________________
तिलकमञ्जरी प्रत्युरसमपलप्यमानमुक्ताकलापः कूल एव मुहूर्तमानं स्थित्वा तस्य माधवीमन्दिरस्योदरालंकारभूते नभःपातमूर्छानिःस्पन्दमन्दाकिनीस्रोतस्त्विषि मुक्ताशिलातले तत्क्षणोद्धृतैरमलमौक्तिकावदातजललवावलीलाञ्छितैस्तरणितुरगखुरपुटाग्रखण्डितैराकाशशकलैरिव सतारकैरतिश्रमस्वेदकणिकाङ्कितकुन्तलीस्तनमण्डलाभोगविडम्बिभिस्तल्पीकृतैः पुटकिनीपलाशैर्निरन्तरमाच्छादिते द्वितीय इव सरसि शिरोभागनिहितपिण्डीकृतोत्तरीयांशुकः शनकैय॑षीदत् [द] ।
अथ पल्लवान्तरालपातिभिरुद्वेल्लितारविन्दिनीदलकलापैरुल्लासिताम्बुरुहपरागराशिभिरुत्सङ्गिततरङ्गशिखरशीकरासारैः सरलीकृतसारसक्रेङ्कारविरुतिभिः सौरभाहृतभ्रमरीनिकरझाङ्कारमनोहरैः संतापहारिभिः सरःसमीरैः सरभसपरिरभ्यमाणसर्वाङ्गः, प्रभूतकालपरिहृतदर्शनया प्रस्तुतपरिहासयेव कुतोऽप्यागत्य निद्रया मुद्रितनयनयुगलः, स्वप्ने रसातलात् तत्कालमेवोद्गतम्, अनेकपुष्पस्तबकसंबाधविटपच्छन्नमच्छिन्न
अमलोदबिन्दुसन्ततिभिः स्वच्छजलकणकलापैः, अनवरतं निरन्तरं, प्रत्युरसं वक्षःस्थले, अपलप्यमानमुक्ता. कलापः अपलप्यमानः-अपढूयमानः, मुक्ताकलापः-मुक्तामणिमाल्यं यस्य तादृशः, कूल एव तत्तट एव, मुहूर्तमात्रं क्षणमात्रं, स्थित्वा विश्रम्य, मुक्ताशिलातले मुक्तामणिरूपशिलापट्टे, शिरोभागनिहितपिण्डीकृतोत्तरीयांशुकः शिरोभागे-मस्तकाधस्तात्, उपधानरूपेणेत्यर्थः, निहितं-स्थापितं, पिण्डीकृतम्-आकुञ्चितम् , उत्तरीयम् अंशुकम्-सूक्ष्मश्लक्ष्णवस्त्रं येन तादृशः सन् , शनकैः शनैः, न्यषीदत् उपविष्टवान् इत्यग्रेणान्वेति, तस्य प्रकृतस्य, माधवीमन्दिरस्य माधवीलतामण्डपस्य, उदरालङ्कारभूते अभ्यन्तराभरणरूपे, पुनः नभःपातमूर्छानि स्पन्दमन्दाकिनीस्रोतस्त्विषि नभःपातेन-गगनमण्डलपतनेन, या मूर्छा-नष्टसंज्ञता, तया निःस्पन्दस्य-निश्चेष्टस्य, मन्दाकिन्याः-गङ्गायाः, स्रोतसः-प्रवाहस्येव, त्विट्-कान्तिस्मिस्तादृशे, पुनः पुटकिनीपलाशैः कमलिनीपत्रैः, निरन्तरं समग्रम् , आच्छादिते आस्तीर्णे, कीदृशैः ? तत्क्षणोद्धतैः तत्क्षणो नीतैः, पुनः अमलमौक्तिकावदातजललवावलीलाञ्छितैः अमलमौक्तिकवत्-उज्वलमुक्तामणिवत् , अवदातानां-निर्मलानां, जललवानां-जलबिन्दूनाम् , आवलीभिः-श्रेणीभिः, लाञ्छितैः-चिह्नितः, मिश्रितरित्यर्थः, पुनः तरणितरगखुरपुटाग्रखण्डितः तरणितुरगाणां-सूर्यसम्बन्धिनामश्वानां, खुरपुटैः-पुटितखुरैः, खण्डितैः-त्रोटितैः, सतारकैः तारकासहितैः, आकाशशकलैरिव आकाशखण्डैरिवेत्युत्प्रेक्षा, पुनः अतिश्रमखेदकणिकाङ्कितकुन्तलीस्तनमण्डलाभोगविडम्बिभिः अतिश्रमखेदकणिकाभिः-अत्यन्तश्रमजन्यधर्मोदकबिन्दुभिः, अक्षितानां- लाञ्छितानां, कुन्तलीस्तनमण्डलाना-कुन्त, लाख्यजनपदस्त्रीस्तनमण्डलानां, य आभोगः-विस्तारः, तद्विडम्बिभिः-तदनुकारिभिः, पुनः तल्पीकृतैः स्वशय्यारूपतामापादितैःपुनः कीदृशे ? द्वितीये प्रकृतसरोवरव्यतिरिक्ते, सरसि कासार इव [द] ।
अथ अनन्तरं, पल्लवान्तरालपातिभिः पल्लवान्तरालात्-पल्लवमध्यात्, पतनशीलैः, अवतरद्भिरित्यर्थः, पल्लवाभ्यन्तरवाहिभिरिति यावत्, पुनः उद्वेलितारविन्दिनीदलकलापैः उद्वेल्लितः-उद्धृतः, अरविन्दिनीदलकलापः-कमलिनीपत्रराशियस्तादृशैः, पुनः उल्लासिताम्बुरुहपरागराशिभिः उल्लासितः-उत्क्षिप्तः, अम्बुरुहाणां-कमलानां, परागराशि:-रजःपुजो यैस्तादृशैः, उल्लसितेति पाठे उल्लसितः- उद्गतः, पुनः उत्सङ्गिततरङ्गशिखरशीकरासारैः उत्सङ्गिताः-क्रोडीकृताः, तरङ्गशिखरवर्तिनः-तरङ्गोलस्यन्दिनः, शीकरासाराः-जलकणधारापाता यैस्तादृशैः, पुनः सरलीकृतसारसकेकारविरुतिभिः सरलीकृताः-विस्तारिताः, सारसानां-पक्षिबिशेषाणां, केकारात्मिकाः, विरुतयः-शब्दा यैस्तादृशैः, सौरभाहतभ्रमरीझाङ्कारमनोहरैः सौरभेण-परिमलेन, आहृतानाम्-आकृष्टानां, भ्रमरीणां, झाङ्कारैः-कोलाहलैः, मनोहरैः-सुन्दरैः, पुनः
न्तापहारिभिः सन्तापशमकैः, सर:समीरैः प्रकृतसरोवरपवनैः, सरभसपरिरभ्यमाणसर्वाङ्गः सरभसं-सवेगं परिरभ्यमाणानि-आलिङ्गयमानानि, सर्वाणि-समस्तानि, अङ्गानि-शरीरावयवा यस्य तादृशः, पुनः प्रभूतकालपरिहतदर्शनया प्रभूतकाल-प्रचुरकालं, परिहतं-परित्यक्तं, दर्शनं यस्यास्तादृश्या, प्रस्तुतपरिहासयेव प्रस्तुतः-प्रवर्तितः, परिहासो यया तादृश्येव, निद्रया, कुतोऽपि कस्माच्चित् स्थानात् , आगत्य उपस्थाय, मुद्रितनयनयुगलः मुद्रित-पिहितं,
"Aho Shrutgyanam"