________________
टिप्पनक- परागविवृति संवलिता ।
भुजङ्गमिव, कचिदत्यायतैस्तालविटपिभिः कुतूहलान्मृग्य माणगाम्भीर्यमानमिव, समदजलकरिनिनादभीषणाभिरनेकराजहंससंचरणरमणीयाभिश्चतुर्दिशमशेषजलधिविजिगीषया प्रस्थिताभिर्वरूथिनीभिरिव वीचिभिर्वाचालितभुवनम् [ङ ], अभ्यर्णवर्तिवैताढ्यपर्वतावतीर्णानामनेकशः प्रारब्धजलकेलिविभ्रमाणामुभयश्रेणिविद्याधरेन्द्रसुन्दरीणामनणुमेखलादामरमणीयैः फणिराजनद्धमध्यमम्भोधिमथनजातमदमुपहसितुमिव मन्दरमुन्नतिशालिभिर्नितम्बमण्डलैरतिस्फालमास्फालित मुत्ताननलिनी पलाशपर्यङ्कोप विष्टहंसैरमन्दमधु बिन्दुचन्द्रकितवारिभिरपारपरिमलामन्त्रिताभिः सरभसमापतन्तीभिरलिमालाभिर्मुखरितैः समन्तादु न्निद्र हेमारविन्दवनैर्विराजितं [च], प्रत्यूषायमाणं पद्मरागरक्तोत्पलखण्डैः, संध्यायमानमुन्मुद्रविद्रुमलतोपवनैः, प्रदोषायमाणमिन्द्रनीलेन्दीवरगहनैः चन्द्रोदयायमानमिन्दुकान्तकुमुदाकरैर मुक्ताट्टहासमिव पाण्डुफेनपिण्डैः,
७२
अम्भसि-जले, प्रतिफलनस्य- प्रतिबिम्बस्य, छलेन, क्वचित् कस्मिंश्चित् प्रदेशे, पवनतरलिततरङ्गसङ्गभङ्कुरैः पवनेन - वायुना, तरलितानां - व्याधूतानां तरङ्गाणां सङ्गेन- सम्पर्केण भङ्गुरैः - निपतितैः, पूगतरुभिः क्रमुकवृक्षैः करणैः, तरन्महाभुजङ्गमिव तरन्तः- प्लवमानाः, महाभुजङ्गाः - महासर्पा यस्मिंस्तादृशमिव ; पुनः क्वचित् कस्मिंश्चिद् भागे, अत्यायतैः अतिदीघैः, तालविटपिभिः तालवृक्षैः, कुतूहलात् औत्सुक्यवशात्, मृग्यमाणगाम्भीर्यमानमिव मृग्यमाणम् - अन्विष्यमार्ण परीक्ष्यमाणमिति यावत्, गाम्भीर्यस्य - निम्नतायाः, मानं - परिच्छेदो यस्य तादृशमिवेति सर्वत्रोत्प्रेक्षा ; पुनः वीचिभिः तरङ्गैः, वाचालितभुवनं वाचालितानि - मुखरीकृतानि, भुवनानि - लोका येन तादृशम् कीदृशीभिः ? समदजलकरिनिनादभीषणाभिः समदजलानां मदजलस्यन्दिनां, करिणां - हस्तिनां, निनादैः- चीत्कारैः, भीषणाभिः - भयानकाभिः, पुनः अनेकराज - हंस सञ्चरणरमणीयाभिः अनेकेषां राजहंसानां - हंसविशेषाणां सञ्चरणैः - प्रचारैः, रमणीयाभिः - मनोहराभिः, पुनः अशेषजलधिविजिगीषया अशेषाणां चतुर्दिग्वर्तिनां चतुर्णा, जलधीनां - समुद्राणां विजिगीषया विजेतुमिच्छया, चतुर्दिशं चतसृषु दिक्षु प्रस्थिताभिः प्रयाताभिः वरूथिनीभिरिव सेनाभिरिवेत्युत्प्रेक्षा; [ङ ] पुनः कीदृशम् ? अभ्यर्णवर्तिवैताढ्य पर्वतावतीर्णानां अभ्यर्णवर्तिनि