Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 89
________________ तिलकमञ्जरी मिदमिदानीन्तनम् , अन्यथा प्रथमोत्पन्नेऽस्मिन् कथं नाम मानससरः सरोराजशब्दमासादयेत्, कथं वा महत्त्वप्रसिद्धिमुदधिः । मन्ये चास्य महिमानमालोक्य संजातमत्सरा वडवानलच्छलेनान्तःसंतापमुद्वहन्तो भुवः प्रान्तेषु प्रतिवसन्ति जलधयः' इत्यादि चिन्तयन्नेव समुपजातमजनाभिलाषः कूलासन्नवर्तिनि विस्तीर्णे तरुणपल्लवान्तरिततरणित्विषि समुन्मिषत्ताम्रस्तबके मकरन्दपानपरवशालिनीशालिनि विशालमुक्ताशिलापट्टसनाथमध्ये माधवीलतासद्मनि निधाय मण्डलायमग्रबिसपल्लवग्रासविशदकण्ठानां जलदेवतानूपुरनिनादजर्जरै राजहंसानां श्रोत्रहारिभिः कोलाहलैरभ्यर्थित इवाकारित इव कृतस्वागत इव जलाभिमुखमुच्चचाल [ण] । सरभसोल्लासिततरङ्गभुजेन च सरसा चरणयोरुत्सृज्यमानार्घजल इव जङ्घयोर्विश्रम्यमाण इव वक्षसि परिष्वज्यमान इव तोयदर्शनोपजातौत्सुक्ययेव समकालमवतीर्णया पुरः पुरो गच्छन्त्या निजशरीर गुणोपेते समग्रैः-समस्तैः, वरस्य-पत्युः, गुणैः उपेते-पूणे, अस्मिन् सरोवरे, सति विद्यमाने, केन कारणेन हेतुना, जगत्रयीतिलकभूतया भुवनत्रयतिलकरूपया, जहुकन्यया गङ्गया, पलितपाण्डुकरालशङ्खमण्डलः पलितैः-कर्दमैः, यद्वा पलितवत् श्वेतकेशवत् पाण्डु किञ्चित्पीतश्वेतं, श्वेतं वा करालं-भीषणं, शङ्खमण्डलं-कम्बुकलापो यस्मिन् , पक्षे पलितैः-जरया श्वेतकेशः, पाण्डु, करालं-तुङ्गंभीषणं वा, शङ्खमण्डलं-शिरोऽस्थिपञ्जरं यस्य तादृशः, जलधिः समुद्रः, पतिः वरः, वृतः स्वीकृतः[ढ]। इदं प्रत्यक्षभूतं सरः, इदानीन्तनं आधुनिकम्, इति व्यक्तं स्पष्टम्, अन्यथा चिरन्तनत्वे, अस्मिन् सरसि, प्रथमोत्पन्ने पूर्वमुत्पन्ने सति, मानससर: मानसाख्यं सरः, कथं नाम केन प्रकारेण, करमाद्धतोरित्यर्थः, सरोराजशब्दं सरसां राजा-श्रेष्ठः सरोराजः, तत्पदम् , आसादयेत् प्राप्नुयात्, अस्यैव तच्छब्दव्यपदेश्यतया औचित्यात्, वा यद्वा, उदधिः समुद्रः, कथं केन प्रकारेण, महत्त्वप्रसिद्धिं महत्त्वेन प्रख्यातिम् , आसादयेदिति शेषः । च पुनः, मन्ये , महिमान महत्ताम् , अवलोक्य दृष्ट्वा, सातमत्सरा सजातः-उत्पन्नः, मत्सरः-एतदुत्कयोसहिष्णुता येषां तादृशाः, जलधयः समुद्राः, वडवानलच्छलेन वान्तर्गतवाडवाग्निव्याजेन, अन्तःसन्तापम् अन्तज्वरम्, उद्वहन्तः धारयन्तः, भुवः पृथिव्याः, प्रान्तेषु