________________
८०
टिप्पनक-परागविवृतिसंवलिता। संतानमधुकरसहस्रोपसेवितमुत्फुल्लवल्लीनिकरपरिकरितया किश्चिदासन्नवर्तिन्या परिम्लानसकलावयवयाऽपि प्रतिकालोन्मीलदधिकाधिकसौकुमार्यामङ्गलक्ष्मीमुद्वहन्त्याऽभिनवकल्पलतया समीहिताश्लेषमीषत्प्रौढिमायातं पारिजातद्रुममद्राक्षीत् [ध] ।
दर्शनानुपदमेव च प्रबुद्धः प्रवृद्धविभवेन सख्या सह समागमप्राप्तिमचिरभाविनीं निरचैषीत् ।
विशेषावगतये च स्वप्नस्य कृतयत्नः सहसैवोच्चरन्तमतितारम् 'उत्क्षिप्तगुरुकार्यभारस्य भवतः किमियं प्रमादशक्तिः' इति तर्जयन्तमिव, 'धीरप्रकृते ! सरोदर्शनमात्रेणापि विस्मितोऽसि' इत्युपहसन्तमिव, 'तूर्णमेहि, दर्शयामि रम्यप्रदेशपरम्पराम्' इत्याह्वयन्तमिव, तत्क्षणत्यक्तपङ्कावगाहकेलिभिरुत्कटभटितकर्णैः कर्णपल्लवैरुल्लसितरोमाञ्चभीषणाकृतिभिरुन्नमितघोणैराघर्घरध्वनिगर्भगलगह्वरैर्वराहयूथपतिभिः ससंभ्रममाकर्ण्य
नयनयुगलं-नेत्रद्वयं यस्य तादृशः, स्वप्ने शयनावस्थायां, पारिजातद्रुमं पारिजातवृक्षम् , अद्राक्षीत् दृष्टवान् । कीदृशम् ? रसातलात् पातालात्, तत्कालमेव तत्क्षणमेव, उद्गतं ऊर्वमागतम् , पुनः अनेकपुष्पस्तबकसंबाधविटपच्छन्नम् अनेकैः-बहुभिः, पुष्पस्तबकैः-पुष्पगुच्छैः, संबाधाः-संकुलाः, ये विटपाः- शाखाः, तैः छन्नम्-आवृतम् , पुनः अच्छिन्नसन्तानमधुकरसहस्रोपसेवितं अच्छिन्नः-अविश्रान्तः, सन्तानः-परम्परा येषां तादृशानां मधुकराणां-भ्रमराणां, सहस्रेण, उपसेवितं-संलग्नम् , पुनः अभिनवकल्पलतया नवीनकल्पाख्यदिव्यलतया, समीहिताश्लेषं समीहितः-चेष्टितः, प्रवर्तित इत्यर्थः, यद्वा अभिमतः, आश्लेषः-आलिङ्गनं यस्य तादृशम् , कीदृश्या? उत्फुल्लवल्लीनिकरपरिकरितया उत्फुलैःकुसुमितैः, वल्लीनिकरैः-लतागणैः, परिकरितया-व्याप्तया, पुनः किश्चिदासनवर्तिन्या किञ्चिन्निकटस्थया, पुनः परिम्लानसकलावयवयाऽपि परिम्लानाः-म्लानिमापन्नाः, सकलाः-सर्वे अवयवा यस्यास्तादृश्यापि, प्रतिकालं प्रत्यङ्गम् , उन्मीलदधिकाधिकसौ कुमार्यों उन्मीलत्-उद्भासमानम्, अधिकादपि अधिकम् , अत्यधिकमित्यर्थः, सौकुमार्य-मार्दवं यस्याः तादृशीम् , अङ्गलक्ष्मी अवयवशोभाम् , उद्वहन्त्या धारयन्त्येति विरोधः, तदुद्धारे तु अङ्गलक्ष्मी अवयवसमृद्धिम् , पुनः कीदृशम् ? ईषत् प्रौढिं किञ्चित्तारुण्यम् , आयातं प्राप्तम् [ध]।
च पुनः, दर्शनानुपदमेव प्रकृतपारिजातदर्शनानन्तरमेव, प्रबुद्धः जागरितः सन् , अचिरभाविनी शीघ्रभाविनी . प्रवृद्धविभवेन उत्कृष्टैश्वर्यशालिना, सख्या हरिवाहनेन सह, समागमप्राप्तिं सङ्गमलाभ, निरचैषीत् निश्चितवान् ।
च पुनः, स्वप्नस्य अनुपदोक्तस्वप्नस्य, विशेषावगतये फलविशेषज्ञानाय, कृतयत्नः कृतप्रयासः सन् , अतिमहतः अतिविपुलस्य, अश्ववृन्दस्य अश्वसमूहस्य,श्रवणपरुषहेषाध्वनि श्रवणकठोरहेषात्मकशब्दम् , अश्रौषीत् श्रुतवान् , कीदृशम् ? सहसैव अकस्मादेव, उच्चरन्तं उद्गच्छन्तम् ; पुनः अतितारं अत्युच्चम् ; पुनः उत्क्षिप्तगुरुकार्यभारस्य उत्क्षिप्तः-उदूढः, गुरुः-दुर्वहः, कार्यभारो येन तादृशस्य, भवतः तव, इयं वर्तमाना, प्रमादशक्तिः अनवधानपरता, किं किमर्था, इति इत्थं, तर्जयन्तमिव भर्त्सयन्तमिव; पुनः धीरप्रकृते! धीरस्वभाव! सरोदर्शनमात्रेणापि केवलनिरुक्तसरोवरावलोकनादपि, विस्मितोऽसि अनुभूताश्चर्योऽसि' इति इत्थम् , उपहसन्तमिव उपहासमाचरन्तमिव, पुनः तूर्ण क्षिप्रम् , एहि आगच्छ, रम्यप्रदेशपरम्परां मनोहरस्थानसन्तति, दर्शयामि दृष्टिगोचरीकारयामि' इति इत्थम् , आह्वयन्तमिव आकारयन्तमिव, पुनः वराहयूथपतिभिः शूकरगणाधिपतिभिः, ससम्भ्रमं ससत्वरम् , आकर्ण्यमानं श्रूयमाणम् , कीदृशैः? तत्क्षणत्यक्त. पङ्कावगाहकेलिभिः तत्क्षण-तत्कालं, त्यक्ता निवारिता, पङ्कावगाहकेलि:-पङ्कमजनक्रीडा यैस्तादृशैः, पुनः उत्कटभटितकर्णैः उत्क्षिप्तकर्णैः, कर्णपल्लवैः कर्णाभरणरूपपल्लवैः,उल्लसितरोमाञ्चभीषणाकृतिभिः उल्लसितैः- उद्गतैः,रोमाञ्चैः-भीषणाभयानिका, आकृतिः-शरीरं येषां तादृशैः, पुनः उन्नमितघोणैः उत्- ऊर्च, नमिता घोणा-नासिका यैस्तादृशैः, पुनः आघर्घरध्वनिगर्भगलगह्वरैः आघर्घरध्वनिगर्भः-अत्यन्तघर्घरात्मको ध्वनिः, गर्भ-अभ्यन्तरे यस्य तादृशो गलगह्वरः-कण्ठविवरं येषां तादृशैः; पुनः कीदृशम् ? समन्ततः सर्वतः, विजृम्भितभीमप्रतिशब्दया विजृम्भितः-अभिव्यक्तः, भीमः-भयानकः,
"Aho Shrutgyanam"