Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । पतत्पक्कतरुफलप्लूत्कृतिकाणचारुणा चक्रवाकचञ्चुगलितार्धजग्धलामञ्जकजटालेन वञ्जुलनिकुञ्जपुञ्जयमानमञ्जकुक्कुटक्कणितेन दूरपातदलिततालोच्छलद्रसच्छटापिच्छिलेन कल्लोलास्फालनस्फुटितशुक्तिमुक्तमौक्तिकप्रकरतारकितहषदा निषादधनुःकोटिकृष्णकन्दस्थपुटितोदेशेन दृश्यमानार्धचर्वितकशेरुग्रन्थिकथितकोलयूथप्रस्थानेन [य], लग्नमृगनाभिपरिमलशिलातलानुमितगन्धमृगविश्रान्तिना लवलीलतामन्दिरोदरनिषण्णरतिखिन्नकिन्नरमिथुनेन विचित्रपत्ररथपदमुद्राङ्कितसिकतिलभूतलेन चलितपवनान्दोलितवनराजिविवरक्षरद्विरलरविरोचिषा प्राचा सरस्तीरेण पूर्ववत् कौबेरी दिशमुद्दिश्य प्रतस्थे [र]।
क्रमाच्च शृण्वन् पुरश्चरणपातरवचकितानां तटशिलातलजुषां जलमानुषद्वन्द्वानामुदकझम्पाझाङ्कतानि, वीक्षमाणः समीरणोल्लसितकल्लोलशिखरशीकरानुसरणव्याकुलानि चातककुलानि, विलोकयन् शकुल
टिप्पनकम्-लामञ्जकं-मृणालम् । कुक्कुटः-पक्षिविशेषः । पिच्छिलेन विजिविलेन । कसेरु:-कन्दविशेषः, कोल:सूकरः [य]।
रेणुपटलैः-परागपुजैः, पांशुलेन-निर्मलेन, जलपतत्पक्वतरुफलप्लत्कृतिक्काणचारुणा जले पततां-गलतां, पक्कानांपरिणतानां, तरुफलानां-वृक्षफलानां, प्लूत्कृतिरूपैः क्वाणैः-ध्वनिभिः, चारुणा-मनोहरेण, चक्रवाकचञ्चुगलितार्धजग्धलामञ्जकजटालेन चक्रवाकाणां-कोकाख्यपक्षिविशेषाणां,चश्वाः-तुण्डात् ,गलितैः-पतितैः,अर्धजग्धैः-अर्धभक्षितैः, लामञ्जकैःवीरणाख्यतृणमूलैः, जटालेन-व्याप्तेन, पुनः वञ्जलनिकुञ्जपुञ्जयमानमञ्जकुक्कटक्वणितेन वजलनिकुञ्जषु-वेतसलतावनेषु, पुज्यमानं-राशीक्रियमाणं, मञ्ज-श्रवणप्रियं, कुकुटानां-चरणायुधानां, क्वणितं-कूजितं यस्मिंस्तादृशेन, यद्वा तत्र पुज्यमानैः, मञ्जुभिः-मनोहरैः, कुक्कुटैः, क्वणितेन-शब्दायितेन, पुनः दूरपातदलिततालोच्छलद्रसच्छटापिच्छिलेन दूरपातात्दूरस्खलनात, दलितेभ्यः-विशीर्णेभ्यः, तालेभ्यः-तालवृक्षफलेभ्यः, उच्छलन्तीभिः-प्रस्रवन्तीभिः, रसच्छटाभिः-रसधाराभिः, पिच्छिलेन-आर्द्रण, पुनः कल्लोलास्फालनस्फुटितशुक्तिमुक्तमौक्तिकप्रकरतारकितहषदा कल्लोलैः-महातरङ्गैः, आस्फालनेन-आघातेन, स्फुटितायाः-विकसितायाः, विदीर्णाया