________________
तिलकमञ्जरी
विशालतागुणेन सेव्यतया च न केवलं विबुधानाम् , बुधानामपि मानसमधःकुर्वाणम् , अतिरमणीयम् , आनन्दकारि दृष्टेः, अदृष्टपाराभिधानं सरो दृष्टवान् [अ] ।
वन्येभैर्भृशमपि गाह्यमानकूले, कालुष्यं कलयति यत्र जातु नाम्भः । जात्यैवापहृतमलैः फलैरसक्त, संसक्तं तटकतकट्ठमावलीनाम् [८] ॥
तच्च त्रिभुवनैकसारभूतं सरः सरभसप्रसारिभिदृष्टिपातैर्निरन्तरस्फुटितकैरवाकरमिव कुर्वन्नपूर्वविस्मयाकुलीकृतमानसः सिंहलेन्द्रसूनुर्मनसि कृतवान्-अहो, द्रष्टव्यतामुपेतः संसारः, सारतां गतो जीवलोकः, लोकोत्तरं फलमवाप्तमुत्साहतरुणा, प्रकर्षो लब्धः परिपाकस्य शुभकर्मणा, पर्यन्तभूमिरधिष्ठिता कृतार्थभावस्य जन्मना, कोटिरध्यासिता पुण्यभागित्वस्य लोचनसृष्टया, दृष्टः समस्तरमणीयानां सीमा, विलोकितः
शङ्खनिधानमपि स्थैर्योपेतं यदि शङ्खनिधिः कथं स्थैर्योपेतः, अन्यत्र कम्बुनिधिः स्थिरं च । विबुधानां बुधानामपि मानसमधःकुर्वाणं विबुधानां-देवानां, बुधानां-विदुषां च, सम्बन्धि, मानसं सरश्चित्तं च अधः कुर्वाण-तिरस्कुर्वाणम् [अ]।
जलत्वात् ,पुनः शङ्कानिधानमपि चलनशीलशङ्खनामकनिधिरूपमपि, स्थैर्योपेतं स्थैर्येण-निश्चलत्वेन, उपेतं-युक्तमिति विरोधः, तदुद्धारे तु शङ्खना-कम्बूनां; निधानं-स्थानम् । पुनः गाम्भीर्येण अगाधतया, पक्षे अचापल्यगुणेन, सत्त्वबहुलतया जन्तुपूर्णतया, पक्षे सत्त्वगुणादीनां बहुलतया, प्रसादवत्त्वेन स्वच्छतया पक्षे प्रसादाख्यकाव्यगुणादिमत्त्वेन, विशालतागुणेन विस्तारगुणेन, पक्षे असङ्कुचितवृत्त्या, च पुनः, सेव्यतया सेवितुं योग्यतया, केवलं विबुधानां देवानां, मानसं तदाख्यसरोवरं न, अपि तु बुधानामपि पण्डितानां नराणामपि, मानसं हृदयं, अध:कुर्वाणं अधस्तादाकर्षत्, पक्षे तिरस्कुवाणम् ; पुनः अतिरमणीयं अतिमनोहरम् , पुनः दृष्टेः चक्षुषः, आनन्दकारि आनन्दोत्पादकम् [अ]।
तस्यैव सरोवरस्य जलस्वच्छता वर्णयति पद्येन-वन्येभैरिति । वन्येभैः वनहस्तिभिः, भृशं अत्यन्तं, गाह्यमानकूलेऽपि गाह्यमान-विलोड्यमानं, कूलं-तटं यस्य तादृशेऽपि, यत्र यस्मिन् सरोवरे, जातु कदाचित् , अम्भः जलं, कर्तृ, कालुष्यं आविलत्वं, न कलयति प्राप्नोति, तत्रैव हेतुमाह-जात्यैव जन्मनैव, अपहृतमलैः अपहृतं,-दूरीकृतं मलं यैस्तादृशः,
मलविद्वेषिभिरित्यर्थः, तटकतकमावलीनां तटवर्तिनिर्मलापरपर्यायकतकसंज्ञकवृक्षवनानां, फलैः, असक्तं न वर्तते स्वयं सक्तं-लग्नं यत्र तादृशम् , अनायासमित्यर्थः, यथा स्यात् तथा संसक्तं संलग्नम् [ट]।
___ च पुनः, त्रिभुवनैकसारभूतं त्रिभुवनस्य-त्रिलोक्याः, एकसारभूतम्-एकमात्रतत्त्वभूतं, तत् अनुपदवर्णितं, सरः कासारं, सरभसप्रसारिभिः सत्वरविस्फारिभिः, दृष्टिपातैः चक्षुर्विक्षेपैः, निरन्तरस्फुटितकैरवाकरमिव निरन्तरम्अविरतं, स्फुटितः-विकसितः, कैरवाणां-कुमुदानाम् , आकरः-वनं यास्मंस्तादृशमिव, कुर्वन् आपादयन् , अपूर्व विस्मयाकुलीकृतमानसः अपूर्वेण-अननुभूतपूर्वेण, विस्मयेन-आश्चर्येण, आकुलीकृतं-व्यग्रीकृतं, मानसं-हृदयं यस्य तादृशः, सिंहलेन्द्रसनः समरकेतुः, मनसि हृदि, कृतवान् आलोचितवान् , किमियाह-अहो आश्चर्य, संसारः, द्रष्टव्यतां दर्शनीयताम् , उपेतः आपन्नः, पुनः जीवलोकः मर्त्य भुवनं, सारतां श्रेष्ठता, गतः प्राप्तः, पुनः उत्साहतरुणा उत्साहात्मकवृक्षेण, लोकोत्तरं अपूर्व, फलम् , अवाप्तं प्राप्तम् , पुनः शुभकर्मणा पुण्यकर्मणा, परिपाकस्य परिणामस्य, प्रकर्षः उत्कर्षः, लब्धः प्राप्तः, पुनः जन्मना उद्भवेन, कृतार्थभावस्य कृतार्थतायाः, लब्धार्थताया इत्यर्थः, पर्यन्तभूमिः सीमास्थानम् , अधिष्ठिता अधिरूढा, पुनः पुण्यभागित्वस्य पुण्यवत्तायाः, कोटिः अत्युत्कर्षभूमिः, अध्यासिता आश्रिता, पुनः लोचनसृष्टया चक्षुरुत्पादनया, समस्तरमणीयानां अखिलमनोहरवस्तूनां, सीमा रामणीयकोत्कर्षविश्रामभूमिः, दृष्टः साक्षात्कृतः, पुनः कौतुकविधायिनां आनन्दजनकानाम् , अवधिः सीमा, विलोकितः निरीक्षितः, पुनः
"Aho Shrutgyanam"