________________
तिलकमञ्जरी द्युतिमालम्बते, मृगाङ्कबिम्बचुम्बी कलङ्कोऽप्यलङ्कारकरणिं धत्ते, कुरङ्गलोचनालोचनलब्धपदमञ्जनमपि मण्डनायते [उ ], इत्यादिसंकल्पजालसंकुलेन रसाकुलीभूतसकलेन्द्रियवृत्तिना तत्कालमन्यतामिवापन्नेनान्तरात्मना मदनमयमिव शृङ्गारमयमिव प्रीतिमयमिवानन्दमयमिव विलासमयमिव रम्यतामयमिवोत्सवमयमिव सकलजीवमाकलयन् , अनिलोद्भूतैः समन्ततः प्रचलितैरतिप्रबलतयाऽकालनीहारवृष्टिमिव दर्शयद्भिः कुसुमधूलिपटलैर्धवलीकृतविग्रहो वसन्त इव विग्रहवान् , इतस्ततः षट्चरणमालास्पर्धयेव धावन्त्या कुसुमनिर्भरद्रुमावकृष्टया दृष्टया कदीमानः [ऊ] । प्रतिलतादोलमुत्पद्यमानान्दोलनस्पृहः, प्रतिदीर्घिकमाविर्भवज्जलक्रीडाभिलाषः, प्रतितरुच्छायमुपजायमानविश्रामेच्छः, प्रतिपत्रमण्डपमुल्लसदिवसातिवाहनवाञ्छः, स्वच्छन्दनिपतितानेकतरुकुसुमप्रकरमेदुरितमेदिनीपृष्ठचारुणा चरणपातमझुशिञ्जानसुकुमारसिकतेन तस्योद्यानस्य मध्यभागेन कतिपयशरक्षेपमात्रमध्वानमतिक्रान्तः [ऋ] । कदाचिददृष्टपूर्वमितरतरुविलक्षणाकार
टिप्पनकम्-असतोऽपि असाधोरपि । करणिः-सादृश्यम् [उ] ।
मेवाचरति जाउयाति
हि यतः, प्रथितगुणस्थानस्थितस्य प्रथितः-प्रख्यातो गुणो यस्य तादृशे, स्थाने स्थितस्य, असतोऽपि महत्त्वशून्यस्यापि, माहात्म्यं महिमा, आविर्भवति प्रकाशते, तथाहि-पद्मिनीदलोत्सङ्गसङ्गी कमलिनीपत्रमध्यवर्ती, जलबिन्दुरपि जलकणोऽपि, मुक्ताफलद्युति मुक्तामणिच्छविम् , आलम्बते प्राप्नोति; पुनः मृगाङ्कबिम्बचुम्बी चन्द्रमण्डलसंसर्गी, कलङ्कोऽपि लाञ्छनमपि, अलङ्कारकराणं अलङ्कारक्रियां, धत्ते पुष्णाति; पुनः कुरङ्गलोचनालोचनलब्धपदं कुरङ्गलोचनानां-मृगाक्षीणां, लोचनयोः-नयनयोः, लब्ध-प्राप्त, पद-स्थानं येन तादृशम् , अञ्जनमपि, मण्डनायते अलङ्करण
इत्यादिसंकल्पजालसंकुलेन इत्यादिना, संकल्पजालेन-आलोचनाचयेन, संकुलेन-व्याप्तेन, रसाकुलीभूतसकलेन्द्रियवृत्तिना रसाकुलीभूताः-अद्भुतरसाप्लाविताः, सकलाः-समस्ताः, इन्द्रियवृत्तयः-इन्द्रियव्यापारा यस्य तादृशेन, तत्कालं तत्क्षणम् , अन्यतामिव अन्यथात्वमिव, आपन्नेन प्राप्तेन, अन्तरात्मना अन्तःकरणेन, सकलजीवं सर्वप्राणिनं मदनमयमिव कामदेवप्रायमिव, पुनः विलासमयमिव शृङ्गारचेष्टाप्रधानमिव, पुनः रम्यतामयमिव