________________
८८
टिप्पनक - परागविवृतिसंवलिता ।
धवलं च, आपानगोष्टीबन्धमिव मधुकरका मोदितमामत्तनानामधुपमण्डलीमुखरितं च, कश्मीरमण्डलमिव विकसत्कुङ्कुमकच्छकमनीयमनेककीरप्रामानुगतं च, वातरोगोपहतमिव बहुगुल्मसंकुलोदरं श्यामलताक्रान्तं च, सर इवोत्पलाशमल्लिकाक्ष मुरुतरलह रिसेवितं च [ क्ष ], पादपैरपि पवनकम्प्र शिखरैर्विस्मयचलितमौलिभिरिव निर्वर्ण्यमानं, लताभिरपि विकसितस्तबकाभिः कौतुकोत्तानलोचनाभिरिव विलोक्यमानं, विटपैरपि विततपल्लवान्तरितरविकर प्रवेशैरीर्ष्याप्रसारितकरसह सैरिव त्रियमाणम्, ऋतुभिरपि दर्शितनिज निजद्रुमकुसुम
टिप्पनकम्-अम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च एकत्र सुरभिगावी - पारिजातवृक्षोत्थानचारु उद्गतविषं च अन्यत्र सुगन्धिपारिजातकुसुमशोभनम् उद्गच्छत्तगरवृक्षं च । त्र्यम्बकोत्तमाङ्गमिव पतत्रिमार्गाङ्कितमध्यमानीलना गलतावनद्धबालपूगं च एकत्र पतङ्गाचिह्नितमध्यं कृष्णफणिलताबद्ध केशसंघातं च, अन्यत्र पक्षिपथाङ्कितमध्यम्, आनीलनागवल्लीश्लिष्टबालपूगवृक्षं च । कामिनीकपोलतलमिव पत्रलतालीकृतच्छायमुद्यन्मधूकधवलं च एकत्र पत्र वेल्या सखीविहितशोभं विकसन्मधूककुसुमगौरं च, अन्यत्र पर्णवत्तालीतरुकृता तपाभावम्, उद्गच्छन्मधूकावदातम् । आपानगोष्ठीबन्धमिव मधुकरकामोदितमामत्तमधुपमण्डली मुखरितं च एकत्र मद्यवार्धटिकावत्, ईषत्क्षीव मद्यपगोष्टीप्राप्त मुखरत्वं च, अन्यत्र भ्रमरानाङ्गमङ्ग (?) [ नङ्ग–भङ्ग ] रुतं क्षीवभ्रमरसंघातमुखरितं च। कश्मीरमण्डलमिव विकसत्कुङ्कुमकच्छ कमनीयमनेक की रग्रामानुगतं च एकत्र विकासि कुङ्कुमगहनप्रदेशरमणीयं कीराख्यजनसंबन्धिसंवसथयुक्तं च, अन्यत्राप्येकं विशेषणं समानार्थं, नानाशुकसंघातसंयुक्तं च । वातरोगोपहतमिव बहुगुल्मसंकुलोदरं श्यामलताक्रान्तं च एकत्र लतागुल्मरोगव्याप्तजठरं श्यामत्वव्याप्तं च, अन्यत्र अनेकलता संघाताकीर्णमध्यं प्रियङ्गुलताव्याप्तं चम्पकादिलताक्रान्तं च वा । सर इवोत्पलाशमल्लिकाक्षमुरुतरलहरिसेवितं च एकत्र प्रबलमांसाशिहंसम् विस्तीर्णचञ्चलमण्डूकसेवितं च, विस्तीर्णतरजललहरियुक्तं च वा, अन्यत्र उद्गतत्रिपर्णविचकिलबिभीतकवृक्षं महाचञ्चलवानरसेवितं च [क्ष ] ।
3
