Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 113
________________ तिलकमञ्जरी १०१ मेकरूपेणाभिधातुमशक्यमाकलय्य कृतानन्तरूपयेवातिगम्भीरया भारत्या स्मरयन्निव समवसरणदुन्दुभिध्वनेरिति कर्तुं स्तुतिं प्रस्तुतवान् "शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव, कमलखण्ड इव मारवेऽध्वनि भवभीमारण्य इह, वीक्षितोऽसि मुनिनाथ, कथमपि ॥ १ ॥ दृष्टे भवति नयनसृष्टया सममद्य जन्म जिन ! सफलमभून्मम । अकृतपुण्यमपि सुकृतिजनं प्रति, लघुमात्मानमवैमि न संप्रति ॥ २ ॥ [ज" इत्यादिभिरपराभिरप्यनेकप्रकाराभिरुदारपदवृत्तशालिनीभिरन्वर्थगुणप्रथनहृदयङ्गमाभिः संवेगविस्तारणपटीयसीभिः स्तुतिभिरावर्जितप्राज्यपुण्यभारः [झ] परिक्षीणघनकल्मषसंघातलघुमपि संभावितगौरवमवाप्तनिःशेषतीर्थाभिषेकमिव समग्रग्रहकृतानुग्रह मिव कराग्रलमसप्तलोकराज्यसंपदमिव पादतलाक्रान्तदुःखपरम्पराकूपारपारमिव पावनं च सुखिनं च सुकृतिनं च कृतकृत्यं चात्मानं मन्यमानः [अ], चिरावस्थान मपि समग्रमपि, गुणकलापं गुणराशिम् , एकरूपेण एकाकारेण, अभिधातुं वर्णयितुम् , अशक्यं शक्त्यसाध्यम् , आकलय्य अवगत्य, प्रासादभित्तिप्रतिनादच्छलेन प्रकृतायतनकुड्यप्रतिध्वनिव्याजेन, कृतानन्तरूपयेव धृतानन्ताकारयेवेत्युत्प्रेक्षा, अतिगम्भीरया परमोच्चया, भारत्या वाचा, समवसरणदुन्दभिध्वनेः तीर्थङ्करसम्बन्धिसभोत्सवभेरीनादस्य, स्मरयन्निव स्मृतिपथमवतारयन्निव, इति अनुपदवक्ष्यमाणप्रकारेण, स्तुतिं प्रकृतजिनेन्द्राभिनन्दनं, कर्तुं प्रस्तुतवान् प्रारब्धवान् । मुनिनाथ ! मुनिश्रेष्ठ ! शुष्कशिखरिणि शुष्कपर्वते, कल्पशाखीव कल्पवृक्ष इव, पुनः अधनग्रामे निर्धनग्रामे, निधिरिव धनकोष इव, पुनः मारवे मरुदेशसम्बन्धिनि, अध्वनि मार्गे, कमलखण्ड इव कमलवनमिव, इह अस्मिन् भवभीमारण्ये संसारात्मकभीषणवने, वीक्षितोऽसि दृष्टोऽसि ॥ जिन ! हे ऋषभजिन !, कथमपि केनापि प्रकारेण, आनुषङ्गिकतयापीत्यर्थः, भवति त्वयि, दृष्टे दृष्टिपथावतीर्णे सति, मम, नयनसृष्टया नयनरचनया, समं सह, जन्म, अद्य अस्मिन् दिने, सफलं सार्थकम् , अभूत् संपन्नम् , अकृतपुण्यमपि पुण्यरहितमपि, आत्मानं स्वम् , सुकृतिजनं प्रति पुण्यशालिजनापेक्षया, लघु न्यूनम् , अवैमि जानामि, जानन्नासमित्यर्थः, परन्तु सम्प्रति अधुना, त्वद्दर्शनसौभाग्यवेलायामित्यर्थः, न न जानामीत्यर्थः ॥ [ज] ____ इत्यादिभिः एतादृशीभिः, अपराभिरपि अन्याभिरपि, अनेकप्रकाराभिः बहुविधाभिः, उदारपदवृत्तशालिनीभिः उदारैः-प्रशंसनीयैः, बृहद्भिर्वा, पदैः-स्याद्यन्तत्याद्यन्तैः, वृत्तः-छन्दोभिश्च, शालन्ते-शोर अन्वर्थगुणग्रथनहृदयङ्गमाभिः अन्वर्थ-प्रत्यर्थ, गुणग्रथनेन-गुणानुबन्धेन हृदयङ्गमाभिः-मनोहराभिः, पुनः संवेगविस्तारणपटीयसीभिः संवेग:--वैराग्यं मोक्षाभिलाषो वा, तस्य विस्तारणे-वर्धने पटीयसीभिः-धुरीणाभिः, स्तुतिभिः गुणगाथाभिः, आवर्जितप्राज्यपुण्यसम्भारः आवर्जितः-उपार्जितः, प्राज्यस्य-प्रचुरस्य पुण्यस्य, सम्भारः-समूहो येन तादृशः सन् [झ परिक्षीणघनकल्मषसंघातलघमपि परिक्षीणेन-विध्वस्तेन, घनेन-निबिडेन, कल्मषसंघातेन-दुरितराशिना, लघुमपि गुरुत्वरहितमपि, सम्भावितगौरवं सम्भावितं सम्भावनाविषयीकृतं, गौरव-प्राशस्त्यं येन तादृशम् , आत्मानं खं, मन्यमानः जानन्नित्यप्रेणान्वेति, पुनः अवाप्तानिःशेषतीर्थाभिषेकमिव अवाप्तः-लब्धः, निःशेषेषु-समस्तषु, तीर्थेषु-पुण्यक्षेत्रेषु, अभिषेकः-स्नानसंस्कारो येन तादृशमिव, पुनः समग्रग्रहकृतानुग्रहमिव समप्रैः-सकलैः, ग्रहै:-राहुकेत्वादिभिः, कृतः, अनुग्रहः-कृपा यस्मिंस्तादृशमिव, पुनः करायलग्नसप्तलोकराज्यसम्पदमिव कराग्रे हस्ताग्रे, लग्ना-आश्लिष्टा, सप्तलोकानां-सप्तभुवनाना, राज्यसम्पत्-आधिपत्यसम्पत्तिर्यस्य तादृशमिव, पुनः पादतलाक्रान्तदुःखपरम्पराऽकृपारपारमिव-पादतलेन-पादाधस्तनभागेन, आक्रान्तः-अधिष्ठितः, दुःखपरम्पराऽकूपारस्य-दुःखसन्तानसागरस्य, पारः-सीमा येन तादृशमिव, च पुनः, पावनं पवित्रं, सुखिनं सानन्द, च पुनः, सुकृतिनं पुण्यवन्तम् ; च पुनः, कृतकृत्यं कृतकार्यम् , . आत्मानं मन्यमानः [अ] चिरावस्थानविस्मृतगतिकमामिव चिरावस्थानेन-दीर्घकालिकनिःस्यन्दतया, विस्मृतः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202