________________
तिलकमञ्जरी
पिण्डीभूय स्थितम् , अदभ्राभ्रभ्रमिखेदेन सौदामिनीसंदोहमिव लब्धनिद्रम् , उदधिजलात्यशनदुःखासिकया वडवामुखमिवागत्य विश्रान्तम् , उद्दण्डवात्यावर्तवशेन भोगवतीशातकुम्भाम्भोजवनरजोराशिमिवाकाशमुत्पतितम् , अमृतमथनकदर्थितमन्दरक्रोधेन निर्भय॑ वैरोचनिममरशैलमिव पातालमूलान्निर्गतम् [ल ], अशेषतश्च विसर्पता कुसुम्भरसरागलोहितेनातिबहलतया किसलयीकृतप्रान्तवनस्पतिपलाशराशिना प्रवालयष्टीकृतार्ककिरणेन सान्ध्यसमयीकृतवासरेणालक्तकतूलपटलीकृतशिखरासन्नघनमण्डलेन भक्तिभरसुरसुन्दरीसुखावतरणाय सिन्दूरकुट्टिमानीव रचयता ग्रीष्मवशविजृम्भितरजोरोधाय कुङ्कुमजलासारमिव क्षिपता गगनकुट्टिमालङ्करणाय जपाकुसुमनिकरानिव प्रकिरता दाहावलोकनसकौतुकोपवनप्रीतये मिथ्यादवाग्निमिव प्रथयता तरुतलान्धकारतिरस्काराय तरुणातपमिव वर्षता प्रभाजालेन दिवापि ज्वलितौषधिकलापमिव
टिप्पनकम् –भोगवती-पातालगङ्गा, वैरोचनि बलिम् [ल] ।
स्फुटविभाव्यमानावयवशोभम् अपरिस्फुटम्-अविस्पष्टं यथा स्यात् तथा, विभाव्यमाना-लक्ष्यमाणा, अवयवानांप्रदेशानां, शोभा यस्य तादृशम् । पुनः उद्यानजाड्यपीडया उद्यानस्य निरुक्तोपवनस्य, जाडयेन-शैत्येन, या पीडा-दुःखं तेन, पिण्डीभूय संकुच्य, स्थितं, दवाग्निशिखाखण्डमिव दवाग्नेः-वनाग्नेः, शिखाखण्डं-ज्वालाजालमिवः पुनः अदभ्राभ्रभ्रमिखेदेन अदभ्रया-बहुलया, अभ्रभ्रम्या-आकाशभ्रमेण, यः खेदः-श्रमः, तेन, लब्धनिद्रं गृहीतनिद्र, सौदामिनीसन्दोहमिव विद्युद्वन्दमिव; पुनः उदधिजलात्यशनदुःखासिकया समुद्रजलाधिकपानजन्यदुःखावेगेन, आगत्य समुद्राद् बहिर्भूय, विश्रान्तं उपनीतश्रम, वडवामुखमिव वडवायाः-समुद्रान्तरगतायाः अश्वायाः, मुखमुखमण्डलमिव; पुनः उद्दण्डवात्यावर्तवशेन उद्दण्डवात्यया-उद्धतवायुसमूहेन, य आवर्तः-जलभ्रमणं, तद्वशेन, आकाशं आकाशे, उत्पतितं उच्छलितं, भोगवतीशातकुम्भाम्भोजवनरजोराशिमिव भोगवत्याः-पातलगङ्गायाः, यत् शातकुम्भाम्भोजवनं-कनककमलकाननं, तस्य रजोराशिमिव-परागपुञ्जमिव; पुनः अमृतमथनकदर्थितमन्दरक्रोधेन अमृतमथनेन-अमृतालोडनेन, कदर्थितस्य-अवहेलितस्य, मन्दरस्य-तदाख्यपर्वतस्य, क्रोधेन, वैरोचनि बलिं, निर्भय॑ अवज्ञाय, पातालमूलात् पातालतलात् , निर्गतं