Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 107
________________ तिलकमञ्जरी ९५ कलापिकेकारवैः [ ऐ], कचित् सितभुजङ्गशङ्किमयूरोपरुध्यमान बिम्बागतचलच्चीनांशुकपताकं, कचिद्धूतशुकमुच्यमानदाडिमबीजबुद्धिजग्धसूर्यकान्तवान्ताग्निकणिकं, क्वचित् प्रदीपलोलशलभलङ्घयमानोच्छिखपुष्परागं, कचिदामिषाशनश्येन हेलाक्रम्यमाणकृत्रिम विहङ्गं क्वचिन्मदनपरायत्तमत्तपा पतपरिक्षिप्यमाणनिजप्रतिबिम्बं क्वचिदम्बुधारोत्कचातकचुम्ब्यमानमौक्तिकलताप्रालम्बम [ अ ], वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनास मनोरमं जीवमिव चित्रकर्मखचितप्रदेशं, विदग्धकामिनीकेलिमन्दिरमिव मणिताराव - भासितोदरम् उत्तमपुरुषमिव विशालनेत्रहृत्कपाटं, चक्रवर्तिसैन्यमिवानेकरत्नशारी कृतमत्तवारणपरिकरं, पवनेन वायुना, , चलितैः-उद्धतैः, ऊर्ध्वध्वजपताकाञ्चलैः - उपरितनध्वजसम्बन्धिपटाग्रभागैः, विहिताह्नानमिव आहूतवदिव; पुनः तुङ्गस्तम्बैः उन्नतस्तम्बैः, प्रस्तुतप्रत्युत्थानमिव प्रस्तुतं प्रारब्धं प्रत्युत्थानं - स्वस्याभ्युत्थानं येन तादृशमिव; पुनः गवाक्षमुखनिलीनकलापिकेकारवैः गवाक्षमुखे - वातायनोर्श्वभागे, निलीनानां - तिरोभूतानां, कलापिनां - मयूराणां, केका रखैः-केकाख्यशब्दैः, आरब्धसम्भाषमिव प्रवर्तितालापमिव [ ऐ ]; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, सितभुजङ्गशङ्किमयूरोपरुध्यमानविम्बागतचलच्चीनांशुकपताकं सितभुजङ्गशङ्किभिः श्वेतसर्पसन्देहिभिः, मयूरैः, उपरुध्यमाना-निवार्य - माणो, बिम्बागता-प्रतिच्छायात्मनाऽऽपतिता, चलन्ती - उद्वेलन्ती, चीनांशुकपताका-चीनाख्यजनपदरचितसूक्ष्मश्लक्ष्णवस्त्ररूपा पताका-ध्वजाग्रवर्तिपटो यस्मिंस्तादृशम् पुनः क्वचित् कस्मिंश्चित् प्रदेशे, धूतचञ्चशुकमुच्यमानदाडिमबीजबुद्धिजग्धसूर्यकान्तवान्ताग्निकणिकं धूता- कम्पिता, चक्षुः - तुण्डं यैस्तादृशैः शुकैः, मुच्यमानानां विक्षिप्यमाणानां, दाडिमबीजानां, बुद्धया-भ्रान्त्या जग्धाः - भक्षिताः, सूर्यकान्तेन तदाख्यमणिना, वान्ताः- उद्गीर्णाः, अभिकणिका:- स्फुलिङ्गा यस्मिंस्तादृशम् ; पुनः क्वचित् कुत्रापि प्रदेशे, प्रदीपलोलशलभलङ्घयमानोच्छिखपुष्परागं प्रदीपलोलैः - प्रदीपान्तःपतनोत्कण्ठया तरलैः, शलभैः- पतत्रैः, लङ्घयमानः - प्रदीपभ्रान्त्या अतिक्रम्यमाणः, उच्छिखः - उत्- ऊर्ध्वं, शिखा - ज्वाला यस्य तादृशः, पुष्पपरागः-पद्मरागमणिर्यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् स्थाने, आमिषाशनश्येन हेलाक्रम्यमाणकृत्रिमविहङ्ग आमिषाशनैः-मांसाहारिभिः, श्येनैः - तदाख्यपक्षिविशेषैः, हेलया - कौतुकेन, आक्रम्यमाणाः - हठेन व्याप्यमानाः, कृत्रिमविहङ्गाःकृत्रिमाः-क्रियया निर्वृत्ताः, रचिता