________________
तिलकमञ्जरी आरब्धस्फोटनमिव प्रतिवेलास्फालितशिलातलोर्मिदण्डैः, कृतकटाक्षक्षेपमिव विवर्तनोत्तानतिमिगणैः, उपक्रान्तताण्डवमिव पवनाहतोद्दण्डवानीरवनैः [छ ], इतस्ततो नभस्तलादवतरतामानतपक्षपुटकण्ठनालानां जलचरपतत्रिमण्डलानां हेलानिपातजन्मना जर्जररवेण मुखरितोद्देशम् , आराधनोद्यतविद्याधरावर्जितहृदयतथा वैताढ्यमधिवसन्तीनां विद्यादेवतानामनवरतमापतद्भिर्वाहनैर्विहितानेकवृत्तान्तम् [ज] । तथाहि-- कचिद्धरणमहिषीफणीन्द्रपीतारविन्दवातम् , कचिच्चक्रायुधागरुडकृतक्रीडाजलप्रपातम्, क्वचिन्महामानसीसिंहचपेटास्फालितघनघटम् , कचिदच्युतातुरगखुरनाट्यवाचालितशिलातटम् , क्वचिन्मानसीहंसजग्धमुग्धमृणालम् , क्वचिद्ववाङ्कशीकुञ्जरकुम्भसिन्दूररञ्जितोर्मिजालम् [झ ], सौमित्रिचरितमिव विस्तारितो
टिप्पनकम् -[फणीन्द्रः-] पारिन्द्रः । अच्युता-अच्छुप्ता । जग्धं-भक्षितम् [झ] ।
पुजैः, आमुक्ताट्टहासमिव आमुक्तः-आविष्कृतः, अट्टहासः-महाहासो येन तादृशमिव; पुनः प्रतिवेलास्फालितशिलातलोर्मिदण्डैः प्रतिवेलं-प्रतितटम् , आस्फालितानि-आहतानि, शिलातलानि-पाषाणतलानि यस्तादृशैः, ऊर्मिदण्डैः-तरङ्गरूपैर्दण्डैः,
आरब्धस्फोटनमिव आरब्धं-कृतम् , आस्फोटन-पाषाणदारणादिजन्यगम्भीरध्वनिर्येन तादृशमिव पुनः विवर्तनोत्तानतिमिगणैः विवर्तनेन-पार्श्वपरिवर्तनेन, उच्छलनेनेति यावत् , उत्तानानां, तिमीना-शतयोजनविस्तारिणां मत्स्यानां, गणैः, कृतकटाक्षक्षेप मिव कृतः, कटाक्षस्य-अपाङ्गभागस्य, क्षेपः-विस्फारणं येन तादृशमिव; पुनः पवनाहतोहण्डवानीरवनैः पवनेनवायुना, आहतानाम्-उद्भूतानाम्, अत एव उद्दण्डानां-उद्धताना, वानीराणां-वेतसानां, वनैः, उपक्रान्तताण्डवमिव उपक्रान्त-प्रवर्तितं, ताण्डवं-नृत्यं येन तादृशमिवेति सर्वत्रोत्प्रेक्षा [छ पुनः इतस्ततः अत्र तत्र, नभस्तलात गगनतलात्, अवरतां आपतताम्, पुनः आनतपक्षपुटकण्ठनालानाम् आ-समन्तात् , नतम्-अधःपतनाय नम्रीभूतम् , पक्षपुट-परस्परसंश्लिष्टपक्षः, कण्ठनालं-कण्ठदण्डश्च येषां तादृशानां, जलचरपतन्त्रिमण्डलानां जलीयपक्षिगणानां, हेलानिपातजन्मना हेलया-क्रीडया, यो निपातः-जले स्खलनं, तजन्मना-तजनितेन, जर्जररवेन परिणतध्वनिविशेषेण, मुखरितोदेशं मुखरितःवाचालितः, उद्देशः-प्रदेशो यस्य तादृशम् ; पुनः