Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 84
________________ टिप्पनक- परागविवृति संवलिता । भुजङ्गमिव, कचिदत्यायतैस्तालविटपिभिः कुतूहलान्मृग्य माणगाम्भीर्यमानमिव, समदजलकरिनिनादभीषणाभिरनेकराजहंससंचरणरमणीयाभिश्चतुर्दिशमशेषजलधिविजिगीषया प्रस्थिताभिर्वरूथिनीभिरिव वीचिभिर्वाचालितभुवनम् [ङ ], अभ्यर्णवर्तिवैताढ्यपर्वतावतीर्णानामनेकशः प्रारब्धजलकेलिविभ्रमाणामुभयश्रेणिविद्याधरेन्द्रसुन्दरीणामनणुमेखलादामरमणीयैः फणिराजनद्धमध्यमम्भोधिमथनजातमदमुपहसितुमिव मन्दरमुन्नतिशालिभिर्नितम्बमण्डलैरतिस्फालमास्फालित मुत्ताननलिनी पलाशपर्यङ्कोप विष्टहंसैरमन्दमधु बिन्दुचन्द्रकितवारिभिरपारपरिमलामन्त्रिताभिः सरभसमापतन्तीभिरलिमालाभिर्मुखरितैः समन्तादु न्निद्र हेमारविन्दवनैर्विराजितं [च], प्रत्यूषायमाणं पद्मरागरक्तोत्पलखण्डैः, संध्यायमानमुन्मुद्रविद्रुमलतोपवनैः, प्रदोषायमाणमिन्द्रनीलेन्दीवरगहनैः चन्द्रोदयायमानमिन्दुकान्तकुमुदाकरैर मुक्ताट्टहासमिव पाण्डुफेनपिण्डैः, ७२ अम्भसि-जले, प्रतिफलनस्य- प्रतिबिम्बस्य, छलेन, क्वचित् कस्मिंश्चित् प्रदेशे, पवनतरलिततरङ्गसङ्गभङ्कुरैः पवनेन - वायुना, तरलितानां - व्याधूतानां तरङ्गाणां सङ्गेन- सम्पर्केण भङ्गुरैः - निपतितैः, पूगतरुभिः क्रमुकवृक्षैः करणैः, तरन्महाभुजङ्गमिव तरन्तः- प्लवमानाः, महाभुजङ्गाः - महासर्पा यस्मिंस्तादृशमिव ; पुनः क्वचित् कस्मिंश्चिद् भागे, अत्यायतैः अतिदीघैः, तालविटपिभिः तालवृक्षैः, कुतूहलात् औत्सुक्यवशात्, मृग्यमाणगाम्भीर्यमानमिव मृग्यमाणम् - अन्विष्यमार्ण परीक्ष्यमाणमिति यावत्, गाम्भीर्यस्य - निम्नतायाः, मानं - परिच्छेदो यस्य तादृशमिवेति सर्वत्रोत्प्रेक्षा ; पुनः वीचिभिः तरङ्गैः, वाचालितभुवनं वाचालितानि - मुखरीकृतानि, भुवनानि - लोका येन तादृशम् कीदृशीभिः ? समदजलकरिनिनादभीषणाभिः समदजलानां मदजलस्यन्दिनां, करिणां - हस्तिनां, निनादैः- चीत्कारैः, भीषणाभिः - भयानकाभिः, पुनः अनेकराज - हंस सञ्चरणरमणीयाभिः अनेकेषां राजहंसानां - हंसविशेषाणां सञ्चरणैः - प्रचारैः, रमणीयाभिः - मनोहराभिः, पुनः अशेषजलधिविजिगीषया अशेषाणां चतुर्दिग्वर्तिनां चतुर्णा, जलधीनां - समुद्राणां विजिगीषया विजेतुमिच्छया, चतुर्दिशं चतसृषु दिक्षु प्रस्थिताभिः प्रयाताभिः वरूथिनीभिरिव सेनाभिरिवेत्युत्प्रेक्षा; [ङ ] पुनः कीदृशम् ? अभ्यर्णवर्तिवैताढ्य पर्वतावतीर्णानां