इत्यर्थः, पक्षिणः, पक्षिप्रतिकृतय इति यावत्, यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् स्थाने, मदनपरायत्तमत्तपारापतपरिक्षिप्यमाणनिजप्रतिबिम्बं मदनपरायत्तैः - कृत्रिम कपोतीविलोकन जन्यकामपरवशैः, मत्तपारापतैः-कामाकुलितकपोतैः, परिक्षिप्यमाणः - निकटोड्डीयमानतया सर्वतः समर्यमाणः, निजः - स्वकीयः, प्रतिबिम्बो यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, अम्बुधारोत्कचातकचुम्ब्यमानमौक्तिकलताप्रालम्बं अम्बुधारायै- जलधारायै, उत्कैः-उन्मनस्कैः, चातकैः -लोकविश्रुतैः पक्षिविशेषैः, चुम्ब्यमानं - चञ्चवा स्पृश्यमानं, मौक्तिकलताप्रालम्ब - मुक्तामणिश्रेणीरूपं शिरोमाल्यं यस्मिंस्तादृशम् [ओ ]; पुनः वैशम्पायनशापकथाप्रक्रममिव वैशम्पायनस्य - वैशम्पायननाम्नः शुकस्य यः शापस्तत्सम्बन्धिन्याः कथायाः प्रक्रमं प्रसङ्गमिव, दुर्वर्णशुकनासमनोरमं दुर्वर्ण-रजतं, तन्मयेन, शुकनासेन - सिंहस्थानेन, मनोरमं-मनोहरम्, पक्षे दुर्वर्णे- दुःखेन वर्णनीये, शुकनासमनोरमे - वैशम्पायन - जनकतद्भार्ये यत्र तादृशम् ; पुनः जीवमिव प्राणिनमित्र, चित्रकर्मखचितप्रदेशं चित्रकर्मभिः - चित्रणक्रियाभिः खचिताः - व्याप्ताः, प्रदेशाः - विभागा यस्य तादृशम्, पक्ष चित्रकर्मभिः- ज्ञानावरणीयादिकर्मभिः, खचिताः - व्याप्ताः, प्रदेशाः - आत्मप्रदेशा यस्य तादृशम् ; पुनः विदग्धकामिनीकेलिमन्दिरमिव विदग्धायाः - केलिकुशलायाः, कामिन्याः - विलासिन्याः, केलिमन्दिरं - क्रीडाभवनमिव, मणितारावभासितोदरं मणिताराभिः - मणिमयतारकाभिः, पक्षे मणितैः - नार्या रतिकालिकाव्यक्तशब्दात्मकैः, आरावैः शब्दैः, अवभासितं - उद्दीपितम्, उदरं - अभ्यन्तरं यस्य तादृशम् पुनः उत्तमपुरुषमिव पुरुषश्रेष्टमिव, विशालनेत्रहृत्कपाटं विशालं - विस्तृतं, नेत्रहृत्-नयनहारकं, नयनप्रियमित्यर्थः, कपाटं - द्वारपिधायकफलकं यस्य तादृशम्, पक्षे विशालं दीर्घं, नेत्रं - नयनं यस्य तादृशम् पुनः हृत्कपाटहृत् - वक्षःस्थलं, कपाटमिव यस्य तादृशं विशालनेत्रं च तत् हृत्कपाटं चेति खञ्जकुब्जादिवत् कर्मधारयसमासः; यद्वा विशालं नेत्रं हृत्कपाटं च-कपाटसदृशं वक्षःस्थलं च यस्येति बहुव्रीहिः; पुनः चक्रवर्तिसैन्यमिव चक्रवर्तिनः - अखण्डभूमण्डलेश्वरस्य, सैन्यं - सेनामिव, अनेकरत्नशारी कृतमत्तवारणपरिकरं अनेकैः, रत्नैः, शारीकृतानि - कर्बुरितानि चित्रितानि यानि, मत्तवारणानि-उपवेशनस्थानविशेषाः, तदात्मकः परिकरो यस्य तादृशम्, पक्षे अनेकैः - बहुविधैः, रत्नैः, शारीकृतः-चित्रीकृतः, मत्तवारणानां - मत्तहस्तिनां परिकरः- समूहो यस्मिंस्तादृशम्, यद्वा अनेकाभिः, रत्नशारीभिः - मणिमयगजपर्याणैः कृताः , "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202