आराधनोद्यतविद्याधरावर्जितहृदयतया आराधनाय- अर्चनाय प्रसन्नीकरणाय वा, उद्यतैः-प्रवृत्तैः, विद्याधरैः-वैताब्यवासिविद्याशालिजनैः, आवर्जितम्-आकृष्टं, हृदयं यासां तादृशतया, वैताढ्यं तत्संज्ञकपर्वतम् , अधिवसन्तीनां अधितिष्ठन्तीनां, विद्यादेवतानां विद्याधिष्ठात्रीणां, देवतानाम् , अनवरतं निरन्तरम् , आपतद्भिः आगच्छद्भिः, वाहनैः यानभूतैजींवैः, विहितानेकवृत्तान्तं विहिता:-कृताः, अनेके वृत्तान्ताः-प्रवृत्तयो यस्मिंस्तादृशम् [ज] । विहितवृत्तान्तानेव दर्शयति-तथाहीति । क्वचित् कस्मिंश्चिद् भागे, धरणमहिषीफणीन्द्रपीतारविन्दवातं धरणस्य-नागकुमाराधिपतेः, या महिषी-पट्टराज्ञी, तस्याः फणीन्द्रेण-सर्पराजेन, पीतः-पानकर्मीकृतः, अरविन्दवातःकमलपरिमलाढ्यपवनो यस्य तादृशम् , पुनः क्वचित् कस्मिंश्चित् प्रदेशे, चक्रायुधागरुडकृतक्रीडाजलप्रपातं चक्रायुधायाःचक्रमेव आयुधः-बाणो यस्यास्तादृश्याः, तत्संज्ञकदेवतायाः, गरुडेन-वाहनभूतपक्षिराजेन, कृतः क्रीडया जले, प्रपातः-प्रपतनं यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, महामानसीसिंहचपेटास्फालितघनघटं मनसि भवा मानसी, महती चासौ मानसी महामानसीत्यन्वर्थसंज्ञकदेवतायाः, वाहनभूतस्य सिंहस्य चपेटाभ्यां प्रसृताङ्गुलिकपाणितलाभ्याम् , आस्फालिताआहता, घनघटा-मेघमण्डली यस्मिंस्तादृशम् । पुनः क्वचित् कस्मिंश्चित् प्रदेशे, अच्युतातुरगखुरनाट्यवाचालितशिलातटं अच्युतायाः-खपदादस्खलिततयाऽन्वर्थतत्संज्ञिकाया, देवतायाः, तुरगस्य-बाहनभूताश्वस्य, खुरयोः, नाट्येन-नर्तनेन, वाचालितं-निनादितं, शिलातट-पाषाणमयं-तट-तीरं यस्य तादृशम् । पुनः क्वचित् कस्मिंश्चित् स्थाने, मानसीहंसजग्धमुग्धमृणालं मानस्याः-अनुपदोक्तान्वर्थताकतत्संज्ञकदेवतायाः, वाहनभूतेन हंसेन, जग्धाः-भक्षिताः, मृणाला:-कमलदण्डा यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, वज्राङ्कुशीकुञ्जरकुम्भसिन्दूररञ्जितोर्मिजालं वज्राङ्कुश्याः-वज्रमयाकुशरूपास्त्रवत्तयाऽन्वर्थतत्संज्ञिकायाः, देवतायाः, वाहनभूतस्य कुञ्जरस्य, गजस्य कुम्भसिन्दूरैः-मस्तकस्यन्दिसिन्दूरैः, रञ्जितं-रक्तीकृतम्, ऊर्मिजालं-तरङ्गराशियस्य तादृशम् [स] पुनःसौमित्रिचरितमिव सुमित्राया अपत्यं सौमित्रिः-लक्ष्मणः, तस्य चरितं
१० तिलक०
"Aho Shrutgyanam"