________________
टिप्पनक-परागविवृतिसंवलिता । “मन्ये दक्षिणमारुतेन विदितं सेव्यत्वमस्येदृशं,
तेनोत्सृज्य वनानि चन्दनगिरेरुद्दामशैत्यान्यपि । याम्याशाविरहोल्लसहवथुना नाथेन धाम्नां समं,
संजाते शिशिरात्यये धनपतेराशामुखं सर्पति ॥ [इ] व्यक्तं जगत्यदृष्टवशाद् विशालगुणसंपद्भिरप्यसुलभाः स्वल्पगुणैरपि सुप्रापाः प्रसिद्धयो भवन्ति, येनात्र निरन्तरकदलीकलापान्तरितदिङ्मुखे मदमुखरासंख्यशिखिकुलोद्भासिन्यनन्तलतान्तकोटिसंकटैकैकवृक्षविटपे सत्यपि कानने तदेकरम्भाक्रान्तमन्तभ्रान्तसप्तमात्रचित्रशिखण्डि' कतिपयाभिरेव सुमनसां कोटिभिराकीर्णममरोद्यानमावर्ण्यते [ई] । किमिदमसमीक्षितकारिणो जनस्य जाड्यविलसितम् , उत निरङ्कुशगिरां कवीनामलीका भिनिवेशः, आहोस्वित् तस्यैव दूरदेशावस्थानसामर्थ्य, सर्वथा स्वर्णभूमिसंसर्गस्यैवायं प्रभावः; प्रथितगुणस्थान स्थितस्यासतोऽपि हि माहात्म्यमाविर्भवति, पद्मिनीदलोत्सङ्गसङ्गी जलबिन्दुरपि मुक्ताफल
टिप्पनकम्-लतान्तः-पुष्पम् , एकरम्भाक्रान्तं रम्भा-अप्सराः, अन्यत्र कदल्यः, अन्तभ्रान्तसप्तमात्रचित्रशिखण्डि एकत्र चित्रशिखण्डिनः-सप्तर्षयः, अन्यत्र नानामयूराः, सुमनसां कोटिभिराकीर्णम् एकत्र सुमनसांदेवानाम् , अन्यत्र पुष्पाणाम् [ई] ।
उत्प्रेक्षे, यत् , दक्षिणमारुतेन मलयपवनेन, अस्य प्रत्यक्षभूतारामस्य, ईदृशम् एवंविधम् , अनुभूयमानमित्यर्थः, सेव्यत्वं सेवा, विदितं ज्ञातम् , तेन अनुभूयमानसेव्यत्वेन, चन्दनगिरेः मलयपर्वतस्य, उद्दामशैत्यान्यपि उद्दाम-उत्कृष्टं, शैत्यं येषु तादृशान्यपि, वनानि चन्दनकाननानि, उत्सृज्य विहाय, याम्याशाविरहोल्लसद्दवथुना याम्याशायाः-यमखामिकदिशः, दक्षिणस्या दिश इत्यर्थः, विरहेण-विश्लेषेण, उल्लसन्-उद्भवन् , दवथुः- उपतापो यस्य तादृशेन, धाम्नां रश्मिनां, नाथेन स्वामिना, सूर्येणेत्यर्थः, समं सह, शिशिरात्यये शिशिरऋतुसमाप्ती, सआते निष्पन्ने सति, धनपतेः कुबेरस्य, आशामखं दिगन्तं, सर्पति गच्छति, दक्षिणमारुत इति शेषः [इ]।
व्यक्तं सर्वप्रसिद्ध, यत् जगति लोके, विशालगुणसम्पद्भिरपि विशाला-विपुला, गुणसम्पत्-गुणसम्पत्तिर्येषां तादृशैरपि, जनैः, असुलभाः असुप्रापाः, प्रसिद्धयः प्रख्यातयः, अदृष्टवशात् पुण्यवशात् , स्वल्पगुणैरपि अत्यल्पगुणैरपि, जनैः, सुप्रापाः सुलभाः, भवन्ति सम्पद्यन्ते। येन यस्माद्धेतोः, निरन्तरकदलीकलापान्तरितदिङ्मुखे निरन्तरैः-अविच्छिन्नैः, कदलीकलापैः-कदलीपतिभिः, अन्तरितं-तिरोहितं, दिङ्मुखं-दिगन्तो येन तादृशे, पुनः मदमुखरासंख्यशिखिकुलोद्भासिनि मदमुखराणां-मदवाचालानाम्, असंख्यानां-संख्याशून्यानां, शिखिना-मयूराणां, कुलेनसमूहेन, उद्भासिनि-विराजिनि, पुनः अनन्तलतान्तकोटिसंकटकैकवृक्षविटपे अनन्ताभिः-असंख्येयामिः, लतान्तकोटिभिः-लतान्तानां-पुष्पाणां, कोटिभिः-कोटिसंख्यकैः, यद्वा लताप्रान्तभागः, संकट:-संकीर्णः, एकैकस्य एकैको वा वृक्षस्य विटपः-शाखा यस्मिंस्तादृशे, अत्र अस्मिन् , कानने बने, सत्यपि विद्यमानेऽपि, एकरम्भाक्रान्तं एकया-अद्वितीयया, रम्भया-कदल्या, पक्षे स्वर्वेश्यया, आकान्तम्-अधिष्ठितम्, पुनः अन्तर्धान्तसप्तमात्रचित्रशिखण्डि अन्तः-मध्ये, भ्रान्ताः-विचरिताः, सप्तमात्रा:-सप्तसंख्यका एव, चित्रशिखण्डिनः-नानामयूराः, पक्षे चित्रः, शिखण्ड:-चूडाविशेषो येषां तादृशा मरीच्यादयः सप्तर्षयो यस्मिंस्तादृशम् , पुनः कतिपयाभिरेव परिमिताभिरेव, सुमनसां पुष्पाणां, पक्षे देवानां, कोटिभिः कोटिसंख्याभिः, आकीर्ण व्याप्तं, तत् प्रसिद्धम् , अमरोद्यानम् अमराणां-देवानाम् , उद्यानम्-उपवनम् , आ-समन्तात् , वर्ण्यते प्रशस्यते [ई ] । असमीक्षितकारिणः अनालोच्य क्रियाशीलस्य, इदम् अवर्णनीयवर्णनं, जाड्य विलसितम् अविवेकविलासः, किम् ?; उत अथवा, ङ्कशगिरां निरङ्कुशाः-अनियन्त्रिताः, गिरः-वाचो येषां तादृशानां, कवीनाम्, अलीकाभिनिवेशः मिथ्याऽऽग्रहः; अ स्वित किं वा, तस्यैव अमरोद्यानस्यैव, दरदेशावस्थानसामर्थ्य दूरस्थानावस्थितिमाहात्म्यम् ; सर्वथा सर्वप्रकारेण, स्वर्णभूमिसंसर्गस्यैव सुवर्णमयभूम्यधिष्ठानस्यैव, अयं वर्ण्यमानः,प्रभावः महिमा,
"Aho Shrutgyanam"