________________
टिप्पनक-परागविवृतिसंवलिता । मिलास्यशोभम् , विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् , कुलाचलत्रयमिव केसरिमहापद्मतिगिञ्छिभूषितं गगनमिव मकरमिथुनाध्यासितम् , दिनकरमिवानेकपत्ररथचक्राक्रन्दमुखरिताम्बरम् , रणाङ्गणमिवोत्कटशरारिबलाकाण्डकबरम् , मद्गुरुतरुचितमपि नमद्गुरुतरुचितम् , बकैरवभासितमपि नवकैरवभासितम् , विषैकसदनमप्यमृतमयम् , शङ्खनिधानमपि स्थैर्योपेतम् , गाम्भीर्येण सत्त्वबहुलतया प्रसादवत्त्वेन
टिप्पनकम्-सौमित्रिचरितमिव विस्तारितोर्मिलास्यशोभम् एकत्र विस्तारितलक्ष्मणभार्यामुखविभूषम् , अन्यत्र विस्तारितकल्लोलनर्तनशोभम् । विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् , एकत्र मधुरनूपुरशब्दविहितक्षोभम् , अन्यत्र मधुरहंसशब्दकृतक्षोभम् । कुलाचलत्रयमिव केसरिमहापद्मतिगिञ्छिभूषितम् , एकत्र केशरिमहापद्म-तिगिञ्छिना हृदालङ्कृतम् , अन्यत्र केशरवबृहत्कमलकिञ्जल्कशोभितम् । गगनमिव मकरमिथुनाध्यासितम् एकत्र मकर-मिथुनराशिसङ्गतम् , अन्यत्र मकरजलचरयुगलाध्यासितम् । दिनकर मिवानेकपत्ररथचक्राक्रन्दमुखरिताम्बरम्, एकत्र नानाश्वस्यन्दनरथानचीत्कारमुखरीकृताकाशम् , अन्यत्र नानापक्षिसंघातमुखरितगगनम् । गगनमिवोत्कटशरारिबलाकाण्डकवरम् एकत्रोद्भटबाणशत्रुसैन्यासमयकर्बुरम्, अन्यत्रोन्मदा बलाकापक्षि-अण्डकश्रेष्ठम् । महुरुतरुचितमपि न महुरुतचितम् मद्गुः-जलवायसः, यदि मद्गुशब्दितशोभितं कथं न मद्गुरुतचितम् , अन्यत्र नम्रमहावृक्षव्याप्तम् । बकैरवभासितमपि न बकैरवभासितम् यदि बकौघैः शोभितं कथं न बकैः शोभितम्, अन्यत्र नूतनकुमुदभूषितम् । विषैकसदनमपि अमृतमयं, विरोधः प्रकट एव, परिहारस्तु जलैकस्थानम् , अमृतेनैव निवृत्तं सुस्वादुजलत्वात् ।
जीवनोपाख्यानमिव, विस्तारितोर्मिलास्यशोमं विस्तारिता, उर्मीणां-तरङ्गाणां, लास्यस्य-नृत्यस्य, शोभा येन तादृशम् , पक्षे विस्तारिता-वर्णिता, ऊर्मिलायाः-लक्ष्मणपत्न्याः, आस्यस्य-मुखस्य शोभा कान्तियस्मिंस्तादृशम् ; पुनः विलासिनीगमनमिव विलासिनीनां-विलासशीलानां नारीणां, गमनमिव, कलहंसकलापकृतक्षोभं कलहंसानां-कादम्बजातीयपक्षिभेदानां, यद्वा कलानांमनोहरणां, हंसानाम् , कलापेन-मण्डलेन, कृतः क्षोभः-संचारो यस्मिंस्तादृशम् , पक्षे कलेन-अव्यक्तमधुरेण हंसकयोःनू पुरयोः, लापेन-ध्वनिना, कृतः क्षोभः-विलासिजनहृदयसम्भ्रमो येन तादृशम् ; पुनः कुलाचलत्रयमिव विन्ध्यशुक्तिमन्मलयेति महापर्वतत्रयमिव, केसरिमहापद्मतिगिञ्छिभूषितं केसरः-किअल्कोऽस्ति येषु तादृशाना, महापद्मानांमहतां कमलानां, तिगिञ्छिः-किजल्को यस्मिन् तादृशं, पक्षे केरि-महापद्मतिगिञ्छिनामकैः, हृदैः, भूषितं-अलङ्कृतम् ; पुनः गगनमिव आकाशमिव, मकरमिथुनाध्यासितं मकराणां-तजातीयजलचरजातिविशेषाणां, मिथुनैः-द्वन्द्वैः, पक्षे मकरमिथुनाभ्यां राशिभ्याम् , अध्यासितम्-अधिष्ठितम् ; पुनःदिनकरमिव सूर्यमिव, अनेकपत्ररथचक्राक्रन्दमखरिताम्बरं अनेकेषां-बहुविधानां पत्ररथानां-पतन्तं त्रायन्त इति पत्राणि-पक्षाः, तान्येव रथा येषां तादृशानां पक्षिणां, चक्रस्य-मण्डलस्य, पक्षे अनेकानि-बहूनि, सप्तेत्यर्थः, पत्राणि-अश्वरूपवाहनानि यस्य तादृशस्य रथस्य यच्चक्रम्-अङ्गविशेषः, तस्य आक्रन्देनकोलाहलेन पक्षे चीत्कारेण, मुखरितं-वाचालितम् , अम्बरं--गगनं येन तादृशम् । पुनः रणाङ्गणमिव रणक्षेत्रमिव, उत्कटशरारिबलाकाण्डकबरं उत्कटैः-उत्कृष्टैः, शरारीणां-पक्षिविशेषाणां, बलाकानां-बकपतीनां च, यद्वा बकजातिविशेषविसकण्ठिकानां च, अण्डकैः, पक्षे उत्कटाः-दुःसहाः, शरा:-बाणा यस्य तादृशेन, अरिबलेन-शत्रुसेनया, अकाण्डे-अनवसरे, वरं-श्रेष्ठम् , अन्यत्र कबरं-शबलम् ; पुनः महरुतरुचितमपि मद्नां-जलवायसानां, रुतैः-शब्दैः, रुचितमपि-मनोहरमपि. नमहरुतरुचितमिति विरोधः, तदुद्धारस्तु नमद्भिः-फलसम्पदा लम्बमानैः, गुरुभिः-विशालैः, यद्वा फलभारजन्यगुरुत्वविशिष्टैः, तरुभिः-वृक्षैः, चितं-व्याप्तम् , इत्यर्थेन; पुनः बकैः पक्षिविशेषैः, अवभासितमपि सुशोभितमपि, नवकैरवभासितमिति विरोधः, तदुद्धारे तु नवैः, कैरवैः-कुमुदैः, भासितम् । पुनः विषैकसदनमपि विषाणां-गरलानाम् , एकप्रधानं, सदनं-स्थानमपि, अमृतमयं सुधामयमिति विरोधः, विषसुधयोः परस्परविरुद्धतयैकत्रसहावस्थानायोगात्, तत्परिहारे तु विषस्य-जलस्य, यद्वा विषाणां-पद्मकेसराणां मृणालानां वा, एकसदनम् , तथा अमृतं-सुधा, तन्मयं-तेनेव निर्वृत्तं सुखादु
"Aho Shrutgyanam"