________________
टिप्पनक - परागविवृतिसंवलिता ।
पाटलामोदम्, अपनिद्रनीपशा खिशिखर के काय मानमदमुखरशिखिकुलम्, असंख्यरिङ्खत्खञ्जरीटपक्षपुटविक्षिप्तसप्तछदस्तबकम्, उद्विकासरोधकुसुमपांसुधूसरितसारिकानिकरप्रतारिततरुणकपोतम्, अमलकलधौतशला कापञ्जरपिञ्जरप्रियङ्गमञ्जरीजालकान्तर्निलीनच कोरम्, आरब्ध केलिकलह कोकिलकुलाकुलितकलिकाञ्चितचूतमालम्, उन्मीलितमुकुलबकुलानोकह निकुञ्जकूजत्कपिञ्जलं [ श] क्वचिदातपस्पृहयालुकपिपोतसेव्यमान रक्ताशोकपल्लवव्यूह, कचिदालीढपिप्पलीफलकलकण्ठकुहर कुह कुहा यमानदात्यूहं कचित् कृष्णागुरुच्छायानिषण्णरोमन्थायमानचमरमिथुनं, कचिदाकर्ण्यमानग्रन्थिपर्णकग्रासिकस्तूरिकाकुरङ्गदशनबुर्बुरस्वनं [ष], बहुलशो गन्धर्वबालिकावकृष्टस्फुटिततरुवल्कलोद्गीर्णघनसारम्, अनेकशो गुह्यकाभिसारिकासेवित
८६
टिप्पनकम् - खञ्जरीट:- चटकविशेषः [श ] | आलीढः - आस्वादितः । दात्यूहः - जलपक्षी [ प ] |
आमोदः-उत्कटगन्धो यस्मिंस्तादृशम् ; पुनः अपनिद्रनीपशाखिशिखर के कायमानमदमुख र शिखि कुलं अपनिद्राणां - अपगता निद्रा-संकोचो येषां तादृशानां, विकसितानामित्यर्थः, नीपशाखिनां - कदम्बवृक्षाणां शिखरेषु - ऊर्ध्वभागेषु, केकायमानंकेकाख्यवाणीं व्याहरत् मदमुखरं - मदेन-हर्षेण गर्वेण वा मुखरं- वाचालं, शिखिकुलं- मयूरमण्डलं यस्मिंस्तादृशम् ; पुनः असंख्यरिङ्खत्खञ्जरीटपक्षपुटविक्षिप्त सप्तच्छद स्तबकं असंख्यैः- संख्यारहितैः, रिङ्खद्भिः - गच्छद्भिः, उड्डीयमानैरित्यर्थः, खञ्जरीटैः-खञ्जनाख्यपक्षिविशेषैः, पक्षपुटाभ्यां पुढाकारपक्षाभ्यां विक्षिप्ताः परितः पातिताः, सप्तच्छदस्तबकाः - सप्तच्छदाख्यवृक्षसम्बन्धिपुष्पगुच्छा यस्मिंस्तादृशम् ; पुनः उद्विकासरोधकुसुमपांसुधूसरितसारिकानिकर प्रतारिततरुणकपोतं उत्ऊर्ध्वं उत्कृष्टो वा विकासः - विकसनं येषां तादृशानां, रोध्रसम्बन्धिनां तदाख्यवृक्षविशेषसम्बन्धिनां कुसुमानां पुष्पाणां, पांसुभिःपरागैः, धूसरितानां किञ्चित्पीतसंवलितश्वेतवर्णीकृतानां, सारिकाणां पक्षिविशेषाणां, निकरेण - समूहेन, प्रतारिताः - स्वस्मिन कपोतीत्वभ्रान्त्युत्पादनया वञ्चिताः, तरुणाः -- युवानः, कपोताः - पारावता यस्मिंस्तादृशम् ; पुनः अमलकलधौतशलाकापञ्जरपिञ्जरप्रियङ्कुमञ्जरीजालकान्तर्निलीन चकोरं अमलस्य - उज्ज्वलस्य, कलधौतस्य- सुवर्णस्य, याः शलाका:-पत्रिकाः, तद्रचितं, यत् पञ्जरं-पक्षिबन्धनयन्त्रः, तद्रूपस्य, पिञ्जरस्य - पीतवर्णस्य, प्रियमञ्जरीजालकस्य - कडुमञ्जरीपुञ्जस्य, अन्तः अभ्यन्तरे, निलीनाः, चकोराः - पक्षिविशेषा यस्मिंस्तादृशम् ; पुनः आरब्धकेलिकलहको किलकुलाकुलितकलिकाञ्चितचूतमालं आरब्धः- प्रवर्तितः, केलिकलहः - क्रीडाकलहो यैस्तादृशैः, कोकिलकुलैः - कोकिलकलापैः, आकुलता - व्याप्त कलिकाञ्चिता- कोर कविशिष्टा, चूतमाला आम्रपङ्क्तिः-यस्मिंस्तादृशम् ; पुनः उन्मीलितमुकुलबकुलानोकहनिकुञ्जकूजत्कपिञ्जलं उन्मीलितः - आविर्भूतः, मुकुलः - किश्चिद्विकासोन्मुखकलिका येषां तादृशानां, बकुलानोकहानां - बकुलाख्यपुष्पवृक्षविशेषाणां, निकुञ्जे – कानने, कूजन्तः - गुञ्जन्तः, कपिञ्जलाः - पक्षिविशेषा यस्मिंस्तादृशम् [श ]; पुनः क्वचित् कस्मिंश्चित् स्थळे, आतपस्पृहयालुकपिपोत सेव्यमान रक्ताशोकपल्लवव्यूहं आतपस्पृहयालुभिः - सूर्यारुणकिरणाकाङ्क्षिभिः, कपिपोतैः-वानरशावकैः सेव्यमानः - आश्रीयमाणः, रक्ताशोकस्य - रक्तवर्णाशोकस्य, पह्रवव्यूहः- नूतन दलराशिर्यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चिद्भागे, आलीढपिप्पलीफल कलकण्ठकुहर कुह कुहायमान दात्यूहं आलीढं- आस्खादितं, पिप्पल्याः - औषधिविशेषस्य, फलं येन तादृशस्य, कलस्य - अव्यक्तमधुरस्य, कण्ठस्य, कुहरेण - विवरेण, कुहकुहायमानाःकुहकुहेति शब्दायमानाः, दात्यूहाः - पक्षिभेदा यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् स्थाने, कृष्णागुरुच्छायानिषण्णरोमन्थायमानचमरमिथुनं कृष्णागुरोः - कालागुरुवृक्षस्य, छायायां, निषण्णानि - उपविष्टानि, रोमन्थायमानानि - रोमन्थंचर्वितस्याकृष्य पुनश्चर्वणं, वर्तयन्ति - सम्पादयन्ति, चमरमिथुनानि - चमरो नाम- मृगविशेषः, तस्य मिथुनानि - द्वन्द्वानि यस्मिंस्तादृशम् ; पुनः क्वचित् कुत्रचित्, आकर्ण्यमानग्रन्थिपर्णकग्रासिकस्तूरिकाकुरङ्गदशनबुर्बुरस्वनं आकर्ण्यमानाःश्रूयमाणाः, ग्रन्थिपर्णकग्रासिनां - ग्रन्थिपर्णाख्यतृणविशेषभक्षकाणां कस्तूरिकाकुरङ्गाणां - गन्धमृगाणां, दशनानां - दन्तानां, बुर्बुरस्वनाः-बुर्बुरेति ध्वनयो यस्मिंस्तादृशम् [ष]; पुनः बहुलशः बहुषु स्थलेषु, गन्धर्व बालिकावकृष्टस्फुटिततरुवल्कलोद्गीर्णघनसारं गन्धर्वबालिकाभिः - गन्धर्वाख्यदेवजातिविशेषकन्यकाभिः, अवकृष्टैः - आकृष्टैः, अत एव स्फुटितैः-विदीर्णैः, तरुवल्कलैः–वृक्षत्वग्भिः, उद्गीर्णाः- उद्भाविताः, घनसाराः - कर्पूरा यस्मिंस्तादृशम् ; पुनः अनेकशः अनेकस्थलेषु, गुह्यकाभि
"Aho Shrutgyanam"