________________
तिलकमञ्जरी
८९
समृद्धिभिरन्योन्यबद्धस्पर्धेरिवाध्युष्यमाणम्, एकमन्दिरमिव सकलवनदेवतानां, नन्दनमिव नन्दनस्य, तिलकमिव त्रिलोक्याः, रतिगृहमिव रते:, आयुधागारमिव कुसुमायुधस्य, राजधानीनगरमिव मधोः समन्ततोऽर्धगव्यूतिमात्र परिणाहमशेषतः क्रकचक्षतकरिदन्तक्षोदपाण्डुरतरेण क्षोदीयसा मौक्तिकचूर्णवालुकाप्रकरेण समसुकुमारभूतलमतिबहुलस्निग्धपादपाभिराममाराममद्राक्षीत् [ ज्ञ ] ।
तस्य चारामस्य रमणीयतानिधानं, नानाविधाभिधानत रुसहस्र संबाधमप्यन्धकारनिर्भरतया तमालमयमिवोपलक्ष्यमाणम्, अतिशीतलतया च कन्दरमित्र हिमाद्रेः, उदरमिव क्षीरोदस्य, हृदयमिव हेमन्तस्य, शरीरान्तरमिव शिशिरानिलस्य, तुषार गिरिजन्मभूमिभूतमभ्यन्तरमवततार [ अ ] ।
अवतीर्णश्च तस्मिंस्तापमतापमातपमनातपं तपनमतपनं दिवसमदिवसं ग्रीष्ममग्रीष्मं कालमकालं तुषारपातमतुषारपातं त्रिभुवनमत्रिभुवनं सर्गक्रमममंस्त [ आ ] | समचिन्तयच्च —
टिप्पनकम्-अध्युप्यमाणम् - आश्रीयमाणम् । क्रकचं - करपत्रम्, क्षोदीयसा अतिसूक्ष्मेण [ज्ञ ] ॥
व्यवहितः, रविकरप्रवेशः–सूर्यकिरणप्रवेशो यैस्तादृशैः, विटपैरपि शाखाभिरपि, ईर्ष्याप्रसारितकरसहस्रैरिव ईर्ष्यया-परस्परस्पर्धया, प्रसारितं विस्तारितं, करसहस्रं - हस्तसहस्रं यैस्तादृशैरिव, त्रियमाणं स्वीक्रियमाणम् : पुनः दर्शितनिजनिज द्रुमकुसुमसमृद्धिभिः दर्शिता - आविष्कृता, निजनिजद्रुमाणां - वस्वोचितवृक्षाणां, कुसुमसमृद्धिः - पुष्पसम्पत्तिर्यैस्तादृशैः, ऋतुभिरपि ऋतुषट्केनापि, अन्योन्यबद्ध स्पर्धेरिव परस्परकृतेष्यैरिव, अध्युष्यमाणम् अधिष्ठीयमानम्; पुनः सकलवनदेवतानाम् अशेषवनाधिष्ठातृदेवानाम्, एकमन्दिरमिव प्रधानभवनमिव; पुनः नन्दनस्य इन्द्रोपवनस्यापि नन्दनमिव अभिनन्दकमिव, ततोऽप्युत्कृष्टमित्यर्थः ; पुनः रतेः कामदेवपत्न्याः, रतिगृहमिव रमणमन्दिरमिवः पुनः कुसुमायुधस्य पुष्पवाणस्य, कामदेवस्येति यावत्, आयुधागार मित्र बाणगृहमिव; पुनः मधोः वसन्तस्य, राजधानीनगरमिव राजधानीरूपं नगरमिव; पुनः समन्ततः चतुर्दिक्षु, अर्धगव्यूतिमात्रपरिणाहं गव्यूतिर्नाम क्रोशयुगं तदर्धः - कोशः, तत्परिमाणः, परिणाहः-विस्तारो यस्य तादृशम् ; पुनः क्रकचक्षतकरिदन्तक्षोदपाण्डुरतरेण क्रकचेन करण्त्रेण, क्षतस्य - विदीर्णस्य, करिदन्तस्य - हस्तिदन्तस्य यः क्षोदः - चूर्णं, तद्वत् पाण्डुरतरेण- पीतसंवलितातिश्वेतवर्णेन, क्षोदीयसा अतिसूक्ष्मेण, मौक्तिकचूर्णवालुकाप्रकरेण मुक्तामणिचूर्णरूपसिकतासमूहेन, अशेषतः सर्वतः, समसुकुमारभूतलं समं - निम्नोन्नतभावरहितं, सुकुमारं - मृदुलं च भूतलं - पृथ्वीतलं यस्मिंस्तादृशम् ; पुनः अतिबहलस्निग्धपादपाभिरामम् अतिबलैःअत्यधिकैः, स्निग्धैः - सरसैः पादपैः- वृक्षैः, अभिरामं - मनोहरम् [ज्ञ ] 1
च पुनः, तस्य प्रकृतस्य, आरामस्य उपवनस्य, अभ्यन्तरम् मध्यम्, अवततार प्रविष्टवान् कीदृशम् ? रमणीयतानिधानं रमणीयतायाः - सौन्दर्यस्य, निधानं - निधिभूतम्, पुनः नानाविधाभिधानत रुसहस्त्रसंबाधमपि नानाविधानि-बहुविधानि, अभिधानानि - नामानि यस्य तादृशेन तरुसहस्रेण - वृक्षसहस्रेण, संबाधमपि संकीर्णमपि, अन्धकारनिर्भरतया अन्धकारातिशयेन, तमालमयमिव तमालाख्यवृक्षप्रायमिव उपलक्ष्यमाणं प्रतीयमानम् च पुनः, अतिशीतलतया अत्यन्तशैत्येन, हिमाद्रेः हिमाचलस्य, कन्दरमिव गुहारूपमिव, कन्दमिव इति पाठे मूलभूतमिव, पुनः क्षीरोदस्य क्षीरसागरस्य, उदरमिव मध्यमिव पुनः हेमन्तस्य तदाख्यशीतऋतोः, हृदयमिव अभ्यन्तरमिव, पुनः शिशिरानिलस्य शिशिर ऋतुसम्बन्धिवायोः, शरीरान्तरमिव रूपान्तरमिव, पुनः तुषारगिरिजन्मभूमिभूतं तुषारगिरेःहिमालयस्य, जन्मभूमिभूतं - जन्मक्षेत्ररूपम् [ अ ] ।
च पुनः तस्मिन् निरुक्तोपवनाभ्यन्तरे, अवतीर्णः प्रविष्टः सन् तापम्, अतापं तापभिन्नम्, पुनः आतपं सूर्यप्रकाशम्, अनातपम् आतपभिन्नम्, पुनः तपनं सूर्यम्; अतपनं तत्रान्तरितप्रकाशतया सूर्यभिन्नम्, पुनः दिवसं दिनम्, अदिवस दिनभिन्नम्, ग्रीष्मम् उष्णम्, अग्रीष्मं ग्रीष्मभिन्नम् कालं समयम्, अकालम् असमयम्, पुनः तुषारपातं हिमस्यन्दम्, अतुषारपातम् तुषारपातभिन्नम् त्रिभुवनं स्वर्गमर्त्यपातालाख्यभुवनत्रयम्, अत्रिभुवनं त्रिभुवनभिन्नं, सर्गक्रमं विपरीतसृष्टिप्रकारम्, अमंस्त मेने च पुनः, समचिन्तयत् समालोचितवान् किमित्याह-मन्ये
१२ तिलक०
"Aho Shrutgyanam"