित्तिमध्ये,समन्ततः सर्वतः,निर्मितानां रचितानाम् , अतिरम्याकृतीनां अत्यन्तमनोहराकाराणाम् , स्फाटिकानामपि स्फटिकाख्यमणिमयानामपि, संक्रान्ततरुपतिमाभिः श्यामायमानकान्तितया संक्रान्ताभिः-संलग्नाभिः, अन्तःप्रवृष्टाभिरिति यावत् , तरुप्रतिमाभिः-वृक्षप्रतिबिम्बैः, श्यामायमाना-श्यामीभवन्ती, कान्तिर्येषां तादृशतया, मरकतमयानामिव नीलमणिमयानामिव, प्रासादानां मन्दिराणाम् , आसादितपरभागैः प्राप्तोत्कर्षः, पुनः शिखरमण्डलाडम्बरधारिभिः शिखरमण्डलस्य-शिखरसमूहस्य, य आडम्बरः-शोभाविस्तारः, तद्धारिभिः-तवाहिभिः, प्रतिबिम्बैः परिक्षिप्तशिखरं परिवेष्टितशिखरम्; पुनः अग्रशिखरसङ्गिनः चरमशिखरवर्तिनः, मृगाङ्कमणिकलशस्य चन्द्रकान्तमणिमयकलशस्य, ज्योत्स्नापटलपाण्डना ज्योत्स्नापटलेन-चन्द्रिकानिचयेन, पाण्डुना-पीतमिश्रितशुक्लवर्णन, द्युतिमण्डलेन कान्तिकलापेन, महत्त्वचरितार्थताऽऽपादनार्थ महत्त्वसार्थकतासम्पादनार्थ, धृतेन उत्थापितेन, धवलातपत्रेणेव श्वेतातपत्रेणेव, विस्तारितच्छायं विस्तारिता-प्रसारिता, छाया-अनातपो येन तादृशम् [ए] पुनः अच्छमणिकुट्टिमोच्छलत्प्रभापटलनिर्मग्नमूलतया अच्छमणिकुट्टिमात्-उज्वलमणिबद्धप्रदेशात् , उच्छलति-उद्गच्छति, प्रभापटले-द्युतिमण्डले, तद्रूपजलधावित्यर्थः, निर्मग्नं-निश्चयेन मनम्-अन्तर्भूतं मूलं यस्य तादृशतया, पवमानमिव पद्भयां सन्तरदिव, विभाव्यमानमित्यप्रेणान्वेति; पुनः सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धात्यच्छतया सुघटिताः-सन्निवेशिताः, स्फटिकोपला:-स्फटिकात्मकप्रस्तरा यस्मिंस्तादृशे, पट्टे-फलके, कल्पितस्य-रचितस्य, अनल्पपीठबन्धस्य-विस्तृताधारबन्धस्य, अत्यच्छतया-अत्युज्ज्वलतया, अन्तरिक्षस्थितमिव गगनतलस्थितमिव, विभाव्यमानं प्रतीयमानम् ; पुनः इन्द्रनीलजालकैः इन्द्रनीलाख्यमणिमयगवाक्षः, कृतावलोकनमिव कृतम्, अवलोकनं-स्वस्य दर्शनं येन तादृशमिव, नेत्राकाररन्धेदृष्टव दिवेत्यर्थः; पुनः पवनचलितोर्वध्वजपताकाञ्चलैः
"Aho Shrutgyanam"