सौन्दर्यमयमिव, पुनः उत्सवमयमिव उत्सवाकुलमिव, आकलयन् अवगच्छन् ; अनिलोद्भूतः पवनविक्षिप्तैः, पुनः समन्ततः सर्वतः, प्रचलितैः प्रसृतैः, पुनः अतिप्रबलतया अत्यन्तप्रचुरतया, अकालनीहारवृष्टिमिव असमयहिमवर्षणमिव, दर्शयद्भिः प्रत्याययद्भिः, कुसुमधूलिपटलैः परागपुजैः, धवलीकृतविग्रहः शुक्लीकृतकलेवरः, अत एव विग्रहवान् मूर्तिमान् , वसन्त इव तदाख्यऋतुराज इवेत्युत्प्रेक्षा; षट्चरणमालास्पर्धयेव भ्रमरपकिस्पर्धयेव, धावन्त्या सत्वरं सर्पन्त्या, कुसुमनिर्भरदुमावकृष्टया कुसुमनिर्भरैः-पुष्पपूर्णैः, द्रुमैः-वृक्षैः, अवकृष्टया-आकृष्टया, दृष्टया लोचनेन, कदर्थ्यमानः व्याकुलीक्रियमाणः[ऊ: पुनः प्रतिलतादोलं प्रत्येकलतारूपदोलासु, उत्पद्यमानान्दोलनस्पृहः उत्पद्यमाना-जायमाना, आन्दोलनस्पृहा-उत्कूर्दनाभिलाषो यस्य तादृशः; पुनः प्रतिदीर्घिकं प्रतिवापिकम् , आविर्भवजलक्रीडाभिलाषः आविर्भवन्प्रादुर्भवन् , जलक्रीडाभिलाषः-जलकेलिस्पृहा यस्य तादृशः; पुनः प्रतितरुच्छायं प्रत्येकवृक्षच्छायासु, उपजायमानविश्रामेच्छः उपजायमाना-उत्पद्यमाना, विश्रामेच्छा-श्रमापनोदनाकाङ्क्षा यस्य तादृशः; पुनः प्रतिपत्रमण्डपं प्रत्येकपत्रमयगृहे, उल्लसद्दिवसातिवाहनवाञ्छः उल्लसन्ती-उद्भवन्ती, दिवसातिवाहनस्य-दिनातिक्रमणस्य, वाञ्छा-अभिलाषो यस्य तादृशः; पुनः स्वच्छन्दनिपतितानेकतरुकुसुमप्रकरमेदुरितमेदिनीपृष्ठचारुणा स्वच्छन्दपतितानां-स्वच्छन्द-स्वतन्त्र, निष्प्रयासमित्यर्थः, यथा स्यात् तथा, पतितानां-गलितानां, अनेकतरुकुसुमानाम्-अनेकवृक्षपुष्पाणां, प्रकरण-समूहेन, मेदुरितं-व्याप्तं, यद् मेदिनीपृष्ठं-भूपृष्ठं, तेन चारुणा-मनोहरेण, पुनः चरणपातमाशिानसुकुमारसिकतेन चरणपातेन-पादारोपणेन, मञ्ज-मनोहरं यथा स्यात् तथा, शिक्षाना-ध्वनन्ती, सुकुमारा-स्निग्धा, सिकता-बालुका यस्मिंस्तादृशेन, तस्य प्रकृतस्य, उद्यानस्य उपवनस्य, मध्यभागेन अन्तःप्रदेशेन, कतिपयशरक्षेपमात्रं कतिपयबाणप्रक्षेपपरिमाणम्, अध्वानं मार्गम् , अतिक्रान्तः कृतलङ्घनः सन् , कल्पतरुखण्डं कल्पवृक्षवनम् , अपश्यत् दृष्टवानित्यग्रेणान्वेति [क]। कीदृशम् ? कदाचित् कदापि, अदृष्टपूर्व पूर्वमनवलोकितम् ; पुनः इतरतरुविलक्षणाकारतया इतरतरुभ्यः-अन्यवृक्षेभ्यः, विल
"Aho Shrutgyanam"