Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 109
________________ तिलकमञ्जरी मण्डलोत्पत्तिमृत्पिण्डमिव प्रजापतिकुलालस्य, मौलिमुकुटमिव मर्त्यलोकभूपालस्य, तपनीयबुध्नमिव तारकाकुसुमनभःकल्पद्रुमस्य, विद्रुमकलशमिव शेषाहिदण्डधरामण्डलोष्णवारणस्य, तत्क्षणोदितार्कबिम्बबहुलरागाभिः पद्मरागशिलासंहतिभिराहितनिर्माणं निर्मानुषममानुषलोकसुलभदर्शनं सुदर्शननामायतनं ददर्श [अ] । ___ तच्च तथाविधमपरत्र कुत्रचिददृष्टपूर्वमपूर्वाकारविशेषमशेषाश्चर्यपर्यन्तभूमिभूतमकाण्ड एवाविर्भूत मायतनमतनुविस्मयस्फारितपुटाभ्यामुत्पक्ष्मराजिभ्यां चित्रलिखिताभ्यामिव लोचनाभ्यां किमिदमिति सक्षोभाक्षमीक्षमाणः क्षणमात्रमुपरतापरकरणसंवेदनशक्तिरेकेन्द्रियत्वमिवापेदे [क]। ___ ततश्चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन पतत्तरङ्गितगङ्गास्रोतसेवाम्बरविवरेण वरीयसा मरकतमणिगोपुरेणोत्सर्पिचूडामणिमरीचिमांसलितमण्डपद्वारवन्दनमालाप्रवालसन्निवेशः प्रविश्याभ्यन्तरे दूरादेव टिप्पनकम्-वरीयसा उरुतरेण, गोपुरं-प्रतोलीद्वारम् , नागदन्ताः-घोटकाः, जयन्तिका-पट्टपाशकः [ख] । आलोक्यमानमिव दृश्यमानमिव; पुनः प्रजापतिकुलालस्य विधातृकुम्भकारस्य, प्रलयार्कमण्डलोत्पत्तिमृत्पिण्डमिव प्रलयार्कमण्डलस्य-प्रलयकालिकसूर्यमण्डलस्य, उत्पत्तये-सृष्ट्यर्थ, मृत्पिडं-मृत्तिकाराशिमिव; पुनः मर्त्यलोकभूपालस्य मर्त्यलोकरूपस्य भूपालस्य-नृपतेः, मौलिमुकुटमिव शिरोमुकुटमिव; पुनः तारकाकुसुमनभाकल्पद्रुमस्य तारका एव कुसुमानि-पुष्पाणि यस्य तादृशस्य, नभःकल्पद्रुमस्य-आकाशरूपकल्पवृक्षस्य, तपनीयबुध्नमिव सुवर्णमयमूलमिव; पुनः शेषाहिदण्डधरामण्डलोष्णवारणस्य शेषाहिः-शेषनागो दण्डो यस्य तादृशस्य, धरामण्डलोष्णवारणस्य-भूमण्डलातपत्रस्य, विद्रुमकलशमिव प्रवालमयकुम्भमिवेति सर्वत्रोत्प्रेक्षा; पुनः तत्क्षणोदितार्क बिम्बबहुलरागाभिः तत्क्षणं-तत्कालं, निर्माणकाल इत्यर्थः, उदितेन-उद्दीप्तेन, अर्कमण्डलेन-सूर्यमण्डलेन, बहुल:-प्रचुरः, रागः-रक्तवर्णो यासां तादृशीभिः, पद्मरागशिलासंहतिभिः पद्मरागाख्यरक्तमणिश्रेणीभिः, आहितनिर्माणं जनितनिर्माणम् ; पुनः निर्मानुषं मनुष्यशून्यम् । पुनः अमानुषलोकसुलभदर्शनम् अमानुषलोकैः-मनुष्यभिन्नजनैः, देवजनैरित्यर्थः, सुलभ-सुकरं दर्शनं यस्य तादृशम् ; पुनः सुदर्शननाम सुत्रु-मनोरमं, दर्शनं