Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 97
________________ तिलकमञ्जरी जिघृक्षयाऽन्तरिक्षादवाक्चचुकृतजलप्रपातानि वञ्जुलजातानि बहुमन्यमानः परस्परवितीर्णतामरसकेसरकवलानि क्रौञ्चयुगलानि, श्लाघयन् विलासताण्डवमण्डितलतामण्डपतलानि प्रचलाकिमण्डलानि [ल ], सञ्चरद्विद्याधरीचरणालक्तकरक्तमुक्ता शिलातलमा सन्नाश्रमनिवासिनी भिस्तापसकुमारिकाभिरुपचितालवालवलयितमूलैस्तरुभिराहितानुत्तरशोभमुत्तरं तीरमधिरूढः, [व], पुरस्तान्नेदिष्ठम्, अधिष्ठानमिव साक्षाद्वस न्तस्य, विस्मयावहमतिबहलतया, श्यामलतया च शरन्निशाकरभयाद् बहुलपक्षक्षपान्धकारमिव पिण्डीभूतम्, अम्बुगर्भभारेण तरुणाभ्रमण्डलमिव नभस्तलाद् भ्रष्टम्, एलालवङ्गनागपुन्नागसंकटम्, उत्कटोत्कलितकक्कोलकफलामोदम्, उद्गाढफलितमातुलिङ्गनारङ्गनालिकेरी जम्बीरसुभगम, आभोगभुग्नपनसम्, आपीनफल/पीडपीडितदाडिमीखण्डम्, उद्दण्डराजकदलीमन्दिरप्रभाकन्द लितान्धकारम्, आकारितमधुकरीविसरविसारि टिप्पनकम् -- प्रचलाकी - मयूरः [ ल ] | शिखरशीकरानुसरणव्याकुलानि समीरणेन वायुना, उल्लसितानाम् - उत्थितानां कल्लोलानां - बृहत्तरङ्गाणां, शिखरे - उपरि, ये शीकराः-जलकणाः, तदनुसरणव्याकुलानि - तदनुगमनव्यग्राणि, चातककुलानि चातकगणान्, वीक्षमाणः पश्यन्; पुनः शकुलजिघृक्षया शकुलानां - मत्स्यविशेषाणां जिघृक्षया - ग्रहणेच्छया, अन्तरिक्षात् आकाशात्, अवाक्चञ्चकृतजलप्रपातानि अवाची - अवनता, चक्षुः-तुण्डं येषां ते अवाक्चञ्चवः - चकाः, तैः कृतः जले प्रपातः - निपतनं येषु तादृशानि वञ्जलजातानि वेतसराशीन् विलोकयन् पश्यन् पुनः परस्परवितीर्णतामरस केसरकवलानि परस्परस्मै- अन्योन्यस्मै, वितीर्णः-दत्तः, तामरसकेसराणां - कमलकिञ्जल्कानां कवलः -ग्रासो यैस्तादृशानि क्रौञ्चयुगलानि क्रौञ्चानां - कराङ्गुलनाम्ना लोकप्रसिद्ध पक्षिविशेषाणां युगलानि - मिथुनानि, बहुमन्यमानः उत्कृष्टं मन्यमानः; पुनः विलासताण्डवमण्डितलतामण्डपतलानि विलासेन - लीलया, यत् ताण्डवं नृत्यं तेन मण्डिताः - अलङ्कृताः, लतामण्डपतलाः - लतागृहभूमयः यैस्तादृशानि, प्रचलाकिमण्डलानि प्रचलाकिनां प्रचलायते यः स प्रचलाकः- शिखा, तद्वतां मयूराणां, मण्डलानि - गणान्, श्लाघयन् प्रशंसन् [ल ]; तीरं कीदृशम् ? सञ्चरद्विद्याधरीचरणालक्तकरक्तमुक्ताशिलातलं सञ्चरन्तीनां विहरन्तीनां विद्याधरीणां विद्याधरस्त्रीणां चरणालक्तकैः - पादलाक्षाद्रवैः, रक्तं, मुक्ताशिलातलं मुक्तामणिरूपपाषाणो यस्मिंस्तादृशं पुनः आसन्नाश्रमनिवासिनीभिः सन्निहिताश्रमनिवासिनीभिः, तापसकुमारिकाभिः मुनिकन्यकाभिः उपचितालवालवलयित - मूलैः उपचितैः- वर्धितैः, आलवालै:- मूलस्थजलाधारैः, वलयितं - वेष्टितं मूलं येषां तादृशैः तरुभिः वृक्षैः, आहितानुत्तरशोभम् ; आहिता-उत्पादिता, अनुत्तरा - अत्युत्कृष्टा शोभा यस्य तादृशम् [ व ]; कीदृशमारामम् ? नेदिष्ठं अत्यन्तनिकटम् ; पुनः वसन्तस्य ऋतुराजस्य, साक्षात् प्रत्यक्षम्, अधिष्ठानमिव आधारमिव, पुनः अतिबहलतया अतिविस्तारितया, विस्मयावहं आश्चर्यजनकम्; च पुनः, श्यामलतया कृष्णवर्णतया, शरन्निशाकरभयात् शरच्चन्द्रकर्तृका पहरणभयात्, पिण्डीभूतं पुञ्जीभूतं, बहुलपक्षक्षपान्धकारमिव कृष्णपक्षनिशान्धकारमिवः पुनः अम्बुगर्भभारेण जलपूर्णोदर गौरवेण नभस्तलात् गगनतलाद्, भ्रष्टं अधः पतितं, तरुणाभ्रमण्डलमिव परिणतमेघमण्डलमिव; पुनः एलालवङ्गनागपुन्नागसंकटं एलादिलतासंकीर्णम्; पुनः उत्कटोत्कलित कक्कोलकफलामोदं उत्कटः - अतिमात्रः, उत्कलितानां - कोर कितानां, ककोलकफलानां - कक्कोलकाख्यवृक्षविशेषफलानाम्, आमोदः - सौगन्ध्यं यस्मिंस्तादृशम् ; पुनः उद्गाढफलितमातुलिङ्गनारङ्गनालिकेरी जम्बीरसुभगं उद्गाढफलितैः - अत्यन्तफलितैः, मातुलिङ्गादिजम्बीरान्तवृक्षैः सुभगं - मनोहरम् ; पुनः आभोगभुनपनसं आभोगेन विस्तारेण, भुग्नाः - अवनताः, पनसाः - 'कटहल 'शब्देन लोकप्रसिद्धवृक्षविशेषा यस्मिंस्तादृशम् ; पुनः आपीनफलापीडपीडितदाडिमीखण्डं आपीनानां - अतिस्थूलानां फलानाम्, आपीडै: - शिरोमाल्यैः, पीडितःअवनमितः, दाडिमीखण्ड : - दाडिमीवनं यस्मिंस्तादृशम् पुनः उद्दण्डराजकदलीमन्दिरप्रभाकन्दलितान्धकारं उद्दण्डानाम्—उन्नतानां, राजकदलीनां - कदलीविशेषाणां यानि मन्दिराणि - गृहाः, तत्प्रभाभिः - तत्कान्तिभिः, कन्दलिताः - अङ्कुरिताः, बद्धमूला इत्यर्थः, अन्धकारा यस्मिंस्तादृशम्; पुनः पुनः आकारितमधुकरीविसरविसारिपाटलामोदं आकारितः - आहूतः, आकृष्ट इति यावत् मधुकरी विसरः - भ्रमरीगणो येन तादृशः, विसारी- विस्तृतः, पाटलायाः - कृष्णकृन्तायाः, "Aho Shrutgyanam" ८५

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202