________________
७८
टिप्पनक-परागविवृतिसंवलिता। च्छायया निवेद्यमानमार्ग इवाभ्यन्तरं विवेश । तत्र च तिरोभूतदर्शनैः प्रस्तुतपरिहासविलासैरिव जलदेवता. समूहैरद्भुताकारदर्शनोल्लसितावदातच्छविभिरच्छचन्दनरसच्छटाभिरिव दृष्टिभिराहन्यमानः स्नानमकरोत [त] । अपगताशेषाध्वश्रमश्च स्नानलग्नकमलपरिमलाकृष्टाभिः स्पर्शलालसेन सरसा संयमनार्थमिन्द्रनीलशृङ्खलाभिरिव प्रसारिताभिरलिमालाभिराकुली क्रियमाणः करेणुराज इव विलोलयन् कमलिनीखण्डानि, षडभिरिवाजिघ्रन् सहस्रदलकमलामोदम् , इन्दुरिव मोचयन् कुमुदमुकुलोदरसंदानितान्यलिकदम्बकानि, प्रदोष इव विघटयन रथाङ्गमिथुनानि, राजहंस इवोल्लसल्लहरीपरम्पराप्रेर्यमाणमूर्तिरुत्ततार [थ] । शीतोद्गतपुलकजालकानुकारेण सर्वाङ्गसङ्गिना कनकराजीवरेणुकणनिकरेणान्तःप्रविष्टदिनकरातपकणिकाकलापेनेव निपतता विराजमानो नीलकुटिलमन्तर्जलपाननिर्वापितस्य संतापवह्वेलर्ध्वमुल्लसितं धूमशिखाकलापमिव केशभारं वामकरकमलेन विमलीकुर्वाणो विलुलितकचान्तःपातिनीभिरनवरतममलोदबिन्दुसंततिभिः
पेन, निवेद्यमानमार्ग इव निवेद्यमानः-दर्यमानो मार्गो यस्य तादृश इव अभ्यन्तरं सरोवरमध्यं, प्रविवेश प्रविष्टवान् । च पुनः, तत्र तस्मिन् सरोवरे, तिरोभूतदर्शनैः तिरोभूतं-प्रच्छन्नं दर्शनं येषां तादृशैः, पुनः प्रस्तुतपरिहास विलासैरिव प्रस्तुतः-प्रवर्तितः, परिहासविलासः-परिहासरूपः-केलिरूपो विलासः-शृङ्गारचेष्टाविशेषो यैस्तादृशैरिव, जलदेवतासमूहैः जलान्तर्वर्तिदेवतागणैः, अद्भुताकारदर्शनोल्लासितावदातच्छविभिः अद्भुतस्य-विस्मयजनकस्य, अदृष्टपूर्वस्येत्यर्थः, आकारस्य दर्शनेन, उल्लासिता-आविर्भूता, अवदाता-उज्वला, छविः-कान्तिर्यासां तादृशीभिः, अत एव अच्छचन्दनरसच्छटाभिरिव अच्छाना-विमलाना, चन्दनरसानां-चन्दनद्रवाणां, छटाभिः-धाराभिरिव, दृष्टिभिः लोचनैः, आहन्यमानः प्रहियमाणः सन् , स्नानं मजनम् , अकरोत् कृतवान् [त]। च पुनः, अपगताशेषाध्वश्रमः अपगतः-निवृत्तः, अशेषः-समग्रः, अध्वश्रमः-मार्गगमनखेदो यस्य तादृशः, स्नानलग्नकमलपरिमलाकृष्टाभिः स्नानलग्नाना-नानसंपृक्तानांकमलानां, परिमलैः-सौरभैः, आकृष्टाभिः-विलोभिताभिः, पुनः स्पर्शलालसेन तदीयस्पर्शात्यन्ताभिलाषिणा, सरसा निरुक्तसरोवरेण, संयमनार्थ तन्नियन्त्रणार्थम् , इन्द्रनीलशृङ्खलाभिरिव इन्द्रनीलमणिमयनिगडैरिव, प्रसारिताभिः विस्तारिताभिः, अलिमालाभिः भ्रमरश्रेणीभिः, आकुलीक्रियमाणः व्यग्रतामापाद्यमानः सन् , करेणुराज इव गजाधिपतिरिव, कमलिनीखण्डानि कमलिनीवनानि, विलोलयन् प्रकम्पयन् , पुनः षड रिव षड् अङ्ग्रयः-पादा यस्य स षडनि4मरः स इव, सहस्रदलकमलामोदं सहस्रदलान्वितकमलोत्कटसौरभम् , आजिघ्रन् घ्राणेन्द्रियजन्यसाक्षात्कारगोचरीकुर्वन् , पुनः इन्दुरिव चन्द्र इव, कुमुदमुकुलोदरसन्दानितानि कुमुदानां-चन्द्रविकासिकमलानां, यानि मुकुलानि-कुङ्मलानि तेषाम् , उदरे-अभ्यन्तरे, सन्दानितानि-नियन्त्रितानि, अलिकदम्बकानि भ्रमरगणान् , मोचयन् निष्कासयन् , पुनः प्रदोष इव निशारम्भकाल इव, रथाङ्गमिथुनानि चक्रवाकद्वन्द्वानि, विघटयन् विश्लेषयन् , पुनः राजहंस इव हंसविशेष इव, उल्लसल्लहरीपरम्पराप्रेर्यम । उल्लसन्त्या-उद्वेलयन्या, लहरीपरम्परया-महातरङ्गश्रेण्या, प्रेर्यमाणासंचार्यमाणा, मूर्तिः-शरीरं यस्य तादृशः सन् , उत्ततार प्रकृतसरोवरस्योर्ध्वमागतवान् [थ]। शीतोद्गतपुलकजालकानुकारेण शीतेन-शीतलस्पर्शन, उद्गतम्-उत्थितं यत् पुलकजालक-रोमाञ्चसमूहः, तदनुकारेण-तदनुकारिणा, पुनः सर्वाङ्गसङ्गिना सर्वावयवव्यापिना, पुनः अन्तःप्रविष्टदिनकरातपकणिकाकलापेनेव अन्तःप्रविष्टानाम्-अन्तर्गतानां, दिनकरातपकणिकाना-सूर्यकिरणकणानां, कलापेन-समूहेनेव, निपतता विगलता, कनकराजीवरेणुकणनिकरेण कनकराजीवाना-सुवर्णकमलानां, ये रेणवः-परागाः, तदीयकणानां, निकरेण-समूहेन, विराजमानः संदीप्यमानः, पुनः नीलकुटिलं नीलं-कृष्णवर्ण, कुटिलं-वक्रं च, पुनः अन्तर्जलपाननिर्वापितस्य अन्तः शरीराभ्यन्तरे, यत् जलपानं-जलसंक्रमणं, तेन निर्वापितस्य-प्रशमितस्य, सन्तापवढेः सन्तापाग्निसम्बन्धिनम् , ऊर्ध्व शरीरोपरि, उल्लसितं उत्थितम् , धूमशिखाकलापमिव धूम्रजटासमूहमिवेत्युत्प्रेक्षा, केशभारं केशपाशं, वामकरकमलेन दक्षिणेतरपाणिरूपकमलेन, विमलीकुर्वाणः विशोधयन्, पुनः विललितकचान्तःपातिनीभिः विलुलितानां-विक्षिप्तानां, कचाना-केशानाम्, अन्तः-मध्यात् , पतनप्रवृत्ताभिः,
"Aho Shrutgyanam"