Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 93
________________ तिलकमञ्जरी मानं समन्ततो विजम्भितभीमप्रतिशब्दतया प्रत्युद्गम्यमानमिवारण्यचतुरङ्गहषासहरतिविस्तारितया कम्पयन्तमिव प्लावयन्तमिव तर्जयन्तमिव कान्तारमतिमहतोऽश्ववृन्दस्य श्रवणपरुषहेषाध्वनिमश्रौषीत् [न] । 'हन्त, कस्मादयमदृश्यमानमर्त्यसंचारे निरन्तरगिरिग्रावदुर्गमाध्वनि मृगाधिपप्रमुखप्रेवत्सत्त्वभीषणे महारण्येऽस्मिन्नकाण्ड एव दिङ्मण्डलाट्टहासानुकारी समुल्लसितो हेषारवः ?, किं तावदत्राभ्यर्णवर्ति किमपि नगरमास्ते ? किं वा कस्यचिद् दिग्विजयागतस्य नृपतेरावासितं सैन्यम् ? उत म्लेच्छराजपुत्रः कोऽपि मृगयाप्रसङ्गेनायातः ? आहोस्विदम्बरात् स्वयमेवावतीर्णः स्नातुं सप्तसप्तिः ?, अथ गन्धर्वसुरविद्याधराणामन्यतमः कतमोऽपि कमनीयोद्देशदर्शनकुतूहली विहरति ?' इति मुहूर्तमिव ध्यात्वा समुपजातजिज्ञासस्तस्माल्लतागृहाद् विनिःसृत्य सत्वरमध्यासिततटविटङ्कः समन्ततो विलोकयामास [प] । विप्रकृष्टतया तस्य प्रदेशस्य, प्रांशुतया सरोरोधसः, सान्द्रतया च द्रुमावलीनां यदा प्रयत्नप्रहितचक्षुरपि न किञ्चिदद्राक्षीत् तदाऽचिन्तयत्-'किमिदानीं सरःपर्यन्तेषु निःशेषतो विचरामि ?, अथवा किमनेन प्रस्तुतकार्यान्तरायकारिणा निरर्थकाध्यवसायेन, सततमचलप्रकृतिना हि पुरुषेण भवितव्यम् । संप्रति च विरतसंतापमुपशान्तशोष टिप्पनकम्-विटङ्कः-उच्चैः स्थानम् [प] । प्रतिशब्दः-प्रतिध्वनिर्यस्य तत्तया, अरण्यचतुरङ्गहेषासहस्त्रैः अरण्यसम्बन्धि यच्चतुरङ्ग-गजाश्वरथपादगामी सेनाविशेषः तत्सम्बन्धिहेषात्मकध्वनिसहः, प्रत्युद्गम्यमानमिव प्रत्युत्थाप्यमानमिव, पुनः अतिविस्तारितया अत्यन्तविस्तारेण, कान्तारम् अरण्य, कम्पयन्तमिव विलोलयन्तमिव; पुनः प्लावयन्तमिव उद्वेलयन्तमिव पुनः तर्जयन्तमिव भीषयन्तमिव [न] । हन्त इति खेदे, अदृश्यमानमर्त्यसञ्चारे अदृश्यमानः-अलक्ष्यमाणः, माना-मानवाना, सञ्चारः-प्रचारो यास्मिंस्तादृशे, निरन्तरगिरिग्रावदर्गमाध्वनि निरन्तरैः-अविच्छिन्नैः, गिरिग्रावभिः-पर्वतशिलाभिः, दुर्गमः-दुःखेन गन्तुं शक्यः, अध्चा-मार्गो यस्मिंस्तादृशे, मृगाधिपप्रमुखप्रेङ्कत्सत्त्वभीषणे मृगाधिपप्रमुखैः-सिंहप्रभृतिभिः, प्रेडद्भिः-प्रचरद्भिः, सत्त्वैः-प्राणिभिः, भीषणे-भयानके, अस्मिन् प्रत्यक्षे. महारण्ये महावने, अकाण्ड