निकटवर्तिनि वैताढ्यपर्वते, अवतीर्णानां आगतानाम् पुनः अनेकशः अनेकप्रकारैः, प्रारब्धजलकेलिविभ्रमाणां प्रारब्धाः - प्रवर्तिताः, जलकेलिविभ्रमाः - जलक्रीडाविलासा याभिस्तादृशीनाम्, उभयश्रेणिविद्याधरेन्द्र सुन्दरीणां दक्षिणोत्तर श्रेणिस्थविद्याधरराजरमणीनाम्, नितम्बमण्डलैः कटिपश्चाद्भागमण्डलैः, अतिस्फालं अतिमात्रम्, आस्फालितम् - आहतम् कीदृशैः ? अनणुमेखलादामरमणीयैः बृहत्काञ्चीसूत्रमनोहरैः; पुनः फणिराजनद्धमध्यं फणिराजेन - सर्पराजेन नद्धं मभ्यं - मध्यावयवो यस्य तादृशम्, पुनः अम्भोधिमथनजातमदं अम्भोधिमथनेन-समुद्रमन्थनसाहाय्येन जातः, मदः - अभिमानो यस्य तादृशम्, मन्दरं मन्दराचलम्, उपहसितुमिव तिरस्कर्तुमिव, उन्नतिशालिभिः उन्नतिशोभिभिः; पुनः समन्तात् सर्वतः, उन्निद्र हेमारविन्दवनैः उन्निद्राणां विकसि तानां, हेमारविन्दानां-सुवर्णकमलानां वनैः, विराजितं - शोभितम् कीदृशैः ? उत्ताननलिनीपलाशपर्यङ्कोपविष्टहंसैः उत्ताने, नलिनीपलाशपर्यङ्के-कमलिनीपत्ररूपपर्यङ्के, उपविष्टो हंसो येषु तादृशैः, पुनः अमन्दमधुबिन्दुचन्द्र कितवारिभिः अमन्दैः-प्रचुरैः, मधुबिन्दुभिः, चन्द्र कितानि - चन्द्रकाराङ्कितानि वारीणि - जलानि येषु तादृशैः, पुनः अपारपरिमलामन्त्रिताभिः अपारैः - अपरिच्छिन्नैः, परिमलैः - विमर्दोत्थितसौरभैः, आमन्त्रिताभिः - रसास्वादनार्थमाहूताभिः पुनः सरभसं सवेगम्, आपतन्तीभिः आगच्छन्तीभिः, अलिमालाभिः भ्रमरपतिभिः, मुखरितैः वाचालितैः [ च ]; पुनः कीदृशम् ? पद्मराग रक्तोत्पलखण्डैः पद्मरागो नाम - रक्तमणिः, तद्वद्रक्तवर्णानाम्, उत्पलानां - कमलानां, खण्डैः- वनैः, प्रत्यूषायमाणं प्रभातवदवभासमानम् ; पुनः उन्मुद्र विद्रुमलतोपवनैः उन्मुद्राणाम् उत्-उद्धृता, मुद्रा-संकोचो येषां तादृशानां, विकसितानामित्यर्थः, विद्रुमाणां प्रवालानां, उपवनैः, सन्ध्यायमानं सन्ध्यावदवभासनम् ; पुनः इन्द्रनीलेन्दीवरगहनैः इन्द्रनीलमणिवन्नीलवर्णकमलवनैः, प्रदोषायमाणं निशारम्भसमयवदवभासमानम्; पुनः इन्दुकान्तकुमुदाकरैः इन्दुः-चन्द्रः, कान्तःप्रियो येषां तादृशानां, यद्वा इन्दोः कान्तानां कुमुदानां - चंन्द्रविकासिकमलविशेषाणाम्, आकरैः- वनैः, चन्द्रोदयायमानं चन्द्रोदयवदवभासमानम्; पुनः पाण्डुकेनपिण्डैः पाण्डूनाम्, ईषत्पीतश्वेतवर्णाना, फेनानां - जलविकारविशेषाणाम्, पिण्डैः
"Aho Shrutgyanam"