________________
तिलकमञ्जरी नमेरुवीथिकान्धकारम् , असकृत् सिद्धसुन्दरीनिबद्धबालमन्दारद्रुमालवालं, सततमवतंसलालसभुजङ्गभामिनीभग्नसंतानकानेकप्रवालम् , [स] अन्तरान्तरा च विकचकाञ्चनारविन्दवनराजिनीभिर्मदनज्वरवेदनाविदूनविद्याधरीपरिभुक्तविविक्तोदरैः सान्द्रहरिचन्दनलतामन्दिरैः श्यामलीकृतपरिसरा भिरुपर्युपरिघटितस्फटिकशिलाश्रेणीतरङ्गिततीराभिर्नीरापसर्पणक्रमस्थितस्त्यानफेनराजिभिरिव पयस्यमानपयःपूरपूरिताभिः सरसीभिरुद्भासितम् [ह], अम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च, त्र्यम्बकोत्तमाङ्गमिव पतत्रिमार्गाङ्कितमध्यमानीलनागलतावनद्धबालपूगं च, कामिनीकपोलतलमिव पत्रलतालीकृतच्छायमुद्य-मधूक
टिप्पनकम्-घनसारः-कर्पूरः [स] ।
सारिकासेवितनमेरुवीथिकान्धकारं गुह्यकाभिसारिकाभिः-गुह्यको नाम देवयोनिविशेषः, तत्सम्बन्धिनीभिः, अभिसारिकाभिः-जारगामिनीभिः प्रच्छन्ननायिकाभिः, सेवितः-आश्रितः, नमेरूणां-तदाख्यवृक्षविशेषाणां, वीथिकायाः-पतेः, अन्धकारो यस्मिंस्तादृशम् ; पुनः असकृत् अनेकवारम् , सिद्धसुन्दरीनिबद्धबालमन्दारद्रुमालवालं सिद्धसुन्दरीभिः-सिद्धपुरुषसुन्दरस्त्रीभिः, निबद्धाः--निर्मिताः, बालमन्दारद्रुमाणां-ह्रस्वमन्दाराख्यदेववृक्षाणाम् , आलवाला:-मूलस्थजलाधारा यस्मिंस्ताशम् ; पुनः सततं निरन्तरम् , अवतंसलालसभुजङ्गभामिनीभग्नसन्तानकानेकप्रवालम् अवतंसलालसाभिःआभरणाभिलाषिणीभिः, भुजङ्गभामिनीमिः-सर्पस्त्रीभिः, भग्नानि-त्रोटितानि, संतानकस्य-तदाख्यदेववृक्षस्य, अनेकानि-बहूनि, प्रवालानि-पल्लवा यस्मिंस्तादृशम् [स]च पुनः, अन्तरा अन्तरा मध्ये मध्ये, सरसीमिः विशालसरोभिः, उद्भासितं उद्दीपितम्, कीदृशीभिः ? विकचकाञ्चनारविन्दवनराजिनीभिः विकचानां-विकसिताना, काञ्चनारविन्दाना-सुवर्णकमलानां, वनैः, राजन्ते-शोभन्ते यास्तादृशीभिः, पुनः मदनज्वरवेदनाविदूनविद्याधरीपरिभुक्तविविक्तोदरैः मदनज्वरवेदनया-कामज्वरदुःखेन, विदूनाभिः-परितप्ताभिः, विद्याधरीभिः -विद्याधरनारीभिः, परिभुक्तं-सुरतसुखानुभवस्थानीकृतं, विविक्तं-निर्जनम्, उदरम्-अभ्यन्तरं येषां तादृशैः, सान्द्रहरिचन्दनलतामन्दिरैः निबिडहरिचन्दनाख्यदिव्यलतागृहैः, श्यामलीकृतपरिसराभिः श्यामलीकृताः-श्यामतामापादिताः, परिसराः-पर्यन्तभूमयो यासां तादृशीभिः, पुनः