अभ्यर्णवर्तिनि निकटवर्तिनि वैताढ्यपर्वते, अवतीर्णानां आगतानाम् पुनः अनेकशः अनेकप्रकारैः, प्रारब्धजलकेलिविभ्रमाणां प्रारब्धाः - प्रवर्तिताः, जलकेलिविभ्रमाः - जलक्रीडाविलासा याभिस्तादृशीनाम्, उभयश्रेणिविद्याधरेन्द्र सुन्दरीणां दक्षिणोत्तर श्रेणिस्थविद्याधरराजरमणीनाम्, नितम्बमण्डलैः कटिपश्चाद्भागमण्डलैः, अतिस्फालं अतिमात्रम्, आस्फालितम् - आहतम् कीदृशैः ? अनणुमेखलादामरमणीयैः बृहत्काञ्चीसूत्रमनोहरैः; पुनः फणिराजनद्धमध्यं फणिराजेन - सर्पराजेन नद्धं मभ्यं - मध्यावयवो यस्य तादृशम्, पुनः अम्भोधिमथनजातमदं अम्भोधिमथनेन-समुद्रमन्थनसाहाय्येन जातः, मदः - अभिमानो यस्य तादृशम्, मन्दरं मन्दराचलम्, उपहसितुमिव तिरस्कर्तुमिव, उन्नतिशालिभिः उन्नतिशोभिभिः; पुनः समन्तात् सर्वतः, उन्निद्र हेमारविन्दवनैः उन्निद्राणां विकसि तानां, हेमारविन्दानां-सुवर्णकमलानां वनैः, विराजितं - शोभितम् कीदृशैः ? उत्ताननलिनीपलाशपर्यङ्कोपविष्टहंसैः उत्ताने, नलिनीपलाशपर्यङ्के-कमलिनीपत्ररूपपर्यङ्के, उपविष्टो हंसो येषु तादृशैः, पुनः अमन्दमधुबिन्दुचन्द्र कितवारिभिः अमन्दैः-प्रचुरैः, मधुबिन्दुभिः, चन्द्र कितानि - चन्द्रकाराङ्कितानि वारीणि - जलानि येषु तादृशैः, पुनः अपारपरिमलामन्त्रिताभिः अपारैः - अपरिच्छिन्नैः, परिमलैः - विमर्दोत्थितसौरभैः, आमन्त्रिताभिः - रसास्वादनार्थमाहूताभिः पुनः सरभसं सवेगम्, आपतन्तीभिः आगच्छन्तीभिः, अलिमालाभिः भ्रमरपतिभिः, मुखरितैः वाचालितैः [ च ]; पुनः कीदृशम् ? पद्मराग रक्तोत्पलखण्डैः पद्मरागो नाम - रक्तमणिः, तद्वद्रक्तवर्णानाम्, उत्पलानां - कमलानां, खण्डैः- वनैः, प्रत्यूषायमाणं प्रभातवदवभासमानम् ; पुनः उन्मुद्र विद्रुमलतोपवनैः उन्मुद्राणाम् उत्-उद्धृता, मुद्रा-संकोचो येषां तादृशानां, विकसितानामित्यर्थः, विद्रुमाणां प्रवालानां, उपवनैः, सन्ध्यायमानं सन्ध्यावदवभासनम् ; पुनः इन्द्रनीलेन्दीवरगहनैः इन्द्रनीलमणिवन्नीलवर्णकमलवनैः, प्रदोषायमाणं निशारम्भसमयवदवभासमानम्; पुनः इन्दुकान्तकुमुदाकरैः इन्दुः-चन्द्रः, कान्तःप्रियो येषां तादृशानां, यद्वा इन्दोः कान्तानां कुमुदानां - चंन्द्रविकासिकमलविशेषाणाम्, आकरैः- वनैः, चन्द्रोदयायमानं चन्द्रोदयवदवभासमानम्; पुनः पाण्डुकेनपिण्डैः पाण्डूनाम्, ईषत्पीतश्वेतवर्णाना, फेनानां - जलविकारविशेषाणाम्, पिण्डैः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202