________________
८३
तिलकमञ्जरी कलापः प्रावृतोत्तरीयांशुकः कठोरपङ्केरुहानुकारिणा करेण किरणावलीजटालधारं मण्डलाग्रमादाय विकटपदपातकम्पितभूगोलया गत्या विडम्बयन्निव स्थूलोच्चयेन प्रस्थितं गजकलभम् [भ], अनवरतकर्णतालास्फालितकपोलभित्तिभिः सरभसमाहन्यमानप्रस्थानमङ्गलतूर्य इव वनकरिभिः, अनिलचलितशाखाग्रगलितसितकलिकैः शिरसि विक्षिप्यमाणाक्षतकण इव वनस्पतिभिः, अङ्गसङ्गसंवेल्लितलताखण्डोड्डीनैराबद्धमण्डलं ध्वनद्भिरारभ्यमाणब्रह्मघोष इव मधुकरैः, मानुषदर्शननिसर्गकातरैस्त्वरितपदमग्रतः पलायमानैरुपदिश्यमानमार्ग इव मल्लिकार्तः, तत्क्षणनिपीतार्णोभिरुत्तीर्णैः सरोवराद् विरलतृणस्तम्बकवलनार्थमनुवेलमवनमितमूर्धभिः पदे पदे सप्रदक्षिणं प्रणम्यमान इव प्राङ्मुखप्रस्थितैर्वनहरिणैः [म], प्रतिक्षणं च स्फुरता दक्षिणेन चक्षुषा भुज शिखरेण च द्विगुणीक्रियमाणगमनोत्साहः कणदशङ्कजलरङ्कुसंकुलेन केतकीकुसुमरेणुपटलपांशुलेन जल
टिप्पनकम्-स्थूलोच्चयेन मध्यमगत्या [भ] । मल्लिकाक्षाः-हंसाः । अर्णः-जलम् [म] ।
विरलकेशकलापः दृढं यथा स्यात् तथा, अवनद्धः-नियन्त्रितः, स्नानेन विरल:-विकीर्णः, केशकलापः-केशपुञ्जो येन तादृशः; पुनःप्रावृतोत्तरीयांशुकः प्रावृतम्-आच्छादितम् , उत्तरीयम् , अंशुकं-सूक्ष्मश्लक्ष्णवस्त्रं येन तादृशः; कठोरपङ्केरुहानुकारिणा कठोरं-कठिनं, यत् पङ्केरुह-कमलं, तस्य, अनुकारिणा-सदृशेन, करेण हस्तेन, किरणावलीजटालधारं किरणावल्यारश्मिजालेन, जटाला-व्याप्ता, धारा-अग्रभागो यस्य तादृशं, मण्डलाग्रं खड्गम् , आदाय गृहीत्वा, विकटपदपातकम्पितभूगोलया विकटेन-भीषणेन, पदपातेन-पादविक्षेपेण, कम्पितं-दोलितं, भूगोलं-भूमण्डलं यस्यां तादृश्या गल्या, स्थूलोच्चयेन गजमध्यमगत्या गण्डशैलेन वा, प्रस्थितं प्रयात, गजकलभं हस्तिशावकं, विडम्बयन्निव अनुकुर्वन्निव [भ] पुनः अनवरतकर्णतालास्फालितकपोलभित्तिभिः अनवरतं-निरन्तरं, कर्णतालैः-तालपत्राकृतिकर्णैः, आस्फालिताः-आहताः, कपोलभित्तयः-गण्डस्थलरूपा भित्तयो यैस्तादृशैः, वनकरिभिः वनहस्तिभिः, सरभसं सवेगं यथा स्यात् तथा, आहन्यमानप्रस्थानमङ्गलतूर्य इव आहन्यमानः-ताड्यमानः, प्रस्थानमङ्गलतूर्यः-प्रयाणकालिकमङ्गलजनकवाद्यविशेषो यस्य तादृश इव; पुनः अनिलचलितशाखाग्रगलितसितकलिकैः अनिल चलितायाः-पवनकम्पितायाः, शाखायाः, अग्रात्-शिखायाः; गलिताः-पतिताः, सितकलिकाः-श्वेतकुडालानि