________________
तिलकमञ्जरी
मानं समन्ततो विजम्भितभीमप्रतिशब्दतया प्रत्युद्गम्यमानमिवारण्यचतुरङ्गहषासहरतिविस्तारितया कम्पयन्तमिव प्लावयन्तमिव तर्जयन्तमिव कान्तारमतिमहतोऽश्ववृन्दस्य श्रवणपरुषहेषाध्वनिमश्रौषीत् [न] ।
'हन्त, कस्मादयमदृश्यमानमर्त्यसंचारे निरन्तरगिरिग्रावदुर्गमाध्वनि मृगाधिपप्रमुखप्रेवत्सत्त्वभीषणे महारण्येऽस्मिन्नकाण्ड एव दिङ्मण्डलाट्टहासानुकारी समुल्लसितो हेषारवः ?, किं तावदत्राभ्यर्णवर्ति किमपि नगरमास्ते ? किं वा कस्यचिद् दिग्विजयागतस्य नृपतेरावासितं सैन्यम् ? उत म्लेच्छराजपुत्रः कोऽपि मृगयाप्रसङ्गेनायातः ? आहोस्विदम्बरात् स्वयमेवावतीर्णः स्नातुं सप्तसप्तिः ?, अथ गन्धर्वसुरविद्याधराणामन्यतमः कतमोऽपि कमनीयोद्देशदर्शनकुतूहली विहरति ?' इति मुहूर्तमिव ध्यात्वा समुपजातजिज्ञासस्तस्माल्लतागृहाद् विनिःसृत्य सत्वरमध्यासिततटविटङ्कः समन्ततो विलोकयामास [प] । विप्रकृष्टतया तस्य प्रदेशस्य, प्रांशुतया सरोरोधसः, सान्द्रतया च द्रुमावलीनां यदा प्रयत्नप्रहितचक्षुरपि न किञ्चिदद्राक्षीत् तदाऽचिन्तयत्-'किमिदानीं सरःपर्यन्तेषु निःशेषतो विचरामि ?, अथवा किमनेन प्रस्तुतकार्यान्तरायकारिणा निरर्थकाध्यवसायेन, सततमचलप्रकृतिना हि पुरुषेण भवितव्यम् । संप्रति च विरतसंतापमुपशान्तशोष
टिप्पनकम्-विटङ्कः-उच्चैः स्थानम् [प] । प्रतिशब्दः-प्रतिध्वनिर्यस्य तत्तया, अरण्यचतुरङ्गहेषासहस्त्रैः अरण्यसम्बन्धि यच्चतुरङ्ग-गजाश्वरथपादगामी सेनाविशेषः तत्सम्बन्धिहेषात्मकध्वनिसहः, प्रत्युद्गम्यमानमिव प्रत्युत्थाप्यमानमिव, पुनः अतिविस्तारितया अत्यन्तविस्तारेण, कान्तारम् अरण्य, कम्पयन्तमिव विलोलयन्तमिव; पुनः प्लावयन्तमिव उद्वेलयन्तमिव पुनः तर्जयन्तमिव भीषयन्तमिव [न] । हन्त इति खेदे, अदृश्यमानमर्त्यसञ्चारे अदृश्यमानः-अलक्ष्यमाणः, माना-मानवाना, सञ्चारः-प्रचारो यास्मिंस्तादृशे, निरन्तरगिरिग्रावदर्गमाध्वनि निरन्तरैः-अविच्छिन्नैः, गिरिग्रावभिः-पर्वतशिलाभिः, दुर्गमः-दुःखेन गन्तुं शक्यः, अध्चा-मार्गो यस्मिंस्तादृशे, मृगाधिपप्रमुखप्रेङ्कत्सत्त्वभीषणे मृगाधिपप्रमुखैः-सिंहप्रभृतिभिः, प्रेडद्भिः-प्रचरद्भिः, सत्त्वैः-प्राणिभिः, भीषणे-भयानके, अस्मिन् प्रत्यक्षे. महारण्ये महावने, अकाण्ड एव अनवसर