निष्क्रान्तम् , अमरशैलमिव सुमेरुपर्वतमिव [ल]; च पुनः, प्रभाजालेन दीप्तिसन्दोहेन, दिवाऽपि दिनेऽपि, चन्द्रमन्तरेणापीत्यर्थः,ज्वलितौषधिकलापमिव ज्वलितः-दीप्तः, ओषधिकलापः ओषधिराशियस्मिंस्तादृशमिव, तं स्वाधिष्ठितं, प्रदेशं कुर्वाणमित्यप्रेणान्वेति, कीदृशेन ? अशेषतः सर्वतः, विसर्पता प्रसरता, पुनः कुसुम्भरसरागलोहितेन कुसुम्भस्य-वह्निशिखापरपर्यायरक्तोषधिविशेषस्य, यो रसस्तस्य, रागेण-रक्तकान्त्या, लो रक्तेन, पुनः अतिबहलतया अत्यधिकतया, किसलयीकृतप्रान्तवनस्पति पलाशराशिना किसलयीकृतः-पल्लवीकृतः, रक्कीकृत इत्यर्थः, प्रान्तवनस्पतीना-सन्निहितवृक्षाणां, पलाशराशि:-पत्रपुञ्जो येन तादृशेन, पुनः प्रवालयष्टीकृतार्ककिरणेन प्रवालयष्टीकृतः- रक्तकान्तिसन्तत्या विद्रुमदण्डतामापादितः, अर्कस्य-सूर्यस्य, किरणः-रश्मिर्येन तादृशेन, पुनः, सान्ध्यसमयीकृतवासरेण सान्ध्यसमयीकृतः-सन्ध्यासम्बन्धिसमयतामापादितः, रक्तीकृत इति यावत् , वासरः दिनं येन तादृशेन, पुनः अलक्तकतूलपटलीकृतशिखरासन्नघनमण्डलेन अलक्तकतूलपटलीकृतं-लाक्षारसालक्ततूलराशीकृतं, शिखरासन्नशिखरसन्निहितं, धनमण्डलं-मेघमण्डलं येन तादृशेन, पुनः भक्तिभरसुरसुन्दरीसुखावतरणाय भक्तिभराणां-भक्तिपूर्णानां, सुरसुन्दरीणां-देवसुन्दरस्त्रीणां, सुखावतरणाय-सुखपूर्वकमधस्तादागमनाय, सिन्दूरकुट्टिमानीव सिन्दूरबद्धभूमीरिव, रचयता सम्पादयता, पुनः ग्रीष्मवशविजृम्भितरजोरोधाय ग्रीष्मवशेन-ग्रीष्महेतुना, विजृम्भितानां-विकीर्णानां, रजसां-धूलीनां, रोधाय-नियन्त्रणाय, कुङ्कमजलासारमिव कुङ्कुमजलधारामिव, क्षिपता वर्षता, पुनः गगनकुट्टिमालङ्करणाय गगनकुट्टिमस्य-आकाशमण्डलात्मकबद्धभूमेः, अलङ्करणाय-रक्तशोभोत्पादनाय, जपाकुसुमनिकरानिव जपाकुसुमाख्यरक्तपुष्पराशीनिव, प्रकिरता प्रक्षिपता, पुनः दाहावलोकनसकौतुकोपवनप्रीतये दाहावलोकने-दाहदर्शने, सकौतुकस्य-सतृष्णस्य, उपवनस्यनिरुक्तोद्यानस्य, प्रीतये-प्रसादाय, मिथ्यादवाग्निमिव मिथ्याभूतं वनाग्निमिव, प्रथयता प्रकटयता, पुनः तरुतलान्धकारतिरस्काराय तरुतले-वृक्षाधःस्थले, येऽन्धकारास्तेषां तिरस्काराय-अन्तर्धानाय, अपनयनायेत्यर्थः, तरुणातपमिव
"Aho Shrutgyanam"