________________
८२
टिप्पनक-परागविवृतिसंवलिता। मुत्तीर्णश्रममुल्लसितसविशेषोत्साहमध्वक्षमं वर्तते वपुः, तरुणदूर्वाप्रतानसुकुमारसमतलाश्च मार्गभूमयः, प्रावृषेण्यजलदश्यामलानि च पुरस्ताद् विभाव्यन्ते पादपवनानि, प्रसन्नदिङ्मुखो मन्दपवनश्वानन्दशंसी चाद्यतनो वासरः, सरःपरपारदर्शनौत्सुक्यपरवशं च मानसम् , न चाद्यापि तिलकयति मध्यभागमम्बरश्रियो वासरमणिः, अनारूढप्रौढयश्च नातिगाढमुद्वैजयन्ति धर्मोर्मयः [फ] । तद् गच्छामि तावत् कियन्तमप्यध्वानम् , पश्चात् कठोरतामुपेयुषि वासरे कस्मिंश्चित् प्रच्छायपादपे सरसि वा शैलप्रस्रवणे वा गिरिनदीस्रोतसि वा तापसाश्रमपदे वा विश्रम्य विस्रब्धनिर्वर्तितदेवतार्चनविधिर्विदग्धकविप्रबन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुर्दिवसमवलोक्य स्तोकमग्रतः प्रस्थास्ये स्थास्यामि वा' [ब] ।
इति कृतगमननिश्चयः प्रविश्य भूयो लतावेश्मनि निबिडीकृतपरिधानो दृढावनद्धस्नानविरलकेश
टिप्पनकम्-विदग्धकविप्रबन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुः एकत्र परिणतिमाधुर्ययुक्तैः, अन्यत्र परिपक्वमधुरैः, विविधशृङ्गारादिरसंशोभिभिः, अन्यत्र नानामधुराम्लादिरसयुक्तैः [व] ।
चितम् । सम्प्रति अधुना, वपुः शरीरम् , अध्वक्षम मार्गगमनश्रमसहं, वर्तते अस्ति, कीदृशम् ? विरतसन्तापं निरुक्तसरोवरमजनेन निवृत्तसन्तापम् , पुनः उपशान्तशोषं उपशान्तः-निवृत्तः, शोषः-दौर्बल्यं यस्मिस्तादृशम् , पुनः उत्तीर्णश्रमम् उत्तीर्णः-अपनीतः, श्रमः-मार्गोल्लङ्घनजन्यखेदो यस्य येन वा तादृशम् , पुनः उल्लसितसविशेषोत्साहम् उल्लसितः-उद्भुतः, सविशेषः-अत्यन्तः, उत्साहो यस्मिंस्तादृशम् ।च पुनः, तरुणदूर्वाप्रतानसुकुमारसमतला तरुणानां-परिणताना, दूर्वाणांशतपत्रिकाख्यतृणविशेषाणां, प्रतानेन-विस्तारेण, सुकुमार-कोमलं, समतलं-निम्नोन्नतभावरहितस्थलं यासु तादृश्यः, मागेभमय: मार्गक्षेत्राणि, वर्तन्त इति शेषः । च पुनः, पुरस्तात् अग्रे, प्रावृषेण्यजलदश्यामलानि प्रावृषेण्याः-प्रावृषि वर्षाकाले भवाः, ये जलदाः- मेघाः, तद्वत् श्यामलानि-कृष्णवर्णानि, पादपवनानि-वृक्षपतयः, विभाव्यन्ते लक्ष्यन्ते । च पुनः, अद्यतनः अद्यभवः, अयमित्यर्थः, वासरः दिवसः, प्रसन्नदिङ्मुखः प्रसन्नानि-विमलानि, दिङ्मुखानि-दिगग्राणि यस्मिस्तादृशः, पुनः मन्दपवनः मन्दः-धीरः, पवनः-वायुर्यस्मिन् तादृशः, च पुनः, आनन्दशंसी आनन्दसूचकः, वर्तत इति शेषः । च पुनः, मानसं हृदयं, सरःपरपारदर्शनौत्सुक्यपरवशं सरसः -प्रकृतसरोवरस्य, यः परः-अन्तिमः, पार:-अवधिः, तद्दर्शनौत्सुक्यस्य-तद्दर्शनोत्कण्ठायाः, परवशं-पराधीनं, वर्तत इति शेषः । च पुनः, वासरमणिः सूर्यः, अद्यापि अधुनापि, अम्बरश्रियः आकाशलक्ष्म्याः , मध्यभागं मध्यप्रदेश, न तिलकयति स्वबिम्बात्मकेन तिलकेनोद्भासयति, नोदेतीत्यर्थः । च पुनः, अनारूढप्रौढयः अनारूढाः-अनुत्पन्नाः, प्रौढ़यः-उत्कर्षाः, असह्यता इत्यर्थः, यासां ता धर्मोमयः,-खेदधाराः, अतिगाढं अत्यधिकं, न उद्धेजयन्ति दुःखाकुर्वन्ति [फ] । तत् तस्माद्धेतोः, तावदिति वाक्यालङ्कारे, कियन्तमपि अल्पमपि, अध्वानं मार्ग, गच्छामि लङ्घयामि । पश्चात् कियत्कालानन्तरं, वासरे दिवसे, कठोरतां आतपतीव्रताम् , उपेयुषि प्राप्तवति सति, कस्मिंश्चित्, प्रच्छायपादपे प्रच्छाये-प्रकृष्टा छाया-अनातपो यस्य तादृशे, पादपे-वृक्षे, तस्याधस्तादित्यर्थः, वा अथवा, सरसि कासारे, वा अथवा, शैलप्रस्रवणे पर्वतनिझरे, वा अथवा, गिरिनदीस्रोतसि पर्वतीयनदीप्रवाहे, वा अथवा, तापसाश्रमपदे तपखिनामाश्रमस्थाने, विश्रम्य श्रममपनीय, विस्रब्धनिर्वर्तितदेवतार्चनविधिः विस्रब्धं-विश्वस्त यथा स्यात् तथा, निर्वर्तितः-सम्पादितः, देवतार्चनरूपः-देवपूजनरूपः, विधिः-कार्य येन तादृशः सन् , विदग्धकविप्रबन्धैरिव विदग्धानां-कुशलानां, कवीनां, प्रबन्धैः-काव्यैरिव, परिपाकमधुरैः परिपाके-परिपक्वतायां, मधुरैः, पक्षे परिपाके-रसास्वाददशायां, मधुरैः-मनोहरैः, विविधरसशालिभिः मधुराम्लाद्यनेकरसशोभिभिः, पक्षे शृङ्गारादिनानारसाभिव्यञ्जकैः, तरुफलैः वृक्षफलैः, आप्यायितवपुः आप्यायितं-परितोषितं, वपुः-शरीरं येन तादृशः, दिवसं दिनशेषम् , अवलोक्य दृष्ट्वा, अग्रतः अग्रे, स्तोकं किञ्चित् , प्रस्थास्ये प्रयास्यामि, वा अथवा, स्थास्यामि तदवसाने प्रस्थानादुपरस्यामि, [ब]। इति इत्थं, कृतगमननिश्चयः कृतप्रयाणावधारणः सन् , भूयः पुनः, लतावेश्मनि माधवीलतामन्दिरे, प्रविश्य निलीय, निबिडीकृतपरिधानः निबिडीकृत-सान्द्रीकृतं, दृढीकृतमित्यर्थः, परिधानम्-अन्तरीयवस्त्रं येन तादृशः; पुनः दृढावनद्धस्नान
"Aho Shrutgyanam"