Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 111
________________ तिलकमञ्जरी मण्डलेनोद्भासिताम् , इन्दुमण्डलसितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्याम् , अशेषतश्च विविधविमानवाहनाधिरूद्वैरत्युदाराकृतिभिरप्सरोविराजितपार्वैर निमेषलोचनतया रूपालोकनपरैरिव कैश्चिदास्फालितदिव्यतूर्यैः कैश्चिदुत्सृष्टकुसुमवृष्टिभिः कैश्चिल्ललाटघटिताञ्जलिपुटैरम्बरतलवर्तिभिः कृत्रिमसुरसमूहैः परिकरिताम् [घ], आर्द्रगोशीर्षचन्दनाङ्गरागवाहिनीम् , आमोदितमन्दिरोदराभिर्मकरन्दलोभलग्नैरतिनिस्पन्दतया प्रसुप्तैरिव मूर्छितैरिव प्रथितैरिव मधुकरैः शारीकृताभिः पारिजातकुसुमस्रम्भिरभ्यर्चिताम् , अगाधभवजलधिसेतुबन्धस्य बन्धनिर्मुक्तात्मनो मुक्तिसुखैककारणस्य निष्कारणबन्धोः परमकारुणिकस्य शरणार्थिजन्तुसार्थसाध्वसमुषो निर्निमेषेण केवलज्ञानचक्षुषा साक्षात्कृतसकलभावस्य भुवनत्रयगुरोर्युगादिपार्थिवस्य प्रथमजिनपतेऋषभस्य निर्भूषणामप्यनन्तगुणभूषणाम् , अपहस्तितगभस्तिमालितेजसा विग्रहवतेव केवलालोकेन सर्वालेभ्यो विगलता प्रभापूरेण परितः परीतां, महाप्रमाणां, चिन्तामणिमयीं, प्रतिमामपश्यत् [6] । शोभायाः, लाभाय-प्रत्यागमनाय, सेवागतेन आराधनार्थमुपस्थितेन, भास्वतेव सूर्येणेव, अतिस्वराकृतिना अतिदीप्राकारेण, प्रभामण्डलेन विडम्बितदिनकरबिम्बलक्ष्मीके मौलिपृष्ठे वर्तमानेन प्रकृष्टेन कान्तिमण्डलेन, उद्धासिताम् उद्दीपिताम् । पुनः इन्दुमण्डलसितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्याम् इन्दुमण्डलसदृश्या-चन्द्रबिम्बसदृश्या, सितातपत्रत्रय्याधवलच्छनत्रयेन, प्रकाशितं-प्रत्यायितं, त्रिभुवनैश्वर्य-भुवनत्रयाधिपत्यं यया तादृशीम् । पुनः विविधविमानवाहनाधिरूढैः विविधं-नानाप्रकारकं, विमानं व्योमयानं, वाहनं-रथादियानम् , अधिरूढः-आरूढैः, अत्यदाराकृतिभिः अतिप्रधानाकारैः, अप्सरोविराजितपार्वैः स्वर्वेश्याधिष्ठितपार्श्वभागैः, पुनः अनिमेषलोचनतया निःस्पन्दनयनतया, रूपालोकनपरैरिव रूपदर्शनासक्तैरिवेत्युत्प्रेक्षा, कैश्चित् कतिपयैः, आस्फालितदिव्यतूर्यैः आस्फालितं-ताडितं, दिव्यं-खर्गीयम् उत्तमं वा, तूर्य-वाद्यविशेषो यैस्तादृशैः, पुनः कैश्चित कैरपि, उत्सष्टकसमवृधिभिः उत्सृष्टा-विक्षिप्ता, कुसुमवृष्टिः-पुष्पधारा यस्तादृशैः, पुनः कैश्चित् कतिपयैः, ललाटघटिताअलिपुटैः ललाटे घटितः-निवेशितः, अञ्जलिपुटः-पुटाकारसंश्लिष्टपाणियुगलं