Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 90
________________ ७८ टिप्पनक-परागविवृतिसंवलिता। च्छायया निवेद्यमानमार्ग इवाभ्यन्तरं विवेश । तत्र च तिरोभूतदर्शनैः प्रस्तुतपरिहासविलासैरिव जलदेवता. समूहैरद्भुताकारदर्शनोल्लसितावदातच्छविभिरच्छचन्दनरसच्छटाभिरिव दृष्टिभिराहन्यमानः स्नानमकरोत [त] । अपगताशेषाध्वश्रमश्च स्नानलग्नकमलपरिमलाकृष्टाभिः स्पर्शलालसेन सरसा संयमनार्थमिन्द्रनीलशृङ्खलाभिरिव प्रसारिताभिरलिमालाभिराकुली क्रियमाणः करेणुराज इव विलोलयन् कमलिनीखण्डानि, षडभिरिवाजिघ्रन् सहस्रदलकमलामोदम् , इन्दुरिव मोचयन् कुमुदमुकुलोदरसंदानितान्यलिकदम्बकानि, प्रदोष इव विघटयन रथाङ्गमिथुनानि, राजहंस इवोल्लसल्लहरीपरम्पराप्रेर्यमाणमूर्तिरुत्ततार [थ] । शीतोद्गतपुलकजालकानुकारेण सर्वाङ्गसङ्गिना कनकराजीवरेणुकणनिकरेणान्तःप्रविष्टदिनकरातपकणिकाकलापेनेव निपतता विराजमानो नीलकुटिलमन्तर्जलपाननिर्वापितस्य संतापवह्वेलर्ध्वमुल्लसितं धूमशिखाकलापमिव केशभारं वामकरकमलेन विमलीकुर्वाणो विलुलितकचान्तःपातिनीभिरनवरतममलोदबिन्दुसंततिभिः पेन, निवेद्यमानमार्ग इव निवेद्यमानः-दर्यमानो मार्गो यस्य तादृश इव अभ्यन्तरं सरोवरमध्यं, प्रविवेश प्रविष्टवान् । च पुनः, तत्र तस्मिन् सरोवरे, तिरोभूतदर्शनैः तिरोभूतं-प्रच्छन्नं दर्शनं येषां तादृशैः, पुनः प्रस्तुतपरिहास विलासैरिव प्रस्तुतः-प्रवर्तितः, परिहासविलासः-परिहासरूपः-केलिरूपो विलासः-शृङ्गारचेष्टाविशेषो यैस्तादृशैरिव, जलदेवतासमूहैः जलान्तर्वर्तिदेवतागणैः, अद्भुताकारदर्शनोल्लासितावदातच्छविभिः अद्भुतस्य-विस्मयजनकस्य, अदृष्टपूर्वस्येत्यर्थः, आकारस्य दर्शनेन, उल्लासिता-आविर्भूता, अवदाता-उज्वला, छविः-कान्तिर्यासां तादृशीभिः, अत एव अच्छचन्दनरसच्छटाभिरिव अच्छाना-विमलाना, चन्दनरसानां-चन्दनद्रवाणां, छटाभिः-धाराभिरिव, दृष्टिभिः लोचनैः, आहन्यमानः प्रहियमाणः सन् , स्नानं मजनम् , अकरोत् कृतवान् [त]। च पुनः, अपगताशेषाध्वश्रमः अपगतः-निवृत्तः, अशेषः-समग्रः, अध्वश्रमः-मार्गगमनखेदो यस्य तादृशः, स्नानलग्नकमलपरिमलाकृष्टाभिः स्नानलग्नाना-नानसंपृक्तानांकमलानां, परिमलैः-सौरभैः, आकृष्टाभिः-विलोभिताभिः, पुनः स्पर्शलालसेन तदीयस्पर्शात्यन्ताभिलाषिणा, सरसा निरुक्तसरोवरेण, संयमनार्थ तन्नियन्त्रणार्थम् , इन्द्रनीलशृङ्खलाभिरिव इन्द्रनीलमणिमयनिगडैरिव, प्रसारिताभिः विस्तारिताभिः, अलिमालाभिः भ्रमरश्रेणीभिः, आकुलीक्रियमाणः व्यग्रतामापाद्यमानः सन् , करेणुराज इव गजाधिपतिरिव, कमलिनीखण्डानि कमलिनीवनानि, विलोलयन् प्रकम्पयन् , पुनः षड रिव षड् अङ्ग्रयः-पादा यस्य स षडनि4मरः स इव, सहस्रदलकमलामोदं सहस्रदलान्वितकमलोत्कटसौरभम् , आजिघ्रन् घ्राणेन्द्रियजन्यसाक्षात्कारगोचरीकुर्वन् , पुनः इन्दुरिव चन्द्र इव, कुमुदमुकुलोदरसन्दानितानि कुमुदानां-चन्द्रविकासिकमलानां, यानि मुकुलानि-कुङ्मलानि तेषाम् , उदरे-अभ्यन्तरे, सन्दानितानि-नियन्त्रितानि, अलिकदम्बकानि भ्रमरगणान् , मोचयन् निष्कासयन् , पुनः प्रदोष इव निशारम्भकाल इव, रथाङ्गमिथुनानि चक्रवाकद्वन्द्वानि, विघटयन् विश्लेषयन् , पुनः राजहंस इव हंसविशेष इव, उल्लसल्लहरीपरम्पराप्रेर्यम । उल्लसन्त्या-उद्वेलयन्या, लहरीपरम्परया-महातरङ्गश्रेण्या, प्रेर्यमाणासंचार्यमाणा, मूर्तिः-शरीरं यस्य तादृशः सन् , उत्ततार प्रकृतसरोवरस्योर्ध्वमागतवान् [थ]। शीतोद्गतपुलकजालकानुकारेण शीतेन-शीतलस्पर्शन, उद्गतम्-उत्थितं यत् पुलकजालक-रोमाञ्चसमूहः, तदनुकारेण-तदनुकारिणा, पुनः सर्वाङ्गसङ्गिना सर्वावयवव्यापिना, पुनः अन्तःप्रविष्टदिनकरातपकणिकाकलापेनेव अन्तःप्रविष्टानाम्-अन्तर्गतानां, दिनकरातपकणिकाना-सूर्यकिरणकणानां, कलापेन-समूहेनेव, निपतता विगलता, कनकराजीवरेणुकणनिकरेण कनकराजीवाना-सुवर्णकमलानां, ये रेणवः-परागाः, तदीयकणानां, निकरेण-समूहेन, विराजमानः संदीप्यमानः, पुनः नीलकुटिलं नीलं-कृष्णवर्ण, कुटिलं-वक्रं च, पुनः अन्तर्जलपाननिर्वापितस्य अन्तः शरीराभ्यन्तरे, यत् जलपानं-जलसंक्रमणं, तेन निर्वापितस्य-प्रशमितस्य, सन्तापवढेः सन्तापाग्निसम्बन्धिनम् , ऊर्ध्व शरीरोपरि, उल्लसितं उत्थितम् , धूमशिखाकलापमिव धूम्रजटासमूहमिवेत्युत्प्रेक्षा, केशभारं केशपाशं, वामकरकमलेन दक्षिणेतरपाणिरूपकमलेन, विमलीकुर्वाणः विशोधयन्, पुनः विललितकचान्तःपातिनीभिः विलुलितानां-विक्षिप्तानां, कचाना-केशानाम्, अन्तः-मध्यात् , पतनप्रवृत्ताभिः, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202