सीमासु, प्रतिवसन्ति निवसन्ति, इत्यादि इत्थं, चिन्तयन्नेव आलोचयन्नेव, समुपजातमजनाभिलाषः समुपजातः-सम्यगुत्पन्नः, मज्जनाभिलाषः-नानेच्छा यस्य तादृशः सन् , कलासन्नवर्तिनि तटनिकटवर्तिनि, पुनः विस्तीण दीर्घ, पुनः तरुणपल्लवान्तरिततरणित्विषि तरुणैः-परिणतः, विस्तीर्णै. रित्यर्थः, पल्लवैः, अन्तरिता-आवृता, निरुद्धेत्यर्थः, तरणेः-सूर्यस्य, त्विट् द्युतिर्यस्य, पुनः समुन्मिषत्ताम्रस्तबके समुन्मिषन्तिसमुद्भासमानानि, ताम्राणि-रक्तानि, स्तबकानि-पुष्पगुच्छा यस्मिंस्तादृशे, पुनः मकरन्दपानपरवशालिनीशालिनि मकरन्दपानपरवशाभिः-पुष्परसास्वादव्यासक्ताभिः, अलिनीभिः-भ्रमरीभिः, शालते-शोभते यस्तादृशे, पुनः विशालमुक्ताशिलापट्टसनाथमध्ये विशालैः-विस्तृतैः, मुक्ताशिलापट्टैः-मुक्ताख्यप्रस्तरपीठैः, सनाथं-सहितम् , अभ्यन्तरं यस्य तादृशे, माधवीलतासद्मनि वासन्तीलतापिहितोदरगृहे, मण्डलाग्रं कृपाणं, निधाय स्थापयित्वा, अग्रबिसपल्लवग्रासविशदकण्ठानां बिसानां मृणालानां, पल्लवः-नूतनदलं कमलमित्यर्थः, तस्य यद् अप्रं तद्रासेन-तद्भक्षणेन, विशदः-विशुद्धः, कण्ठो येषां तादृशानां, राजहंसानां हंसविशेषाणां, जलदेवतानूपुरनिनादजर्जरैः जलदेवतानां-जलान्तर्वर्तिदेवतानां, नूपुरनिनादैः-पादवलयध्वनिभिः, जर्जरैः--प्रवृद्धैः, श्रोत्रहारिभिः श्रवणाकर्षिभिः, कोलाहलैः, अभ्यार्थित इव प्रार्थित इव, पुनः आकारित इव आहूत इव, पुनः कृतस्वागत इव कृतम्-उच्चारितं, स्वागतम्-आगमनसौष्ठवोपपादकवाक्यं यस्य तादृश इव, जलाभिमूखं जलसम्मुखम् , उच्चचाल चलितुं प्रवृत्तः। च पुनः, सरभसोल्लासिततरङ्गभुजेन सरभसं-सत्वरम् , उल्लासिताः-उत्थापिताः, तरङ्गा एव भुजाः-बाहवो येन तादृशेन, सरसा प्रकृतसरोवरेण, चरणयोः पादयोः, उत्सृज्यमानार्घजल इव उत्सृज्यमानम्-उत्क्षिप्यमाणम् , अर्घरूपं पादप्रक्षालनार्थ जलं यस्य तादृश इव, पुनः जङ्घयोः ऊरुद्वये, विश्रयमाण इव अध्वगमनश्रमापनोदनमापाद्यमान इव, पुनः वक्षसि उरःस्थले, परिष्वज्यमान इव आलिङ्गयमान इव, पुनः तोयदर्शनोपजातीत्सुक्ययेव तोयदर्शनेन-प्रकृतसरोवरोदकदर्शनेन, समुपजातम्-उत्पन्नम् , औत्सुक्यं-तदवगाहनौत्कण्ठयं यस्यास्तादृश्येव, समकालमेव युगपदेव, उत्थितया उच्चलितया, पुनः पुरः पुरः अग्रे अग्रे, गच्छन्त्या, निजशरीरच्छायया स्वशरीरानात "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202