Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 99
________________ तिलकमञ्जरी नमेरुवीथिकान्धकारम् , असकृत् सिद्धसुन्दरीनिबद्धबालमन्दारद्रुमालवालं, सततमवतंसलालसभुजङ्गभामिनीभग्नसंतानकानेकप्रवालम् , [स] अन्तरान्तरा च विकचकाञ्चनारविन्दवनराजिनीभिर्मदनज्वरवेदनाविदूनविद्याधरीपरिभुक्तविविक्तोदरैः सान्द्रहरिचन्दनलतामन्दिरैः श्यामलीकृतपरिसरा भिरुपर्युपरिघटितस्फटिकशिलाश्रेणीतरङ्गिततीराभिर्नीरापसर्पणक्रमस्थितस्त्यानफेनराजिभिरिव पयस्यमानपयःपूरपूरिताभिः सरसीभिरुद्भासितम् [ह], अम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च, त्र्यम्बकोत्तमाङ्गमिव पतत्रिमार्गाङ्कितमध्यमानीलनागलतावनद्धबालपूगं च, कामिनीकपोलतलमिव पत्रलतालीकृतच्छायमुद्य-मधूक टिप्पनकम्-घनसारः-कर्पूरः [स] । सारिकासेवितनमेरुवीथिकान्धकारं गुह्यकाभिसारिकाभिः-गुह्यको नाम देवयोनिविशेषः, तत्सम्बन्धिनीभिः, अभिसारिकाभिः-जारगामिनीभिः प्रच्छन्ननायिकाभिः, सेवितः-आश्रितः, नमेरूणां-तदाख्यवृक्षविशेषाणां, वीथिकायाः-पतेः, अन्धकारो यस्मिंस्तादृशम् ; पुनः असकृत् अनेकवारम् , सिद्धसुन्दरीनिबद्धबालमन्दारद्रुमालवालं सिद्धसुन्दरीभिः-सिद्धपुरुषसुन्दरस्त्रीभिः, निबद्धाः--निर्मिताः, बालमन्दारद्रुमाणां-ह्रस्वमन्दाराख्यदेववृक्षाणाम् , आलवाला:-मूलस्थजलाधारा यस्मिंस्ताशम् ; पुनः सततं निरन्तरम् , अवतंसलालसभुजङ्गभामिनीभग्नसन्तानकानेकप्रवालम् अवतंसलालसाभिःआभरणाभिलाषिणीभिः, भुजङ्गभामिनीमिः-सर्पस्त्रीभिः, भग्नानि-त्रोटितानि, संतानकस्य-तदाख्यदेववृक्षस्य, अनेकानि-बहूनि, प्रवालानि-पल्लवा यस्मिंस्तादृशम् [स]च पुनः, अन्तरा अन्तरा मध्ये मध्ये, सरसीमिः विशालसरोभिः, उद्भासितं उद्दीपितम्, कीदृशीभिः ? विकचकाञ्चनारविन्दवनराजिनीभिः विकचानां-विकसिताना, काञ्चनारविन्दाना-सुवर्णकमलानां, वनैः, राजन्ते-शोभन्ते यास्तादृशीभिः, पुनः मदनज्वरवेदनाविदूनविद्याधरीपरिभुक्तविविक्तोदरैः मदनज्वरवेदनया-कामज्वरदुःखेन, विदूनाभिः-परितप्ताभिः, विद्याधरीभिः -विद्याधरनारीभिः, परिभुक्तं-सुरतसुखानुभवस्थानीकृतं, विविक्तं-निर्जनम्, उदरम्-अभ्यन्तरं येषां तादृशैः, सान्द्रहरिचन्दनलतामन्दिरैः निबिडहरिचन्दनाख्यदिव्यलतागृहैः, श्यामलीकृतपरिसराभिः श्यामलीकृताः-श्यामतामापादिताः, परिसराः-पर्यन्तभूमयो यासां