येषां तादृशैः, वनस्पतिभिः वृक्षः, शिरसि मस्तके, विक्षिप्यमाणाक्षतकण इव विक्षिप्यमाणाः-विकीर्यमाणाः, अक्षतकणाः-आर्द्रतण्डुलकणा यस्य तादृश इव; पुनः अङ्गसङ्गसंवेल्लितलताखण्डोडीनैः अङ्गसङ्गेन-शरीरावयवाश्लेषेण, संवेल्लितानां-कम्पितानां, लतानां, खण्डात्-वनात् , उड्डीनैः-उत्पतितः, पुनः आबद्धमण्डलं मण्डलीभवनपूर्वकं, बद्धपतिकमिति यावत् , यथा स्यात् तथा, ध्वनद्भिः गुञ्जद्भिः, मधुकरैः भ्रमरैः, आरभ्यमाणब्रह्मघोष इव आरभ्यमाण:-प्रवर्त्यमानः, ब्रह्मघोषः-ब्राह्मणकर्तृकाशीर्वाक्योच्चारणं यस्मै तादृश इव; पुनः
नुषदर्शननिसर्गकातरैः मानुषदर्शनात्-मनुष्यावलोकनात् , निसर्गतः-स्वभावतः, कातरः-भीरुभिः, पुनः त्वरितपदं त्वरितं-क्षिप्रं, पदं-चरणं यस्मिंस्तादृशं यथा स्यात् तथा, अग्रतः पुरतः, पलायमानः धावमानैः, मल्लिकाः मल्लिकावच्छुक्लम् , अक्षि-नेत्रं येषां तादृशैः, हंसविशेषैः, उपदिश्यमानमार्ग इव उपदिश्यमानः-विज्ञाप्यमानो मार्गों यस्य तादृश इव; पुनः तत्क्षणनिपीताोभिः तत्क्षणं-तत्कालं, निपीतं-नितरां पानकर्मीकृतम् , अर्णः-जलं यैस्तादृशैः, पुनः सरोवरात
i श्रेष्ठात् , अदृष्टपाराख्यात् , उत्तीर्णैः ऊर्ध्वमागतैः, पुनः विरलतृणस्तम्बकवलनार्थ विरलानाम्-असान्द्राणां, तृणस्तम्बानां-तृणकाण्डानां, कवलनार्थ- चर्वणार्थम् , अवनमितमूर्धभिः नम्रीकृतमस्तकैः, प्राङ्मुखप्रस्थितैः पूर्वमुखप्रयातैः, वनहरिणैः वन्यमृगैः, पदे पदे स्थाने स्थाने, सप्रदक्षिणं प्रदक्षिणक्रमेण, प्रणम्यमान इव अभिवाद्यमान इवेति सर्वत्रोत्प्रेक्षा [म]।
च पुनः, प्रतिक्षणं क्षणे क्षणे, स्फुरता सञ्चलता, दक्षिणेन चक्षुषा नेत्रेण, च पुनः भुजशिखरेण भुजोर्ध्वभागेन, द्विगुणीक्रियमाणगमनोत्साहः द्विगुणीक्रियमाण:-द्वैगुण्यमापाद्यमानः, गमनोत्साहः-प्रयाणोत्साहो यस्य तादृशः, पूर्ववत् प्रागिव, कौबेरी कुबेरस्वामिकाम् , उत्तरामित्यर्थः, दिशम् , उद्दिश्य लक्ष्यीकृत्य, प्रतस्थे प्रययौ इत्यग्रेणान्वेति, केन पथा ? प्राचा पूर्वेण, सरस्तीरेण प्रकृतसरोवरतटेन, कीदृशेन? कणदशङ्कजलरङ्कुशङ्कलेन कणदशकैः-अन्नकणदातृशङ्किभिः, जलरङ्कुभिः-जलीयमृगविशेषैः, संकुलेन-व्याप्तेन, केतकीकुसुमरेणुपटलपांशुलेन केतकीकुसुमानां-केतकीपुष्पाणां,
"Aho Shrutgyanam"