________________
टिप्पनक- परागविवृतिसंवलिता ।
तयाऽत्यद्भुताकारमुद्रश्मिमरकतच्छदच्छायान्धकारितदिगन्तरमनिलतरललता तरङ्गितैरनेकवर्णचारुभिर्दिव्यांशुककलापैः पल्लवितमुल्लसत्करालकिरणस्तम्बैः शाखावलम्बिभिराभरणनिकुरम्बैः स्तबकितममरकामिनीसंवाहनविलासमसृणिताभिरायामिनीभिर्मणिलतादोलाभिर्दन्तुरितमन्तरान्तरा च तारकिततलभूभागैराली ढफलमधुवारविद्याधरद्वन्द्वोज्झितै रक्तपङ्कजप्रकरानुकारिभिः पद्मरागचषकचक्रवालैरलंकृतमितस्ततश्च चित्रीकृताच्छिद्रच्छायैरध्वखिन्नसिद्धाध्वन्यशयनीकृतैः शाखान्तरालनिपतितातपच्छेदचारुभिश्चामीकरवल्कलैर्विभूषितमशेषतश्च जटालीकृतविटपत्रातैः शिखरसञ्चरद्वनदेवता केशपाशभ्रंशिभिः प्रालम्बायमानैर्दिव्यकुसुमदामभिरामोदितममन्दसान्ध्यरागभिन्नाभिनवघनसंघातकल्पमनल्पं कल्पतरुखण्डमपश्यत् [ ऋ ] ।
तस्य च मध्यभागे झगिति दीपिताशेषदिग्भागम्, आभोगरुद्धवसुन्धरोत्सङ्गम्, उत्तुङ्गशृङ्गोत्तम्भिताम्बरम्, अतिभास्वरत्वाद परिस्फुटविभाव्यमानावयवशोभम्, उद्यानजाड्यपीडया दवाग्निशिखाखण्डमिव
९२
क्षणः-विशिष्टः, अकारः- अवयवसन्निवेशो यस्य तादृशतया, अत्यद्भुताकारं अत्याश्चर्यजनकाकृतिम् ; पुनः उदश्मिमरकतच्छदच्छायान्धकारितदिगन्तरं उत् - ऊर्ध्वम् उत्कृष्टो वा, रश्मिः - कान्तिर्यस्य तादृशो यो मरकतः - नीलमणिः, तत्सदृशानां, यद्वा तद्रूपाणां, छदानां - पत्राणां, छायाभिः, अन्धकारितम् - अन्धीकृतं दिगन्तरं - दिमध्यं येन तादृशम्; पुनः अनिलतरललतातरङ्गितैः अनिलेन - वायुना, तरलाभिः - चञ्चलाभिः, लताभिः, तरङ्गितैः सञ्जाततरङ्गैः, अनेकवर्णचारुभिः नानावर्णमनोहरैः, दिव्यांशुककलापैः मनोहरश्लक्ष्णसूक्ष्मवस्त्रकगणैः, पल्लवितं सञ्जातनूतनदलम्; पुनः उल्लसत्कराल किरणस्तम्बैः उल्लसन् - उद्गच्छन्, कराल किरणस्तम्बः - उन्नतकिरणात्मककाण्डो येषां तादृशैः, आभरणनिकुरम्बैः अलङ्करणगणैः, स्तबकितं सञ्जातगुच्छम् ; पुनः अमर कामिनीसंवाहनविलासमसृणिताभिः अमरकामिनीभिः - देवाङ्गनाभिः यत् संवाहनं - सम्मर्द्दनं, तद्विलासेन - तत्क्रीडया, मसृणिताभिः - चिक्कणीकृताभिः, पुनः आयामिनीभिः विस्तारिणीभिः, मणिलतादोलाभिः मणिमयलतारूपाभिर्दोलाभिः, दन्तुरितं समेधितम् ; च पुनः, अन्तरा अन्तरा मध्ये मध्ये, तारकिततलभूभागैः तारकितं - सञ्जततारकं, तलं स्वरूपं, पृष्ठमिति यावत्, यस्य तादृशो भूभागः - भूमिप्रदेशो यैस्तादृशैः, पुनः