तादृशीभिः, पुनः उपयुपरिघटितस्फटिकशिलाश्रेणीतरङ्गिततीराभिः उपर्युपरि-समीपोर्ध्वदेशे, घटितया-निविष्टया, स्फटिकशिलाश्रेण्यास्फटिकाख्यप्रस्तरपङ्कया, तरङ्गितानि-सञ्जाततरङ्गाणि; तीराणि यासां तादृशीभिः, अत एव नीरापसर्पणक्रमस्थितस्त्यानफेनराजिभिरिव नीरापसर्पणक्रमेण-जलापसारणप्रकारेण, स्थिता स्त्याना-संहता, फेनराशिः-फेनपुञ्जो यासु तादृशीभिरिवेत्युत्प्रेक्षा, पुनः पयस्यमानपयःपूरपूरिताभिः पयस्यमानानां-पयांसीव-दुग्धानीवाचरतां, पयसां-जलानां पूरैःप्रवाहैः, पूरिताभिः-पूर्तिमापादिताभिः [ह], पुनः कीदृशम् ? अम्भोधिमथनमिव समुद्रमन्थनमिव, सुरभिपारिजातोद्गमसुभगं सुरमेः-सुगन्धेः, पारिजातस्य-तदाख्यदेवतरोः, उद्गमेन-प्ररोहेण, यद्वा सुरभिभिः-सुगन्धिभिः, पारिजातोद्गमैःपारिजातकुसुमैः, पक्षे सुरभेः-कामधेनोः, पारिजातस्य-तदाख्यवृक्षस्य, उद्गमेन-निर्गमेन, सुभगं-मनोहरम् , च पुनः, उत्सर्पितगरम् उत्सर्पिण:-ऊर्ध्व गच्छन्तः, तगरा:-तगरजातीया वृक्षा यस्मिन् , पक्षे उत्सर्पितः-उद्धृतः-गरः-विषं यस्मात् तादृशम् ; पुनः त्र्यम्बकोत्तमाङ्गमिव त्रीणि अम्बकानि-नेत्राणि यस्यासौ त्र्यम्बकः शिवः, तस्य उत्तमाङ्ग-मस्तकमिव, पतन्त्रिमार्गाडितमध्यं पतत्रिणां-पक्षिणा, मार्गेण, अङ्कितं-चिह्नितं, मध्य-मध्यप्रदेशो यस्य तादृशम् , पक्षे पतन्त्या त्रिमार्गया-त्रयः स्वर्ग-मर्त्यपातालरूपमार्गा यस्यास्तया, गङ्गयेत्यर्थः, तदुक्तं महाभारते-"क्षितौ तारयते मान् नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता॥” इति, अङ्कितं मध्यं यस्य तादृशम .च पुनः,आनीलनागलतावनद्धबा नीलया नीलवर्णया, नागलतया-नागाख्यलताविशेषेण, पक्षे लताकारेण नागेन-सर्पण, अवनद्धः-आबद्धः, बालपूगः-बालक्रमुकवृक्षः, पक्षे केशकलापो यस्मिन् पक्षे यस्य तादृशम् ; पुनः कामिनीकपोलतलमिव कामिन्याः-नायिकायाः, कपोलतलंगण्डस्थलम् , इव, पत्रलतालीकृतच्छायं पत्रलाभिः-पत्रपूर्णाभिः, तालीभिः-तदाख्यवृक्षः, पक्षे पत्रलतानां तदाकाररचनाविशेषाणाम् , आल्या-पतया, यद्वा पत्रलतया-पत्राकाररचनया आल्या-सख्या, कृता, छाया-अनातपः, पक्ष शोभा यस्मिंस्तादृशम् , च पुनः, उद्यन्मधूकधवलम् उद्यद्भिः-प्रकटीभवद्भिः, मधूकैः-'महुडा'पदेन लोकविश्रुतवृक्षफलैः, पक्षे उद्यन्मधूकवत् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202