________________
तिलकमञ्जरी मिदमिदानीन्तनम् , अन्यथा प्रथमोत्पन्नेऽस्मिन् कथं नाम मानससरः सरोराजशब्दमासादयेत्, कथं वा महत्त्वप्रसिद्धिमुदधिः । मन्ये चास्य महिमानमालोक्य संजातमत्सरा वडवानलच्छलेनान्तःसंतापमुद्वहन्तो भुवः प्रान्तेषु प्रतिवसन्ति जलधयः' इत्यादि चिन्तयन्नेव समुपजातमजनाभिलाषः कूलासन्नवर्तिनि विस्तीर्णे तरुणपल्लवान्तरिततरणित्विषि समुन्मिषत्ताम्रस्तबके मकरन्दपानपरवशालिनीशालिनि विशालमुक्ताशिलापट्टसनाथमध्ये माधवीलतासद्मनि निधाय मण्डलायमग्रबिसपल्लवग्रासविशदकण्ठानां जलदेवतानूपुरनिनादजर्जरै राजहंसानां श्रोत्रहारिभिः कोलाहलैरभ्यर्थित इवाकारित इव कृतस्वागत इव जलाभिमुखमुच्चचाल [ण] । सरभसोल्लासिततरङ्गभुजेन च सरसा चरणयोरुत्सृज्यमानार्घजल इव जङ्घयोर्विश्रम्यमाण इव वक्षसि परिष्वज्यमान इव तोयदर्शनोपजातौत्सुक्ययेव समकालमवतीर्णया पुरः पुरो गच्छन्त्या निजशरीर
गुणोपेते समग्रैः-समस्तैः, वरस्य-पत्युः, गुणैः उपेते-पूणे, अस्मिन् सरोवरे, सति विद्यमाने, केन कारणेन हेतुना, जगत्रयीतिलकभूतया भुवनत्रयतिलकरूपया, जहुकन्यया गङ्गया, पलितपाण्डुकरालशङ्खमण्डलः पलितैः-कर्दमैः, यद्वा पलितवत् श्वेतकेशवत् पाण्डु किञ्चित्पीतश्वेतं, श्वेतं वा करालं-भीषणं, शङ्खमण्डलं-कम्बुकलापो यस्मिन् , पक्षे पलितैः-जरया श्वेतकेशः, पाण्डु, करालं-तुङ्गंभीषणं वा, शङ्खमण्डलं-शिरोऽस्थिपञ्जरं यस्य तादृशः, जलधिः समुद्रः, पतिः वरः, वृतः स्वीकृतः[ढ]। इदं प्रत्यक्षभूतं सरः, इदानीन्तनं आधुनिकम्, इति व्यक्तं स्पष्टम्, अन्यथा चिरन्तनत्वे, अस्मिन् सरसि, प्रथमोत्पन्ने पूर्वमुत्पन्ने सति, मानससर: मानसाख्यं सरः, कथं नाम केन प्रकारेण, करमाद्धतोरित्यर्थः, सरोराजशब्दं सरसां राजा-श्रेष्ठः सरोराजः, तत्पदम् , आसादयेत् प्राप्नुयात्, अस्यैव तच्छब्दव्यपदेश्यतया औचित्यात्, वा यद्वा, उदधिः समुद्रः, कथं केन प्रकारेण, महत्त्वप्रसिद्धिं महत्त्वेन प्रख्यातिम् , आसादयेदिति शेषः । च पुनः, मन्ये