एव, दिङमण्डलाहासानुकारी दिङ्मण्डलसम्बन्धिबृहद्धासानुकारी, अयं श्रूयमाणः, हेषारवः अश्वध्वनिः, कस्मात् समुल्लसितः समुद्भुतः। तावदिति वाक्यालङ्कारे, अत्र अस्मिन् अरण्ये, अभ्यर्णवर्ति निकटवर्ति, किमपि अपरिचितं नगरम् , आस्ते वर्तते, किम् ?, किं वा आहोखित् , दिग्विजयागतस्य दिग्विजयात्-दिशां विजयं कृत्वा, आगतस्य-परावृत्तस्य, यद्वा दिग्विजयार्थमागतस्य कस्यचित् , नृपतेः राज्ञः, आवासितं स्थापित, सैन्यं सेना, उत किंवा?, मृगयाप्रसङ्गेन आखेटकप्रसङ्गेन, आयात आगतः, कोऽपि, म्लेच्छराजपुत्रः निषादाधिपकुमारः, आहोखित् अथवा, स्नातुं स्नानार्थम् , अम्बरात् आकाशात् , स्वयं आत्मना, अवतीर्णः अधस्तादागतः, सप्तसप्तिः सूर्यः, अथ अथवा, गन्धर्वसुरविद्याधराणामन्यतमः गन्धर्वःगायकदेवजातिविशेषः, सुरः-देवः, विद्याधरः-गगनगमनादिविद्याकलितो जनविशेषः, तदन्यान्यः, कतमोऽपि तदवान्तरजातीयः, कोऽपि, कमनीयोदेशदर्शनकुतूहली रमणीयप्रदेशावलोकनाभिलाषी सन् , विहरति भ्रमति, इति इत्थं, मुहूर्तमिव क्षणमिव, ध्यात्वा विचिन्त्य, समुपजातजिज्ञासः समुत्पन्नहेषारवनिर्णयेच्छः, तदन्वेषणेच्छुरिति यावत् , तस्मात् प्रकृतात्, लतागृहात् माधवीलतामन्दिरात् , विनिःसृत्य निर्गत्य, सत्वरं शीघ्रम् , अध्यासिततटविटङ्कः अध्यासितः-अधिष्ठितः, तटविटङ्कः-तटस्योच्चस्थानं येन तादृशः, समन्ततः सर्वतः, विलोकयामास ददर्श [प] । तस्य हेषारवोद्गमास्पदस्य, प्रदेशस्य स्थानस्य, विप्रकृष्टतया दूरतया, पुनः सरोरोधसः निरुक्तसरोवरतटस्य, प्रांशुतया औन्नत्येन, च पुनः, द्रुमावलीनां वृक्षपतीनां, सान्द्रतया निरन्तरतया, यदा यस्मिन् काले, प्रयत्नप्रहितचक्षुरपि प्रयत्नेन-प्रयासेन, प्रहिते-व्यापारिते, चक्षुषी-नेत्रे येन तादृशोऽपि, किञ्चित् किमपि, न अद्राक्षीत् दृष्टवान् , तदा तस्मिन् काले, अचिन्तयत् आलोचयत् , किमित्याह-इदानीं अधुना, सरःपर्यन्तेषु सरोवरप्रान्तेषु, निःशेषतः समग्रेषु, विचरामि भ्रमामि, किम् ?, अथवा प्रस्तुतकार्यान्तरायकारिणा उपक्रान्तकार्यविनकारिणा, अनेन चिन्तितेन, निरर्थकाध्यवसायेन व्यर्थप्रयत्नेन, किम् ? न किमपि फलमित्यर्थः, हि यतः, पुरुषेण लोकेन, सततं निरन्तरम् , अचलप्रकृतिना स्थिरस्वभावेन, भवितव्यं भवितुमु
११ तिलक०
"Aho Shrutgyanam"