यस्तादृशैः, अम्बरतलवर्तिभिः गगनतलस्थितैः, कृत्रिमसुरसमूहैः निर्मितदेवगणैः, तत्प्रतिमाभिरित्यर्थः, परिकरितां परिवेष्टिताम् [घ ]; पुनः आर्द्रगोशीर्षचन्दनाङ्गरागवाहिनीम् आर्द्र-सरसं यद् गोशीर्षचन्दनं-हरिचन्दनं, तद्रूपाङ्गरागवाहिनीं-तद्रूपाङ्गलेपधारिणीम् । पुनः आमोदितमन्दिरोदराभिः आमोदितम्-अतिसुरभीकृतं, मन्दिरोदरं-प्रकृतायतना भ्यन्तरं याभिस्तादृशीभिः, पुनः मधुकरैः भ्रमरैः, शारीकृताभिः चित्रिताभिः, कीदृशैः ? मकरन्दलोभलग्नः पुष्परसलोभासक्तैः, पुनः अतिनिःस्पन्दतया अत्यन्तनिश्चलतया, प्रसुप्तैरिव अतिनिद्रितैरिव, पुनः मूछितैरिव संज्ञाशून्यैरिव, पुनः ग्रथितैरिव नियन्त्रितैरिवेति सर्वत्रोत्प्रेक्षा, पारिजातकुसुमस्रग्भिः पारिजाताख्यदेवकुसुममालाभिः, अभ्यर्चितां प्रपूजिताम् , अतितर्पितामित्यर्थः, कीदृशस्य कस्य प्रतिमाम् ? अगाधभवजलधिसेतुबन्धस्य अगाधस्य-अतलस्पर्शस्य, अतिगभीरस्येत्यर्थः, भवजलधेः-संसारसागरस्य, तदुत्तरणोपयोगिनः, सेतुबन्धस्य-सेतुबन्धखरूपस्य, पुनः बन्धनिर्मुक्तात्मनः कामादिवन्धनविमुक्तान्तःकरणस्य, पुनः मुक्तिसुखैककारणस्य मोक्षाख्यसुखैकहेतोः, पुनः निष्कारणबन्धोः निःखार्थहितैषिणः, परमकारुणिकस्य अत्यन्तदयालोः, पुनः शरणार्थिजन्तुसार्थसाध्वसमुषः शरणार्थिनः-रक्षकाभिलाषिणः, जन्तुसार्थस्य--प्राणिगणस्य, यत् साध्वसं-भयं, तन्मुषः-तदपहारिणः, पुनः निर्निमेषेण निश्चलेन, स्थायिने यर्थः, केवलज्ञानचक्षुषा इन्द्रियानपेक्षापरिच्छिन्नज्ञानरूपदृष्टया, साक्षात्कृतसकलभावस्य हस्तामलाकवदशेषविशेषपुरस्कारेणापरोक्षीकृताशेषपदार्थस्य, पुनः भुवनत्रयगुरोः खर्ग-मर्त्य-पातालाख्यलोकत्रयसम्यग्ज्ञानप्रदस्य, युगादिपार्थिवस्य युगारम्भिकपृथिव्यधिपतेः, प्रथमजिनपतेः आदिजिनेन्द्रस्य, ऋषभस्य ऋषभदेवस्य सम्बन्धिनीम् ; पुनः निर्भूषणामपि भूषणरहितामपि, भूषणाभावदशायामपीत्यर्थः, अनन्तगुणभूषणाम अपारगुणालङ्कताम् ; पुनः परितः सर्वतः, प्रभापूरेण द्युतिमण्डलेन, परीतां व्याप्ताम् , कीदृशेन? अपहस्तितगभस्तिमालितेजसा अपहस्तितम्-अपहृतं, गभस्तिमालिन -मरीचिमालिन;, सूर्यस्येत्यर्थः, तेजो येन तादृशेन, विग्रहवता मूर्तिमता, केवलालोकेनेव केवलज्ञानप्रकाशेनेव, सर्वाङ्गेभ्यः समस्तावयवेभ्यः, विगलता महाप्रमाणाम् अधिकप्रमाणाम् , चिन्तामणिमयीं चिन्तामणि म सर्वोत्तममणिस्तन्मयीम् [छ। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202