Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 92
________________ ८० टिप्पनक-परागविवृतिसंवलिता। संतानमधुकरसहस्रोपसेवितमुत्फुल्लवल्लीनिकरपरिकरितया किश्चिदासन्नवर्तिन्या परिम्लानसकलावयवयाऽपि प्रतिकालोन्मीलदधिकाधिकसौकुमार्यामङ्गलक्ष्मीमुद्वहन्त्याऽभिनवकल्पलतया समीहिताश्लेषमीषत्प्रौढिमायातं पारिजातद्रुममद्राक्षीत् [ध] । दर्शनानुपदमेव च प्रबुद्धः प्रवृद्धविभवेन सख्या सह समागमप्राप्तिमचिरभाविनीं निरचैषीत् । विशेषावगतये च स्वप्नस्य कृतयत्नः सहसैवोच्चरन्तमतितारम् 'उत्क्षिप्तगुरुकार्यभारस्य भवतः किमियं प्रमादशक्तिः' इति तर्जयन्तमिव, 'धीरप्रकृते ! सरोदर्शनमात्रेणापि विस्मितोऽसि' इत्युपहसन्तमिव, 'तूर्णमेहि, दर्शयामि रम्यप्रदेशपरम्पराम्' इत्याह्वयन्तमिव, तत्क्षणत्यक्तपङ्कावगाहकेलिभिरुत्कटभटितकर्णैः कर्णपल्लवैरुल्लसितरोमाञ्चभीषणाकृतिभिरुन्नमितघोणैराघर्घरध्वनिगर्भगलगह्वरैर्वराहयूथपतिभिः ससंभ्रममाकर्ण्य नयनयुगलं-नेत्रद्वयं यस्य तादृशः, स्वप्ने शयनावस्थायां, पारिजातद्रुमं पारिजातवृक्षम् , अद्राक्षीत् दृष्टवान् । कीदृशम् ? रसातलात् पातालात्, तत्कालमेव तत्क्षणमेव, उद्गतं ऊर्वमागतम् , पुनः अनेकपुष्पस्तबकसंबाधविटपच्छन्नम् अनेकैः-बहुभिः, पुष्पस्तबकैः-पुष्पगुच्छैः, संबाधाः-संकुलाः, ये विटपाः- शाखाः, तैः छन्नम्-आवृतम् , पुनः अच्छिन्नसन्तानमधुकरसहस्रोपसेवितं अच्छिन्नः-अविश्रान्तः, सन्तानः-परम्परा येषां तादृशानां मधुकराणां-भ्रमराणां, सहस्रेण, उपसेवितं-संलग्नम् , पुनः अभिनवकल्पलतया नवीनकल्पाख्यदिव्यलतया, समीहिताश्लेषं समीहितः-चेष्टितः, प्रवर्तित इत्यर्थः, यद्वा अभिमतः, आश्लेषः-आलिङ्गनं यस्य तादृशम् , कीदृश्या? उत्फुल्लवल्लीनिकरपरिकरितया उत्फुलैःकुसुमितैः, वल्लीनिकरैः-लतागणैः, परिकरितया-व्याप्तया, पुनः किश्चिदासनवर्तिन्या किञ्चिन्निकटस्थया, पुनः परिम्लानसकलावयवयाऽपि परिम्लानाः-म्लानिमापन्नाः, सकलाः-सर्वे अवयवा यस्यास्तादृश्यापि, प्रतिकालं प्रत्यङ्गम् , उन्मीलदधिकाधिकसौ कुमार्यों उन्मीलत्-उद्भासमानम्, अधिकादपि अधिकम् , अत्यधिकमित्यर्थः, सौकुमार्य-मार्दवं यस्याः तादृशीम् , अङ्गलक्ष्मी अवयवशोभाम् , उद्वहन्त्या धारयन्त्येति विरोधः, तदुद्धारे तु अङ्गलक्ष्मी अवयवसमृद्धिम् , पुनः कीदृशम् ? ईषत् प्रौढिं किञ्चित्तारुण्यम् , आयातं प्राप्तम् [ध]। च पुनः, दर्शनानुपदमेव प्रकृतपारिजातदर्शनानन्तरमेव, प्रबुद्धः जागरितः सन् , अचिरभाविनी शीघ्रभाविनी . प्रवृद्धविभवेन उत्कृष्टैश्वर्यशालिना, सख्या हरिवाहनेन सह, समागमप्राप्तिं सङ्गमलाभ, निरचैषीत् निश्चितवान् । च पुनः, स्वप्नस्य अनुपदोक्तस्वप्नस्य, विशेषावगतये फलविशेषज्ञानाय, कृतयत्नः कृतप्रयासः सन् , अतिमहतः अतिविपुलस्य, अश्ववृन्दस्य अश्वसमूहस्य,श्रवणपरुषहेषाध्वनि श्रवणकठोरहेषात्मकशब्दम् , अश्रौषीत् श्रुतवान् , कीदृशम् ? सहसैव अकस्मादेव, उच्चरन्तं उद्गच्छन्तम् ; पुनः अतितारं अत्युच्चम् ; पुनः उत्क्षिप्तगुरुकार्यभारस्य उत्क्षिप्तः-उदूढः, गुरुः-दुर्वहः, कार्यभारो येन तादृशस्य, भवतः तव, इयं वर्तमाना, प्रमादशक्तिः अनवधानपरता, किं किमर्था, इति इत्थं, तर्जयन्तमिव भर्त्सयन्तमिव; पुनः धीरप्रकृते! धीरस्वभाव! सरोदर्शनमात्रेणापि केवलनिरुक्तसरोवरावलोकनादपि, विस्मितोऽसि अनुभूताश्चर्योऽसि' इति इत्थम् , उपहसन्तमिव उपहासमाचरन्तमिव, पुनः तूर्ण क्षिप्रम् , एहि आगच्छ, रम्यप्रदेशपरम्परां मनोहरस्थानसन्तति, दर्शयामि दृष्टिगोचरीकारयामि' इति इत्थम् , आह्वयन्तमिव आकारयन्तमिव, पुनः वराहयूथपतिभिः शूकरगणाधिपतिभिः, ससम्भ्रमं ससत्वरम् , आकर्ण्यमानं श्रूयमाणम् , कीदृशैः? तत्क्षणत्यक्त. पङ्कावगाहकेलिभिः तत्क्षण-तत्कालं, त्यक्ता निवारिता, पङ्कावगाहकेलि:-पङ्कमजनक्रीडा यैस्तादृशैः, पुनः उत्कटभटितकर्णैः उत्क्षिप्तकर्णैः, कर्णपल्लवैः कर्णाभरणरूपपल्लवैः,उल्लसितरोमाञ्चभीषणाकृतिभिः उल्लसितैः- उद्गतैः,रोमाञ्चैः-भीषणाभयानिका, आकृतिः-शरीरं येषां तादृशैः, पुनः उन्नमितघोणैः उत्- ऊर्च, नमिता घोणा-नासिका यैस्तादृशैः, पुनः आघर्घरध्वनिगर्भगलगह्वरैः आघर्घरध्वनिगर्भः-अत्यन्तघर्घरात्मको ध्वनिः, गर्भ-अभ्यन्तरे यस्य तादृशो गलगह्वरः-कण्ठविवरं येषां तादृशैः; पुनः कीदृशम् ? समन्ततः सर्वतः, विजृम्भितभीमप्रतिशब्दया विजृम्भितः-अभिव्यक्तः, भीमः-भयानकः, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202