एव अनवसर एव, दिङमण्डलाहासानुकारी दिङ्मण्डलसम्बन्धिबृहद्धासानुकारी, अयं श्रूयमाणः, हेषारवः अश्वध्वनिः, कस्मात् समुल्लसितः समुद्भुतः। तावदिति वाक्यालङ्कारे, अत्र अस्मिन् अरण्ये, अभ्यर्णवर्ति निकटवर्ति, किमपि अपरिचितं नगरम् , आस्ते वर्तते, किम् ?, किं वा आहोखित् , दिग्विजयागतस्य दिग्विजयात्-दिशां विजयं कृत्वा, आगतस्य-परावृत्तस्य, यद्वा दिग्विजयार्थमागतस्य कस्यचित् , नृपतेः राज्ञः, आवासितं स्थापित, सैन्यं सेना, उत किंवा?, मृगयाप्रसङ्गेन आखेटकप्रसङ्गेन, आयात आगतः, कोऽपि, म्लेच्छराजपुत्रः निषादाधिपकुमारः, आहोखित् अथवा, स्नातुं स्नानार्थम् , अम्बरात् आकाशात् , स्वयं आत्मना, अवतीर्णः अधस्तादागतः, सप्तसप्तिः सूर्यः, अथ अथवा, गन्धर्वसुरविद्याधराणामन्यतमः गन्धर्वःगायकदेवजातिविशेषः, सुरः-देवः, विद्याधरः-गगनगमनादिविद्याकलितो जनविशेषः, तदन्यान्यः, कतमोऽपि तदवान्तरजातीयः, कोऽपि, कमनीयोदेशदर्शनकुतूहली रमणीयप्रदेशावलोकनाभिलाषी सन् , विहरति भ्रमति, इति इत्थं, मुहूर्तमिव क्षणमिव, ध्यात्वा विचिन्त्य, समुपजातजिज्ञासः समुत्पन्नहेषारवनिर्णयेच्छः, तदन्वेषणेच्छुरिति यावत् , तस्मात् प्रकृतात्, लतागृहात् माधवीलतामन्दिरात् , विनिःसृत्य निर्गत्य, सत्वरं शीघ्रम् , अध्यासिततटविटङ्कः अध्यासितः-अधिष्ठितः, तटविटङ्कः-तटस्योच्चस्थानं येन तादृशः, समन्ततः सर्वतः, विलोकयामास ददर्श [प] । तस्य हेषारवोद्गमास्पदस्य, प्रदेशस्य स्थानस्य, विप्रकृष्टतया दूरतया, पुनः सरोरोधसः निरुक्तसरोवरतटस्य, प्रांशुतया औन्नत्येन, च पुनः, द्रुमावलीनां वृक्षपतीनां, सान्द्रतया निरन्तरतया, यदा यस्मिन् काले, प्रयत्नप्रहितचक्षुरपि प्रयत्नेन-प्रयासेन, प्रहिते-व्यापारिते, चक्षुषी-नेत्रे येन तादृशोऽपि, किञ्चित् किमपि, न अद्राक्षीत् दृष्टवान् , तदा तस्मिन् काले, अचिन्तयत् आलोचयत् , किमित्याह-इदानीं अधुना, सरःपर्यन्तेषु सरोवरप्रान्तेषु, निःशेषतः समग्रेषु, विचरामि भ्रमामि, किम् ?, अथवा प्रस्तुतकार्यान्तरायकारिणा उपक्रान्तकार्यविनकारिणा, अनेन चिन्तितेन, निरर्थकाध्यवसायेन व्यर्थप्रयत्नेन, किम् ? न किमपि फलमित्यर्थः, हि यतः, पुरुषेण लोकेन, सततं निरन्तरम् , अचलप्रकृतिना स्थिरस्वभावेन, भवितव्यं भवितुमु ११ तिलक० "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202