________________
तिलकमञ्जरी
जिघृक्षयाऽन्तरिक्षादवाक्चचुकृतजलप्रपातानि वञ्जुलजातानि बहुमन्यमानः परस्परवितीर्णतामरसकेसरकवलानि क्रौञ्चयुगलानि, श्लाघयन् विलासताण्डवमण्डितलतामण्डपतलानि प्रचलाकिमण्डलानि [ल ], सञ्चरद्विद्याधरीचरणालक्तकरक्तमुक्ता शिलातलमा सन्नाश्रमनिवासिनी भिस्तापसकुमारिकाभिरुपचितालवालवलयितमूलैस्तरुभिराहितानुत्तरशोभमुत्तरं तीरमधिरूढः, [व], पुरस्तान्नेदिष्ठम्, अधिष्ठानमिव
साक्षाद्वस
न्तस्य,
विस्मयावहमतिबहलतया, श्यामलतया च शरन्निशाकरभयाद् बहुलपक्षक्षपान्धकारमिव पिण्डीभूतम्, अम्बुगर्भभारेण तरुणाभ्रमण्डलमिव नभस्तलाद् भ्रष्टम्, एलालवङ्गनागपुन्नागसंकटम्, उत्कटोत्कलितकक्कोलकफलामोदम्, उद्गाढफलितमातुलिङ्गनारङ्गनालिकेरी जम्बीरसुभगम, आभोगभुग्नपनसम्, आपीनफल/पीडपीडितदाडिमीखण्डम्, उद्दण्डराजकदलीमन्दिरप्रभाकन्द लितान्धकारम्, आकारितमधुकरीविसरविसारि
टिप्पनकम् -- प्रचलाकी - मयूरः [ ल ] |
शिखरशीकरानुसरणव्याकुलानि समीरणेन वायुना, उल्लसितानाम् - उत्थितानां कल्लोलानां - बृहत्तरङ्गाणां, शिखरे - उपरि, ये शीकराः-जलकणाः, तदनुसरणव्याकुलानि - तदनुगमनव्यग्राणि, चातककुलानि चातकगणान्, वीक्षमाणः पश्यन्; पुनः शकुलजिघृक्षया शकुलानां - मत्स्यविशेषाणां जिघृक्षया - ग्रहणेच्छया, अन्तरिक्षात् आकाशात्, अवाक्चञ्चकृतजलप्रपातानि अवाची - अवनता, चक्षुः-तुण्डं येषां ते अवाक्चञ्चवः - चकाः, तैः कृतः जले प्रपातः - निपतनं येषु तादृशानि वञ्जलजातानि वेतसराशीन् विलोकयन् पश्यन् पुनः परस्परवितीर्णतामरस केसरकवलानि परस्परस्मै- अन्योन्यस्मै, वितीर्णः-दत्तः, तामरसकेसराणां - कमलकिञ्जल्कानां कवलः -ग्रासो यैस्तादृशानि क्रौञ्चयुगलानि क्रौञ्चानां - कराङ्गुलनाम्ना लोकप्रसिद्ध पक्षिविशेषाणां युगलानि - मिथुनानि, बहुमन्यमानः उत्कृष्टं मन्यमानः; पुनः विलासताण्डवमण्डितलतामण्डपतलानि विलासेन - लीलया, यत् ताण्डवं नृत्यं तेन मण्डिताः - अलङ्कृताः, लतामण्डपतलाः - लतागृहभूमयः यैस्तादृशानि, प्रचलाकिमण्डलानि प्रचलाकिनां प्रचलायते यः स प्रचलाकः- शिखा, तद्वतां मयूराणां, मण्डलानि - गणान्, श्लाघयन् प्रशंसन् [ल ]; तीरं कीदृशम् ? सञ्चरद्विद्याधरीचरणालक्तकरक्तमुक्ताशिलातलं सञ्चरन्तीनां विहरन्तीनां विद्याधरीणां विद्याधरस्त्रीणां चरणालक्तकैः - पादलाक्षाद्रवैः, रक्तं, मुक्ताशिलातलं मुक्तामणिरूपपाषाणो यस्मिंस्तादृशं पुनः आसन्नाश्रमनिवासिनीभिः सन्निहिताश्रमनिवासिनीभिः, तापसकुमारिकाभिः मुनिकन्यकाभिः उपचितालवालवलयित - मूलैः उपचितैः- वर्धितैः, आलवालै:- मूलस्थजलाधारैः, वलयितं - वेष्टितं मूलं येषां तादृशैः तरुभिः वृक्षैः, आहितानुत्तरशोभम् ; आहिता-उत्पादिता, अनुत्तरा - अत्युत्कृष्टा शोभा यस्य तादृशम् [ व ]; कीदृशमारामम् ? नेदिष्ठं अत्यन्तनिकटम् ; पुनः वसन्तस्य ऋतुराजस्य, साक्षात् प्रत्यक्षम्, अधिष्ठानमिव आधारमिव, पुनः अतिबहलतया अतिविस्तारितया, विस्मयावहं आश्चर्यजनकम्; च पुनः, श्यामलतया कृष्णवर्णतया, शरन्निशाकरभयात् शरच्चन्द्रकर्तृका पहरणभयात्, पिण्डीभूतं पुञ्जीभूतं, बहुलपक्षक्षपान्धकारमिव कृष्णपक्षनिशान्धकारमिवः पुनः अम्बुगर्भभारेण जलपूर्णोदर गौरवेण नभस्तलात् गगनतलाद्, भ्रष्टं अधः पतितं, तरुणाभ्रमण्डलमिव परिणतमेघमण्डलमिव; पुनः एलालवङ्गनागपुन्नागसंकटं एलादिलतासंकीर्णम्; पुनः उत्कटोत्कलित कक्कोलकफलामोदं उत्कटः - अतिमात्रः, उत्कलितानां - कोर कितानां, ककोलकफलानां - कक्कोलकाख्यवृक्षविशेषफलानाम्, आमोदः - सौगन्ध्यं यस्मिंस्तादृशम् ; पुनः उद्गाढफलितमातुलिङ्गनारङ्गनालिकेरी जम्बीरसुभगं उद्गाढफलितैः - अत्यन्तफलितैः, मातुलिङ्गादिजम्बीरान्तवृक्षैः सुभगं - मनोहरम् ; पुनः आभोगभुनपनसं आभोगेन विस्तारेण, भुग्नाः - अवनताः, पनसाः - 'कटहल 'शब्देन लोकप्रसिद्धवृक्षविशेषा यस्मिंस्तादृशम् ; पुनः आपीनफलापीडपीडितदाडिमीखण्डं आपीनानां - अतिस्थूलानां फलानाम्, आपीडै: - शिरोमाल्यैः, पीडितःअवनमितः, दाडिमीखण्ड : - दाडिमीवनं यस्मिंस्तादृशम् पुनः उद्दण्डराजकदलीमन्दिरप्रभाकन्दलितान्धकारं उद्दण्डानाम्—उन्नतानां, राजकदलीनां - कदलीविशेषाणां यानि मन्दिराणि - गृहाः, तत्प्रभाभिः - तत्कान्तिभिः, कन्दलिताः - अङ्कुरिताः, बद्धमूला इत्यर्थः, अन्धकारा यस्मिंस्तादृशम्; पुनः पुनः आकारितमधुकरीविसरविसारिपाटलामोदं आकारितः - आहूतः, आकृष्ट इति यावत् मधुकरी विसरः - भ्रमरीगणो येन तादृशः, विसारी- विस्तृतः, पाटलायाः - कृष्णकृन्तायाः,
"Aho Shrutgyanam"
८५