Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 62
________________ ५० टिप्पनक-परागविवृतिसंवलिता। द्रव्यजातम् , आराधयत मुक्त्वा छद्म पादपद्मद्वयं कोशलेन्द्रस्य । मुश्चत च सर्वात्मना मय्यपेक्षाम् , अहं हि प्रथमदर्शन एव देवेन भृत्यतां कुमारस्य नीतः, न तद्विरहितेन मया क्षणमपीह स्थातव्यम् , न च प्रवर्तितेन प्रदेशादितः पदमपि प्रतीपं गन्तव्यम् , तदनुजानीत मां जीवितपरित्यागाय यावदद्यापि न शृणोमि कुमारस्य चरमवार्ताम् , यावच्चैष चिरदर्शनोत्कण्ठितो न मे मार्गमवलोकयति तावत् त्वरित एव लोकान्तरगतं तमनुगच्छामि' इत्युदीर्य चिन्तितचिताप्रवेशश्चरणोत्क्षेपसमकालमुत्थितेन व्योमविवरव्यापिना शिबिरलोकाक्रन्दकलकलेन सूचितगतिक्रमः शैलनिम्नगापुलिनमुद्दिश्योदचलत् [फ] । - अत्रान्तरे पुरुषेणानुगम्यमानः प्रविश्य दौवारिको हर्षो नाम हर्षगद्गदमवादीत्-'कुमार! कुरु दृष्टिदानेनानुग्रहम् , एष परितोषनामा कमलगुप्तसेनापतेरत्यन्तमाप्तो लेखहारकः कुमारहरिवाहनस्य कुशलवार्तामावेदयति । श्रुत्वा चेदमाकस्मिकमतर्कितामृतवृष्टिकल्पं वचो झटिति विघटिताशेषशोकान्धकारं, पातालपङ्कादिवोन्मग्नम् , प्रलयघनदुर्दिनादिव निःसृतम् , कृतान्तमुखकुहरादिवाकृष्टम् , महाकालकरकपालोदरादिवोच्छलितम् , तक्षकाशीविषविषवेगवेदनयेवोन्मुक्तम् , अभिव्यक्तोपलक्षिताकाशकालदिग्विभागमव युवराजेन, हरिवाहनेनेति यावत्, यत्किञ्चित् यत् किमपि, द्रव्यजातं वित्तराशिः, अर्जितं लब्धं, तत्, अधिकारिणां तत्रत्यधनाध्यक्षाणाम् , अर्पयत अधीनीकुरुत; छद्म व्याज, मुक्त्वा अपहाय, कोशलेन्द्रस्य कोशलाधिपतेः, मेघवाहनस्येत्यर्थः, पादपद्मद्वयं चरणारविन्दयुगलम् , आराधयत सेवध्वम् । च पुनः, सर्वात्मना सर्वथा, मयि, अपेक्षां प्रीति, मुञ्चत त्यजत; हि यतः, अहं प्रथमदर्शन एव प्रथमावलोकनकाल एव, कुमारस्य हरिवाहनस्य, भृत्यतां परिचारकता, दैवेन भाग्येन, नीतः प्रापितः, तद्विरहितेन भृत्योचितकार्यरहितेन, मया, इह इह लोके, क्षणमपि मुहूर्तमपि, न स्थातव्यं स्थातुमुचितं, न जीवितव्यमित्यर्थः । च पुनः, प्रवर्तितेन प्रयातुं प्रेरितेनापि, मयेति शेषः, इतः अस्मात् प्रदेशात् , पदमपि पदमात्रमपि, प्रतीपं प्रतिकूलं, न गन्तव्यं गन्तुं शक्यम्, तत् तस्मात् , अद्यापि अधुनापि, कुमारस्य हरिवाहनस्य, चरमवार्ताम् अन्तिमवृत्तान्तम् , यावत् न शृणोमि श्रवणगोचरीकरोमि, तावदिति शेषः, जीवितपरित्यागाय प्राणविमोचनाय, माम् , अनुजानीत अनुमन्यध्वम् । च पुनः, एषः मनसा सन्निकृष्टः, हरिवाहनः, चिरदर्शनोत्कण्ठितः दीर्घकालं मदर्शनोत्सुकः सन् , मे मम, मार्ग न अवलोकयति पश्यति, मां न प्रतीक्षत इत्यर्थः, तावत् त्वरित एव, लोकान्तरगतं परलोकप्रस्थितं, तं हरिवाहनम् , अनुगच्छामि अनुसरामि, इति इत्थम् , उदीर्य उक्त्वा, चिन्तितचिताप्रवेशः आलोचितचिताप्रवेशः, चिताप्रवेशप्रवृत्त इत्यर्थः, चरणोत्क्षेपसमकालं तत्प्रवेशाय पादोद्वेलनसमकालम् , उत्थितेन उद्गतेन, व्योमविवरव्यापिना गगनरन्ध्रव्यापकेन, शिबिरलोकाक्रन्दकलकलेन सैन्यावासवर्तिजनकृताक्रन्दकोलाहलेन, सूचितगतिक्रमः प्रत्यायितगमनप्रकारः, शैलनिम्नगापुलिनं पर्वतीयनदीजलान्तरालस्थलम् , उद्दिश्य लक्ष्यीकृत्य, उदचलत् प्रस्थितः [फ] । अत्रान्तरे अस्मिन्नवसरे, पुरुषेण वक्ष्यमाणलेखहारकजनेन, अनुगम्यमानः अनुस्रियमाणः, हर्षो नाम हर्षसंज्ञकः, दौवारिकः द्वारपालकः, प्रविश्य तत्पार्श्वे प्रवेशं कृत्वा, हर्षगद्गदं हर्षप्रयुक्ताव्यक्ताक्षरं यथा स्यात् तथा, अवादीत् उक्तवान् । किमित्याह-कुमार! युवराज!, दृष्टिदानेन दृष्टिक्षेपेण, अनुग्रहं कृपा, कुरु, कमलगुप्तसेनापतेः तदाख्यसेनानायकस्य, अत्यन्तम् , आप्तः विश्वासास्पदं, परितोषनामा तत्संज्ञकः, अयं लेखहारकः पत्रवाहकः, कुमारहरिवाहनस्य युवराजहरिवाहनस्य, कुशलवाता कुशल वृत्तान्तम् , आवेदयति विज्ञापयति। आकस्मिकं असम्भावितपूर्वम्, अतर्कि कल्पं आकस्मिकामृतवृष्टितुल्यम् , इदम् अनुपदोक्तम् , वचः दौवारिकवाक्यं, श्रुत्वा श्रवणगोचरीकृत्य, विघटिताशेषशोकान्धकारं विघटितः-निवृत्तः, अशेषः-समग्रः, शोकान्धकारः-शोकात्मकान्धकारो यस्य तादृशम् , अत एव पातालपङ्कात् पातालकर्दमात , उन्मन्नमिव उद्गतमिव; पुनः प्रलयघनदुर्दिनात् प्रलयकालि कमेघाच्छन्नदिनात् , निःसृतमिव निर्गतमिव; पुनः कृतान्तमुखकुहरात् यमराजमुखविवरात्, आकृष्टमिव उद्धृतमिव; पुनः महाकालकरकपालोदरात् महाकालस्य - महारुद्रस्य, करकपालोदरातू-हस्त स्थितकपालाभ्यन्तरात्, उच्छलितमिव उत्पतितमिव; पुनः तक्षकाशीविषविषवेदनया "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202