इत्यर्थः, शुक्तः, मुक्तैः-निर्गतैः, मौक्तिकप्रकरैः-मुक्तामणिगणैः, तारकिता-सञ्जाततारका, दृषत्-शिला यस्मिंस्तादृशेन, पुनः निषादधनुःकोटिकृष्णकन्दस्थपुटितोद्देशेन निषादस्यचाण्डालस्य, या धनुःकोटि:-धनुरग्रं, तद्वत् कृष्णैः-श्यामवर्णैः, कन्दैः-सस्यमूलैः, स्थपुटितः-आच्छादितः, उद्देशः-प्रदेशो यस्य तादृशेन, पुनः दृश्यमानार्धचर्वितकशेरुग्रन्थिकथितकोलयूथप्रस्थानेन दृश्यमानाभिः- दृष्टिगोचरीक्रियमाणाभिः, कशेरुग्रन्थिभिः-जलाशयनिकटप्ररूढतृणविशेषपर्वभिः, कथितं-सूचितं, कोलयूथस्य-वराहराशेः, प्रस्थान-प्रयाणं यस्मिंस्तादृशेन [य], पुनः लग्नमृगनाभिपरिमलशिलातलानुमितगन्धमृगविश्रान्तिना लमः-सम्पृक्तः, मृगनाभिपरिमल:कस्तूरिकाविमर्दोद्भूतगन्धो यस्मिंस्तादृशेन, शिलातलेन-पाषाणपृष्ठेन, अनुमिता-अनुमानगोचरीकृता, गन्धमृगाणां-नाभिगन्धाढ्यमृगाणां, विधान्तिः-श्रमापनयनं यस्मिंस्तादृशेन, पुनः लवलीलतामन्दिरोदरनिषण्णरतिखिन्नकिन्नरमिथुनेन लवलीलतामन्दिरोदरे-लवल्याख्यलताविशेषगृहमध्ये, निषण्णं-स्थितं, विश्रान्तमिति यावत् , रतिखिन्नं-रतिश्रान्तं, किन्नरमिथुनंदेवविशेषद्वन्द्वं यस्मिंस्तादृशेन, पुनः विचित्रपत्ररथपदमदाङितसिकतिलभतलेन विचित्रा रथानां-पतन्तं त्रायन्त इति पत्रं-पक्षः, तदेव रथः-यानं येषां तादृशानां पक्षिणामित्यर्थः, यद्वा विचित्राभिः पदमुद्राभिःपादाकृतिभिः, अङ्कितं-चिह्नितं, सिकतिलं-वालुकामयं, भूतलं-भूमियस्मिंस्तादृशेन, पुनः चलितपवनान्दोलितवनराजिविवरक्षरद्विरलरविरोचिषा चलितेन पवनेन-वायुना, आन्दोलितायाः-प्रकम्पितायाः, वनराजेः- वनसमूहस्य, विवरात्रन्ध्रात् , क्षरत्-उद्गच्छत् , रविरोचिः-सूर्यप्रकाशो यस्मिंस्तादृशेन [र।
च पुनः, कमात् शनैः, उत्तरं उदीच्य, तीरं तटम् , अधिरूढः प्राप्तः सन् , पुरस्तात् अग्रे, आरामं कृत्रिमकाननम् , अद्राक्षीत् दृष्टवानित्यग्रेणान्वेति; किं कुर्वन् ? पुरश्चरणपातरवचकितानां पुरः-अग्रे, चरणपातस्य-पादविक्षेपस्य, रवेन-शब्देन, चकिताना-सम्भ्रान्तानां, तटशिलातलजुषां तीरस्थशिलोपरिवर्तिनां, जलमानुषद्वन्द्वानां जलीयमनुष्यद्वन्द्वा
झाङ्कतानि जलोत्पतनध्वनिविशेषान्, शण्वन् श्रवणगोचरीकुर्वन् । पुनः समीरणोल्लसितकल्लोल
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202