आलीढफलमधुवार विद्याधरद्वन्द्वोज्झितैः आलीढः - आखादितः, फलानां मधूनां मद्यानां पुष्परसानां वा, वार:समूहो यैस्तादृशैः, विद्याधरद्वन्द्वैः - विद्याधराख्यदम्पतिभिः, उज्झितैः - त्यक्तैः पुनः रक्तपङ्कजप्रकरानुकारिभिः रक्तकमलगणानुकारिभिः, पद्मरागचषकचक्रवालैः रक्तमणिमयपानपात्रमण्डलैः, अलङ्कृतम् ; च पुनः, इतस्ततः अत्र तत्र, चित्रीकृताच्छिद्रच्छायैः चित्रीकृता - नानावर्णीकृता, अच्छिद्रा - निरन्तरा, छाया - अनातपो यैस्तादृशैः, पुनः अध्वखिन्नसिद्धाध्वन्यशयनीकृतैः अध्वखिन्नैः - मार्गगमनश्रान्तैः सिद्धैः - सिद्धपुरुषैः, अभ्वन्यैः - मार्गगामिभिः, शयनीकृतैः - स्वशय्यात्वमापादितैः, पुनः शाखान्तरालनिपतितातपच्छेदचारुभिः शाखान्तरालनिपतितैः- शाखाभ्यन्तरादवतीर्णैः, आतपच्छेदैःतेजःखण्डैः, चारुभिः-मनोहरैः, चामीकरवल्कलैः सुवर्णमयत्वग्भिः, विभूषितम् अलङ्कृतम् ; च पुनः, अशेषतः सर्वतः दिव्यकुसुमदामभिः दिव्यानां - स्वर्गीयाणां मनोहराणां वा, कुसुमानां, दामभिः - मालाभिः, आमोदितं सुरभीकृतम्, कीदृशैः ? जटालीकृतविटपत्रातैः टीकृतं - गौरवास्पदीकृतं व्याप्तमिति यावत्, विटपत्रातं - शाखासमूहो यैस्तादृशैः, पुनः शिखरसञ्चरद्वनदेवताकेशपाशभ्रंशिभिः शिखरे - ऊर्ध्वभागे, सञ्चरन्तीनां - विहरन्तीनां वनदेवतानां - वनाधिष्ठातृदेवतानां केशपाशभ्रंशिभिः - केशकलापाधः पातिभिः, प्रालम्बायमानैः शिरोमालायमानैः पुनः अमन्दसान्ध्यरागभिन्नाभिनवघनसङ्घातकल्पं अमन्देन - उत्कटेन, सान्ध्यरागेण - सन्ध्यासम्बन्धिरक्तकान्त्या, भिन्नः - मिश्रितः, यो घनसंघातःमेघमण्डलं, तत्कल्पं - तत्प्रायं तत्सदृशमिति यावत्; पुनः अनल्पं विस्तृतम् [ ऋ ] ।
च पुनः, तस्य कल्पवृक्षवनस्य, मध्यभागे मध्यप्रदेशे, झगिति शीघ्रम्, सुदर्शनं नाम सुदर्शननामकम्, आयतनं मन्दिरं ददर्श दृष्टवान् इत्यग्रेणान्वेति कीदृशम् ? दीपिताशेषदिग्भागं दीपिताः - प्रकाशिताः, अशेषाः समस्ताः, दिग्भागाः-दिक्प्रदेशा येन तादृशम्; पुनः आभोगरुद्धवसुन्धरोत्सङ्गम् आभोगेन - विस्तारेण, अवरुद्धः-आक्रान्तः, वसुन्धरायाः-पृथिव्याः, उत्सङ्गः - मध्यभागो येन तादृशम् ; पुनः उत्तुङ्गशृङ्गोत्तम्भिताम्बरम् उत्तुङ्गेन- उन्नतेन, शृङ्गेणशिखरेण, उत्तम्भितम्-उद्धृतम्, अम्बरम् - आकाशं येन तादृशम् ; पुनः अतिभास्वरत्वात् अत्यन्तोज्ज्वलत्वात्, अपरि
"Aho Shrutgyanam"