, महिमान महत्ताम् , अवलोक्य दृष्ट्वा, सातमत्सरा सजातः-उत्पन्नः, मत्सरः-एतदुत्कयोसहिष्णुता येषां तादृशाः, जलधयः समुद्राः, वडवानलच्छलेन वान्तर्गतवाडवाग्निव्याजेन, अन्तःसन्तापम् अन्तज्वरम्, उद्वहन्तः धारयन्तः, भुवः पृथिव्याः, प्रान्तेषु सीमासु, प्रतिवसन्ति निवसन्ति, इत्यादि इत्थं, चिन्तयन्नेव आलोचयन्नेव, समुपजातमजनाभिलाषः समुपजातः-सम्यगुत्पन्नः, मज्जनाभिलाषः-नानेच्छा यस्य तादृशः सन् , कलासन्नवर्तिनि तटनिकटवर्तिनि, पुनः विस्तीण दीर्घ, पुनः तरुणपल्लवान्तरिततरणित्विषि तरुणैः-परिणतः, विस्तीर्णै. रित्यर्थः, पल्लवैः, अन्तरिता-आवृता, निरुद्धेत्यर्थः, तरणेः-सूर्यस्य, त्विट् द्युतिर्यस्य, पुनः समुन्मिषत्ताम्रस्तबके समुन्मिषन्तिसमुद्भासमानानि, ताम्राणि-रक्तानि, स्तबकानि-पुष्पगुच्छा यस्मिंस्तादृशे, पुनः मकरन्दपानपरवशालिनीशालिनि मकरन्दपानपरवशाभिः-पुष्परसास्वादव्यासक्ताभिः, अलिनीभिः-भ्रमरीभिः, शालते-शोभते यस्तादृशे, पुनः विशालमुक्ताशिलापट्टसनाथमध्ये विशालैः-विस्तृतैः, मुक्ताशिलापट्टैः-मुक्ताख्यप्रस्तरपीठैः, सनाथं-सहितम् , अभ्यन्तरं यस्य तादृशे, माधवीलतासद्मनि वासन्तीलतापिहितोदरगृहे, मण्डलाग्रं कृपाणं, निधाय स्थापयित्वा, अग्रबिसपल्लवग्रासविशदकण्ठानां बिसानां मृणालानां, पल्लवः-नूतनदलं कमलमित्यर्थः, तस्य यद् अप्रं तद्रासेन-तद्भक्षणेन, विशदः-विशुद्धः, कण्ठो येषां तादृशानां, राजहंसानां हंसविशेषाणां, जलदेवतानूपुरनिनादजर्जरैः जलदेवतानां-जलान्तर्वर्तिदेवतानां, नूपुरनिनादैः-पादवलयध्वनिभिः, जर्जरैः--प्रवृद्धैः, श्रोत्रहारिभिः श्रवणाकर्षिभिः, कोलाहलैः, अभ्यार्थित इव प्रार्थित इव, पुनः आकारित इव आहूत इव, पुनः कृतस्वागत इव कृतम्-उच्चारितं, स्वागतम्-आगमनसौष्ठवोपपादकवाक्यं यस्य तादृश इव, जलाभिमूखं जलसम्मुखम् , उच्चचाल चलितुं प्रवृत्तः। च पुनः, सरभसोल्लासिततरङ्गभुजेन सरभसं-सत्वरम् , उल्लासिताः-उत्थापिताः, तरङ्गा एव भुजाः-बाहवो येन तादृशेन, सरसा प्रकृतसरोवरेण, चरणयोः पादयोः, उत्सृज्यमानार्घजल इव उत्सृज्यमानम्-उत्क्षिप्यमाणम् , अर्घरूपं पादप्रक्षालनार्थ जलं यस्य तादृश इव, पुनः जङ्घयोः ऊरुद्वये, विश्रयमाण इव अध्वगमनश्रमापनोदनमापाद्यमान इव, पुनः वक्षसि उरःस्थले, परिष्वज्यमान इव आलिङ्गयमान इव, पुनः तोयदर्शनोपजातीत्सुक्ययेव तोयदर्शनेन-प्रकृतसरोवरोदकदर्शनेन, समुपजातम्-उत्पन्नम् , औत्सुक्यं-तदवगाहनौत्कण्ठयं यस्यास्तादृश्येव, समकालमेव युगपदेव, उत्थितया उच्चलितया, पुनः पुरः पुरः अग्रे अग्रे, गच्छन्त्या, निजशरीरच्छायया स्वशरीरानात
"Aho Shrutgyanam"