यस्य तादृशमित्यन्वर्थकनामकम् [अ]। च पुनः, अपरत्र अन्यत्र, कुत्रचित् कुत्रापि, अदृष्टपूर्व पूर्वमदृष्टम् , पुनः अपूर्वाकारविशेषम् अपूर्वःविजातीयः, आकारविशेषः-आकृतिसौन्दर्य यस्य तादृशम् , पुनः अशेषाश्चर्यपर्यन्तभूमिभूतम् अशेषाणां-समस्तानाम् , आश्चर्याणाम् , पर्यन्तभूमिः-अवधिभूमिः, तद्भूतं तद्रूपम् , पुनः अकाण्ड एव अनवसर एव, अकस्मादेवेत्यर्थः, आविर्भूतं प्रकटितम्, तत् प्रकृतम् , आयतनं मन्दिरम् , अतनुविस्मयस्फारितपुटाभ्याम् अतनुना-प्रचुरेण, विस्मयेन-आश्चर्येण, स्फारितौ-विस्तारितो, प्रसारिताविति यावत्, पुटौ-पुटाकारपक्ष्मणी ययोस्तादृशाभ्याम् , उत्पक्ष्मराजिभ्याम् उद्तनयनरोमपटिकाभ्याम् , पुनः चित्रलिखिताभ्यामिव चित्रस्थिताभ्यामिवेत्युत्प्रेक्षा, निःस्पन्दाभ्यामित्यर्थः,लोचनाभ्यां नयनाभ्याम्, इदम् आयतनं, किं कीदृशम्, इति इत्थं, सक्षोभाक्षं सक्षोभे-सम्भ्रान्ते, अक्षिणी-नेत्रे यस्मिस्तादृशं यथा स्यात् तथा, ईक्षमाणः पश्यन् , क्षणमात्रं क्षणमेकम् , उपरतापरकरणसंवेदनशक्तिः उपरता-निवृत्ता, अपरेषा-चक्षुरतिरिक्तानां, करणानाम्-इन्द्रियाणां, संवेदनशक्तिः-ज्ञानशक्तिर्यस्मिंस्तादृशः सन् , एकेन्द्रियत्वमिव एकम्-अद्वितीयम् , इन्द्रियं-चक्षुयेस्य तत्त्वमिव, आपेदे प्राप्तवान् [क]। ततः तदनन्तरं, चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन चन्द्रकान्तसोपानानां-चन्द्रकान्तमणिमयश्रेणिकानां, परम्परया-पतया, आक्रान्तः-व्याप्तः, तलभागः-अधोभागो यस्य तादृशेन, पुनः पतत्तरङ्गितगङ्गास्रोतसा पतत् स्यन्दमानं, तरङ्गितायाः-सजाततरङ्गायाः, गङ्गायाः, स्रोतः-प्रवाहो यस्मिंस्तादृशेन, अम्बरविवरेणेव आकाशरन्ध्रेणेव, वरीयसा अतिविपुलेन, मरकतमणिगोपुरेण इन्द्रनीलमणिमयप्रतोलीद्वारेण, उत्सर्पिचूडामणिमरीचिमांसलितमण्डपद्वारवन्दनमालाप्रवालसन्निवेशः उत्सर्पिभिः-उद्भासिभिः, चूडामणिमरीचिभिः-मुकुटमणि किरणः, मांसलितः-विपुलीकृतः, मण्डपद्वारवन्दनमालायाः-प्रकृतगृहविशेषद्वारार्चनमालासम्बन्धिनां, प्रवालानां-पल्लवानां, सन्निवेशः-पकिर्येन तादृशः सन् , अभ्यन्तरे प्रकृतायतनमध्यं, प्रविश्य प्रवेशं कृत्वा, प्रतिमां मूर्तिम् , अपश्यत् दृष्टवानित्यप्रेणान्वेति; कीदृशीम् ? दूरादेव दूरस्थानादेव १३ तिलक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202