धवलं- गौरम् ; पुनः आपानगोष्ठीबन्धमिव सुरापानसमासन्निवेशमिव, मधुकर कामोदितं मधुभिः - मधूकैः, करकैः - दाडिमैश्व पक्षे मधुकरकैः - मद्यपात्रविशेषैः, आमोदितं - गन्धाढ्यीकृतम्, यद्वा मधुकराणां भ्रमराणां, कामोदितं - स्वेच्छया ध्वनिर्यत्र तादृशम्, च पुनः, आमन्तनानामधुपमण्डलीमुखरितम् आमत्तानाम् - उन्मत्तानां नानामधुपानां - नानाभ्रमराणां, पक्षे नानामद्यपायिनां मण्डल्या-समूहेन, मुखरितं - वाचालितम्, पुनः कश्मीरमण्डलमिव कश्मीराख्य प्रदेशमिव, विकसत्कुङ्कुमकच्छकमनीयं विकसन्ति- फुल्लन्ति, कुङ्कुमानि तदाख्यप्रसिद्धौषधयो यस्मिंस्तादृशेन, कच्छेन - जलप्रायप्रदेशेन, कमनीयं रमणीयम्, च पुनः अनेककीरग्रामानुगतम् अनेकेषां-बहूनां, कीराणां - शुकानां, लतानां वा यो ग्रामः समूहः तेन अनुगतम्अनुबद्धम्, पक्षे अनेकैः - बहुभिः, कीराणां - कीराख्यजनानां, ग्रामैः - संवसथैः, अनुगतं सहितम्; पुनः वातरोगोपहतमिव वातव्याधिकवलितमिव, बहुगुल्म संकुलोदरम् बहुभिः, गुल्मैः - अप्रकाण्डतरुभिः संकुलं व्याप्तम्, उदरं - मध्यं यस्य, पक्षे गुल्मेन - वातगुल्माख्येन व्याधिना, संकुलम्, उदरं जठरं यस्य तादृशम्, च पुनः, श्यामलताक्रान्तं श्यामलताभिः -श्यामाख्याभिर्लताभिः, पक्षे श्यामलतया - श्यामवर्णेन, आक्रान्तं - व्याप्तम् पुनः सर इव कासारमिव, उत्पलाशमल्लिकाक्षम् उत् - ऊर्ध्वं, पलाशानि - पत्राणि यासां तादृश्यः, मल्लिकाः - पुष्पविशेषलताः, अक्षाः - बिभीतकवृक्षाः सूक्ष्मैलका वृक्षा वा यस्मिंस्तादृशम्, यद्वा उतू - उद्गताः, पलाशाः - किंशुकवृक्षाः, मल्लिकाः - निरुक्तलताः, अक्षाः - बिभीतका यस्मिंस्तादृशम्, पक्षे उत्पलानि - कमलानि, अश्नन्ति - भुञ्जन्ते ये ते उत्पलाशाः, यद्वा उत्- प्राबल्येन पलाशं -मांस ये अश्नन्ति तादृशा मल्लिकाक्षा: हंसविशेषा यस्मिंस्तादृशम्, च पुनः, उरुतरलहरिसेवितम् उरुभिः - बहुभिः, तरलैः - चञ्चलैः, हरिभिः - मर्कटैः, पक्षे उरुतराभिः - बहुतराभिः, लहरिभिः-महातरङ्गैः सेवितं - व्याप्तम् [क्ष ] । पुनः पवनकम्प्रशिखरैः पवनेन - वायुना, कम्प्रं- कम्पनशीलं, शिखरं-शिरोभागो येषां तादृशैः पादपैरपि वृक्षैरपि, विस्मयचलितमौलिभिरिव विस्मयेन - सौन्दर्यदर्शनाश्चर्येण, चलितःकम्पितः, मौलिः - मस्तकं येषां तादृशैरिव, निर्वर्ण्यमानं निरीक्ष्यमाणम् ; पुनः विकसितस्तबकाभिः पुष्पितगुच्छाभिः, लताभिरपि कौतुकोत्तानलोचनाभिरिव कौतुकेन - दिदृक्षारसेन, उत्ताने - उन्मीलिते, लोचने - नयने यासां तादृशीभिरिव, विलोक्यमानं दृश्यमानम् ; पुनः विततपल्लवान्तरितरविकर प्रवेशैः विततैः - विस्तृतैः, पलवैः - नूतनदलैः, अन्तरितः
"Aho Shrutgyanam"