उपयुपरिघटितस्फटिकशिलाश्रेणीतरङ्गिततीराभिः उपर्युपरि-समीपोर्ध्वदेशे, घटितया-निविष्टया, स्फटिकशिलाश्रेण्यास्फटिकाख्यप्रस्तरपङ्कया, तरङ्गितानि-सञ्जाततरङ्गाणि; तीराणि यासां तादृशीभिः, अत एव नीरापसर्पणक्रमस्थितस्त्यानफेनराजिभिरिव नीरापसर्पणक्रमेण-जलापसारणप्रकारेण, स्थिता स्त्याना-संहता, फेनराशिः-फेनपुञ्जो यासु तादृशीभिरिवेत्युत्प्रेक्षा, पुनः पयस्यमानपयःपूरपूरिताभिः पयस्यमानानां-पयांसीव-दुग्धानीवाचरतां, पयसां-जलानां पूरैःप्रवाहैः, पूरिताभिः-पूर्तिमापादिताभिः [ह], पुनः कीदृशम् ? अम्भोधिमथनमिव समुद्रमन्थनमिव, सुरभिपारिजातोद्गमसुभगं सुरमेः-सुगन्धेः, पारिजातस्य-तदाख्यदेवतरोः, उद्गमेन-प्ररोहेण, यद्वा सुरभिभिः-सुगन्धिभिः, पारिजातोद्गमैःपारिजातकुसुमैः, पक्षे सुरभेः-कामधेनोः, पारिजातस्य-तदाख्यवृक्षस्य, उद्गमेन-निर्गमेन, सुभगं-मनोहरम् , च पुनः, उत्सर्पितगरम् उत्सर्पिण:-ऊर्ध्व गच्छन्तः, तगरा:-तगरजातीया वृक्षा यस्मिन् , पक्षे उत्सर्पितः-उद्धृतः-गरः-विषं यस्मात् तादृशम् ; पुनः त्र्यम्बकोत्तमाङ्गमिव त्रीणि अम्बकानि-नेत्राणि यस्यासौ त्र्यम्बकः शिवः, तस्य उत्तमाङ्ग-मस्तकमिव, पतन्त्रिमार्गाडितमध्यं पतत्रिणां-पक्षिणा, मार्गेण, अङ्कितं-चिह्नितं, मध्य-मध्यप्रदेशो यस्य तादृशम् , पक्षे पतन्त्या त्रिमार्गया-त्रयः स्वर्ग-मर्त्यपातालरूपमार्गा यस्यास्तया, गङ्गयेत्यर्थः, तदुक्तं महाभारते-"क्षितौ तारयते मान् नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता॥” इति, अङ्कितं मध्यं यस्य तादृशम .च पुनः,आनीलनागलतावनद्धबा नीलया नीलवर्णया, नागलतया-नागाख्यलताविशेषेण, पक्षे लताकारेण नागेन-सर्पण, अवनद्धः-आबद्धः, बालपूगः-बालक्रमुकवृक्षः, पक्षे केशकलापो यस्मिन् पक्षे यस्य तादृशम् ; पुनः कामिनीकपोलतलमिव कामिन्याः-नायिकायाः, कपोलतलंगण्डस्थलम् , इव, पत्रलतालीकृतच्छायं पत्रलाभिः-पत्रपूर्णाभिः, तालीभिः-तदाख्यवृक्षः, पक्षे पत्रलतानां तदाकाररचनाविशेषाणाम् , आल्या-पतया, यद्वा पत्रलतया-पत्राकाररचनया आल्या-सख्या, कृता, छाया-अनातपः, पक्ष शोभा यस्मिंस्तादृशम् , च पुनः, उद्यन्मधूकधवलम् उद्यद्भिः-प्रकटीभवद्भिः, मधूकैः-'महुडा'पदेन लोकविश्रुतवृक्षफलैः, पक्षे उद्यन्मधूकवत्
"Aho Shrutgyanam"